सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/द्विहिंकारवामदेव्यम्

द्विहिंकारवामदेव्यम्
द्विहिंकारवामदेव्यम्.

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

टिप्पणी

पञ्चमं अहः -- तद् व् एवाचक्षते द्विहिंकारं वामदेव्यम् इति। पशवो वै सिमाः, पशवो रेवतयः, पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथो यद् एवैतस्मिन्न् अहन्न् ऊर्ध्वं शक्वरीभ्यः क्रूरम् इव क्रियते तद् एवैताभ्यां हिंकाराभ्यां शमयन्ति। - जैब्रा ३.१३२

अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। पवन्ते मद्यं मदम्। समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः॥ इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्। अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥ नृभिर् येमाणो हरियतो विचक्षणो राजा देवस् समुद्रियः॥ इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु द्विहिंकारं वामदेव्यम्। पशवो वै सिमाः। पशवो रेवतयः। पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा असंजानाना अपाक्रामन्। सो ऽकामयताभि मा पशवस् संजानीरन्। न मद् अपक्रामेयरु् इति । स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभिसमजानत। ततो ऽस्माद् अनपक्रामिणो ऽभवन्। तद् द्विहिंकारं भवति। हुम् इति वै पशवस् संजानते, हुम् इति माता पुत्रम् अभ्येति, हुम् इति पुत्रो मातरम्। तद् एतत् संज्ञानं पशूनां साम। अभ्य् एनं पशवस् संजानते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् ऐळं भवति - पशवो वा इळा, पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥जैब्रा ३.२१३

द्वादशाहे अष्टमं अहः - अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः - तांब्रा. १४.९.३