सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/क्रौञ्चाद्यम्

क्रौञ्चाद्यम्.
क्रौञ्चाद्यम्.

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥ ऋ. ९.९८.१
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥

सम्पाद्यताम्

टिप्पणी

क्रौञ्चं भवति यदेव क्रौञ्चस्य ब्राह्मणं यत् द्वितीयेऽहनि - तांब्रा १४.११.२९

अथ क्रौञ्चम्। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्या इवैते यच् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। तन् मध्ये स्वारं भवति। प्राणो वै स्वरः। अभिषज्या इवैते यच् छन्दोमाः। द्वे द्वे अहनी समस्ताः। तद् यन् मध्ये स्वारं भवति प्राणम् एवैतच् छन्दोमेषु दधति भिषज्यन्त्य् एवैनान् एतेन॥जैब्रा ३.२२९