सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/ऋषभॅ पवमानः

९.६६.२५ पवमानस्य जङ्घ्नतो इति

ऋषभःपवमानः.
ऋषभः पवमानः

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।




२०. ऋषभᳲपवमानः ।। ऋषभः । गायत्री । पवमानस्सोमः ।।

हाहाउपवमाना ।। हाऽ३ । हाऽ३इ । स्याजाऽ२इघ्नाऽ२३४ताः । हरेश्चन्द्राअसाऽ१र्क्षाऽ३ता ।। जीराआऽ२३४जाइ ।। ओमोऽ३ । रशोवा । चाऽ५इषोऽ६”हाइ ।। श्रीः ।। हाहाउपवमानाः ।। हाऽ३ । हाऽ३इ । राथाऽ२इताऽ२३४माः । शुभ्रेभिश्शुभ्रशाऽ१स्ताऽ३माः ।। हरिश्चाऽ२३४न्द्राः ।। ओमोऽ३ । मरोवा । गाऽ५णोऽ६”हाइ ।।श्रीः।। हाहाउपवमाना ।। हाऽ३ । हाऽ३इ । वायाऽ२श्नूऽ२३४हाइ ।। रश्मिभिर्वाजसाऽ१ताऽ३माः ।। दधत्स्तोऽ२३४त्राइ ।। ओमोऽ३ । सुवोवा । राऽ५योऽ६”हाइ। ।।

दी. १५ उत्. ना. मा. १३. वि. ।।१८०।।


अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


सम्पाद्यताम्

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। ....ऋषभः पावमानो भवति। पशवो वै छन्दोमाः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते। - तां.ब्रा. १५.३.१७

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ ऋषभः पवमानः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। अथो हैषाम् एतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते॥जै.ब्रा. ३.२५०