सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/द्वैगतम्

द्वैगतम्
द्वैगतम्.

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

सम्पाद्यताम्

टिप्पणी

अथ द्वैगतं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वै सर्वं यज्ञं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। ते मनुष्या यज्ञं न प्रजानन्। तद् व्यच्छिद्यत। ते देवमनुष्या अशनायन्न्, इतःप्रदानाद् धि देवा जीवन्त्त्य्, अमुतःप्रदानान् मनुष्याः। नेत ऊर्ध्वा आहुतयो ऽगच्छन्, नामुतो ऽर्वाची वृष्टिः प्रादीयत। ते देवा अयास्यम् अब्रुवन् - मनुष्या वै यज्ञं न प्रजानन्ति। तद् व्यच्छेदि। तेभ्यः परेहि यज्ञं विधेहीति। सो ऽयास्य एत्यैतेनैव साम्ना मनुष्येभ्यो यज्ञं व्यदधात्। सो ऽयं मनुष्येषु यज्ञो विहितः। स मनुष्येषूषित्वा स्वर्गं लोक पुनर् न प्राजानात्। सो ऽकामयत प्र स्वर्गं लोकं जानीयाम् इति। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकं पुनः प्राजानात्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोक य एवं वेद। अथो हास्यैतेनेव साम्ना यज्ञो विहितो भवति। स यद् अयास्यो ऽमुष्माल् लोकाद् इमं लोकम् आगच्छद्, अस्माल् लोकाद् अमुं लोकम् अगच्छत्, स इमौ लोकौ द्विर् अनुसमचरत्, तद् द्वैगतस्य द्वैगतत्वम्। अयास्यो ह वाव द्विगत्॥ जै. ब्रा ३.२१६