सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/सुरूपोत्तरम्

९.६६.२५ पवमानस्य जङ्घ्नतो इति

सुरूपोत्तरम्
सुरूपोत्तरम्.

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।


१५. सुरुपोत्तरम् ॥ सुरूपः । गायत्री। पवमानस्सोमः॥
पवमानौहोऽ२ । इया ॥ स्यजिघ्नाताऽ२ ः । हरेश्चन्द्रौहोऽ२ । इया । असृक्षाताऽ२ ॥ जीराअजौहोऽ२ । इया ॥ रशोचाऽ२३इषाऽ३४३ः ।। श्रीः ॥ पवमानौहोऽ२ । इया ॥ रथीतामाऽ२ः । शुभ्रेभिश्शौहोऽ२ । इया। भ्रशस्तामाऽ२ः ॥ हरिश्चन्द्रौहोऽ२ । इया ॥ मरुद्गाऽ२३णाऽ३४३ः । ॥श्रीः॥ पवमानौहोऽ२ । इया ॥ वियश्नूहाऽ२इ । रश्मिभिर्वौहोऽ२ । इया। जसातामाऽ२ः ॥ दधत्स्तोत्रौहोऽ२ । इया ॥ सुवीराऽ२३याऽ३४३म् ॥ ओऽ२३४५इ ॥डा।
दी. १२. उत् . १८. मा. ११. ज. ॥१७५॥

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०

सम्पाद्यताम्

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .......सुरूपं भवति यदेव सुरूपस्य ब्राह्मणम् - तांब्रा. १५.३.८

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५