सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/सौहविषम्

सौहविषम्.
सौहविषम्

प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं ॥ ११६० ॥ ऋ. ९.१०९.१६
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥ ११६१ ॥
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥ ११६२ ॥

टिप्पणी

अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति - प्र वाज्य् अक्षार् इति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। तासु सौहविषम्। देवा वा असुरान् हत्वा अपूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्या स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पूता मेध्या अभवन्। ते ऽब्रुवन् सुहविषो वा अभूमेति। तद् एव सौहविषस्य सौहविषत्वम्। पूतो मेध्यो भवति य एवं वेद। - जैब्रा ३.१९६