सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/साप्तमिकमायास्यम्

६. साप्तमिकमायास्यम् ॥ अयास्य आङ्गिरसः । बृहती। पवमानस्सोमः॥

साप्तमिकमायास्यम्
साप्तमिकमायास्यम्.

पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥ ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥

पुनानस्सोमधारया। एऽ३ । औऽ३होऽ५वा॥ आपोऽ३ । वसाऽ२ । नआऽ३४५ । षाऽ३सीऽ२३४५ । आरत्नधाः । योनिमृता । स्यासाऽ३आ । औऽ३होऽ३ । दाऽ२३४सी ॥ उत्साऔऽ३हो ॥ दाइवोऽ२ । हिराऽ३४५ ॥ ण्याऽ३याऽ२३४५ः ॥ श्रीः ॥ उत्सोदेवोहिरण्ययः। एऽ३। औऽ३होऽ५वा ॥ ऊत्सोऽ३ । दाइवोऽ२ । हिराऽ३४५। ण्याऽ३याऽ२३४५ः । दूहानऊ । धार्दिवियाम् । माधूऽ३आ। औऽ३होऽ३ । प्रीऽ२३४याम् ॥ प्रत्नाऔऽ३हो ॥ साधाऽ२ । स्थमाऽ३४५ ॥ साऽ३दाऽ२३४५त् ॥ श्रीः ॥ प्रत्नꣳ सधस्थमासदत् । एऽ३ । औऽ३होऽ५वा ॥ प्रात्नाऽ३म् । सधाऽ२ । स्थमाऽ३४५ । साऽ३दाऽ२३४५त् । आपृच्छियाम् । धारुणंवा । जायाऽ३आ। औऽ३होऽ३ । षाऽ२३४सी ॥ नृभाऔऽ३हो ॥ धौतोऽ२ । विचाऽ३४५ ॥ क्षाऽ३णाऽ२३४५ः॥

दी. ९. उत्. ३. मा. २२. दा. ॥१२६॥


टिप्पणी

द्र. आयास्यम् (ग्रामगेयः ५११)

अथायास्यं बार्हतराथन्तरम्। उभौ वर्णौ समृद्ध्यै। मध्येनिधनं प्रतिष्ठायै। आदित्याश् च वा अंगिरसश्च स्वर्गे लोके ऽस्पर्धन्त। त ऐक्षन्त यतरे नो यतरान् याजयिष्यन्ति ते हास्यन्त इति। ते ऽङ्गिरसः पूर्वे यज्ञं समभरन्, श्वस्सुत्यान्ते ऽग्निम् आङ्गिरसं दूतं प्राहिण्वन्न् - इमान् न श्वस्सुत्याम् आदित्येभ्यः प्रब्रूहीति। स एत्याब्रवीद् - आदित्या, अङ्गिरसो व श्वस्सुत्यां प्राहुर् इति। तं होचुर् अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। तस्माद् इदम् अप्य् एतर्हि दूतम् आहुर् - अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। ते होचुर् उप तज् जानीत यथा अस्मान् एवांगिरसो याजयेयुर् न वयम् अङ्गिरसः। यदि याजयिष्यामो हास्यामहे, यद्य् उ न याजयिष्यामो यज्ञाद् यशसो ऽपक्रमिष्याम इति। तस्माद् उ ह वृतेन नापक्राम्ये, यज्ञाद यशसो नेद् अपक्रामाणीति॥जैब्रा ३.१८७

पदेन हापेयात्। स्वं वा यज्ञम् अभ्युपेयाद्। इदं च त्वया कृतम् इति वा। त एतम् आदित्यास् सद्यःक्रीयं यज्ञं समभरन्। ते ऽब्रुवन्न् अग्ने चिरं तद् यच् छ्व, इमाम् एव वयं तुभ्यम् अद्य सुत्यां प्रब्रूमः। तेषां नस् त्वं होतासि, गौर् आंगिरसो ऽध्वर्युर्, बृहस्पतिर् उद्गाता, अयास्यो ब्रह्मेति सर्वान् अवृणत। सो ऽब्रवीद् - दूतो वा अहं चरामीति। तम् अग्निं दूतं वृणीमह इत्य् एव दूतं चरन्तम् अवृणत। स एषां वृतोनापाक्रामत्। स पुनर् एत्याब्रवीद्, अङ्गिरस, आदित्या वो ऽद्यसुत्यां प्राहुर् इति। तेन होतुर् एव नो ऽवृथा इति। नेति होवाच। दूतो युष्माकम् अभूवं, वृत एवामीषाम् अस्म्य्, आद् अह नूनम् अमी युष्मन् मेधावितरा वा धीरतरा वाभूवन् य एतत् पूर्वे दृशन्न् इति। ते वृता नापाक्रामन्। त एत्यायाजयन्। तेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्य् अभिहितम् अयास्याय ब्रह्माश्वं नीत्वा स्वर्गं लोकम् अगच्छन्। अहीयन्ताङ्गिरसः। सो ऽयास्यस् सदृशाव् आत्मन श्रेयांसं वा प्रतिगृह्य व्यभ्रंशत। सो ऽकामयत सम् आत्मानं श्रीणीयेति। स एतत् सामापश्यत्। तेनात्मानं समश्रीणीत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यद् अत्रायास्यं भवति सम् एवैनद् एतेन श्रीणन्ति, भिषज्यन्त्य् एवैनम् एतेन । यद् व् अयास्यो ऽपश्यत् तस्माद् आयास्यम् इत्य् आख्यायते। जैब्रा ३.१८८

आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै। अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमाश्नात् स व्यभ्रंशत स एतान्यायास्यान्यपश्यत् तैरात्मानं समश्रीणाद्विभ्रष्टमिव वै सप्तममहर्यदेतत् साम भवत्यहरेव तेन संश्रीणाति - तांब्रा. १४.३