सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ५/जनित्रम्

जनित्रम्
जनित्रम्.

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः |
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || ९४३ ||
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां |
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ||९४४ ||
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः |
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ||९४५ ||

द्र. ग्रामगेये जनित्रे द्वे


१ जनित्रम् ।। वसिष्ठः । त्रिष्टुप् । पवमानस्सोमः ।।
हाउजनत् । सोमᳲपवा । तेऽ३जनि । तामतीनाम् ।। जनितादाइ । वोऽ३जनि । तापृथिव्याः ।। जनिताग्नाइः । जनिता । सूरियस्या ।। जनितेन्द्रा । स्याऽ३जनि । तोऽ३४३ । ताऽ३वाऽ५इ"ष्णोऽ६५६ः ।।श्रीः।। ब्रह्मादेवा । नाऽ३म्पद । वीᳲकवीनाम् ।। ऋषिर्विप्रा । णाऽ३म्महि । षोमृगाणाम्।। श्येनोगृध्रा । णाऽ३ꣳस्वधि । तिर्वनानाम् ।। सोमᳲपवाइ । त्राऽ३मति । आऽ३४३इ । तीऽ३राऽ५“इभाऽ६५६न्।। श्रीः ।। प्रावीविपात्। वाऽ३चऊ । मिन्नसिन्धूः ।। गिरस्तोमान् । पवमा । नोमनीषाः ।। अन्त ᳲपश्यान् । वृजने । मावराणी । हाउजनत्। आतिष्ठताइ । वृषभः । गोऽ३४३ । षूऽ३जाऽ५“नाऽ६५६न् ।।

दी. १९ उत्. १८. मा. २७. दे. ।।३०३।।