सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/हरिश्रीनिधनम्

९.६६.२५ पवमानस्य जङ्घ्नतो इति

हरिश्रीनिधनम्.
हरिश्रीनिधनम्

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।


१६. हरिश्रीनिधनम् ॥ अङ्गिरसः। गायत्री। पवमानस्सोमः॥
पवमानस्यजिघ्नतः। पवमाना ॥ स्यजिघ्नताऽ२ः । हरेश्चन्द्राअसाहोऽ२ । क्षाताऽ२३ । हाउवा ।। जीराआऽ२३जाइ ॥ रशो। चाऽ२इषाऽ२३४औहोवा ॥श्रीः॥ पवमानोरथीतमः । पवमानाः ॥ रथीतमाऽ२ ः। शुभ्रेभिश्शुभ्रशाहोऽ२ । स्तामाऽ२३ः । हाउवा ॥ हराइश्चाऽ२३न्द्राः ॥ मरुत् । गाऽ२णाऽ२३४औहोवा ॥ श्रीः ॥ पवमानवियश्नुहि । पवमाना ॥ वियश्नुहाऽ२इ । रश्मिभिर्वाजसाहोऽ२ । तामाऽ२३ः । हाउवा ॥ दधात्स्तोऽ२३त्राइ ॥ सुवी। राऽ२याऽ२३४औहोवा ॥ हरिऽ३श्रीऽ२३४५ः ॥
दी. २२. उत . ३. मा. १३. जि. ॥१७६।।

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


सम्पाद्यताम्

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .....हरिश्रीनिधनं भवति। पशवो वै हरिश्रियः पशूनामवरुध्यै श्रियं च हरश्चोपैति तुष्टुवानः - तां.ब्रा. १५.३.९

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ हरिश्रीनिधनम्। प्रजापतौ ह वा अग्रे श्रीर् आस। स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर् मय्य् एषा स्याद् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन हरिश्रीर् इति प्रजापते श्रियम् अहरत्। तद् धरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं य एवं वेद। देवासुरा अस्पर्धन्त। तेषु होभयेष्व् एव श्रीर् आस। स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियम् इति। स एतत् सामापश्यत्। तेन हरिश्रीर् इत्य् एवासुराणां श्रियम् अवृंक्त। तद् व् एव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीर् एव साम। अश्नुते श्रियं, वृंक्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद। तत् त्र्यक्षरणिधनं भवति - त्रयो वा इमे लोका - एषां लोकानां विधृत्यै॥जैब्रा. ३.२४९

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)हारिवर्णम्(तंतेमदं) (१.४.१८)

हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)

हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)

हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)