सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/और्णायवाद्यम्

और्णायवाद्यम्.

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
स्वानैर्याति कविक्रतुः ।। ९३५ ।। ऋ. ९.९.१
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
महान्मही ऋतावृधा ।। ९३६ ।।
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः ।
वीत्यर्ष पनिष्टये ।। ९३७ ।।

टिप्पणी

और्णायवोत्तरम्

और्णायवे द्वे (ग्रामगेयः)

पृष्ठ्यषडहे चतुर्थमहः - परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च । आर्षेयकल्पः उपोद्घातः पृ. ७२

पृष्ठ्यषडहस्य चतुर्थमहः -- परि प्रिया दिवः कविर् इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः। प्रप्र क्षयाय पन्यस इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। स सूनुर् मातरा शुचिर् जातो जाते अरोचयद् इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथौर्णायवम्। ऊर्णायुर् वै गन्धर्वो ऽप्सरसो ऽकामयत। स एतत् सामापश्यत्। तेनास्तुत। तेन यां याम् अकामयत ताम ईयाम् इति यां याम् एवाभ्यमृशत् ताम् उपैत् ताम् अवारुन्द्ध। तद् एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् ऊर्णायुर् गन्धर्वो ऽपश्यत् तस्माद् और्णायवम् इत्य् आख्यायते॥जैब्रा ३.७६

अङ्गिरस स्वर्गकामास् सत्रम् आसत। ते स्वर्गं लोकं न प्राजानन्। स श्वित्र आंगिरसस् समिद्धारः परैत्। तम् ऊर्णायुर् गन्धर्व एतेन साम्नोपरिष्टाद् अभ्यवपत्याब्रवीत् - साम वा इदं स्वर्ग्यं, तेन स्तुध्वं, तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्यथ। मम त्व् एव साम ब्रूतात्। यस् त्वा पृच्छेत् - कस् त इदम् अवोचद् इत्य्, ऊर्णायुर् मे ऽवोचद् इत्य् एव ब्रूतात्। मैव मद् अन्यस्य वोच इति। स पुनर् एत्याब्रवीत् - साम वा इदं स्वर्ग्यम्। तेन स्तवामहै। तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्याम इति। तम् अब्रुवन् - कस् त इदम् अवोचद् इति। अहम् एवादर्शम् इत्य् अब्रवीत्। तेनास्तुवत। तेन स्तुत्वैव स्वर्गं लोकं प्रजानन्। तेषां स्वर्गं लोकं यतां सो ऽहीयत् अनृतं ह्य् अब्रवीत्, स एष श्वित्रो ऽभवत्। एते ह वा अहयो यच् छ्वित्राः। यद् अहीयत तद् अहीनाम् अहित्वम्। अथ हान्ये सर्पा एव। तस्माद् उ ह यस्माद् एवानुब्रवीत, तं ब्रूयाद् - अमुष्माद् अन्वोच इति। अथो ह सत्यम् एव विवदिषेत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। ॥जैब्रा ३.७७

ब्रह्माण्डपुराणे १.२.२३.१७ सूर्यरथव्यूहस्य संदर्भे कथनमस्ति - अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह ।। भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा । चित्रसेनश्च गंधर्व ऊर्णायुश्चैव तावुभौ ।। उर्वशी पूर्वचित्तिश्च तथैवाप्सरसा उभे । तार्क्षश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ।। विद्युत्स्फूर्जः शतायुश्च यातुधानावुदाहृतौ । सहे चैव सहस्ये च वसंत्येते दिवाकरे ।। जैमिनीयब्राह्मणे यः श्वित्र आंगिरसः अस्ति, ब्रह्माण्डपुराणे सः चित्रसेनः प्रतीयते। वैदिकवाङ्मये कामनापूर्त्यर्थं कल्पवृक्षस्य सर्जनं यजुर्वेदान्तर्गतः अस्ति। यदि ऊर्णायुः शब्दः ऊनायोः रूपमस्ति, तर्हि ऊनस्य पूर्तिः केन प्रकारेण करणीयम्, अयं अन्वेषणीयः। जैमिनीयब्राह्मणानुसारेण, अयं प्रतीयते यत् या षोडशीतः पूर्वा स्थितिरस्ति, तत् ऊना अस्ति। चतुर्थे अह्नि अन्तिमं गेयं साम षोडशीसाम अस्ति।