सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ५/लौशाद्यम्

लौशाद्यम्.
लौशाद्यम्.


प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि |
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः || ८८६ ||
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः |
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति || ८८७ ||
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः |
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि || ८८८ ||


२- लौशाद्यम् ।। लुशः । जगती । पवमानस्सोमः ।।
प्रतआश्वि । नीᳲपवमाऽ२३ । नाऽ३धेनवः ।। दिव्याअसृ । ग्रन्पयसाऽ२३ । धाऽ३रीमणि ।। प्रान्तरिक्षात् । स्थाविरीस्तेऽ२३ । आऽ३सृक्षत ।। येत्वामृजा । तिऋषिषाऽ२३ । णवाऽ३इधाऽ५“सा-
ऽ६५६ः ।।श्रीः।। उभयतः । पवमानाऽ२३ । स्याऽ३रश्मयः ।। ध्रुवस्यस । तᳲपरियाऽ२३ । तीऽ३केतवः ।। यदीपवि । त्रेअधिमाऽ२३ । ज्याऽ३तेहरिः ।। सत्तानियो । नौकलशाऽ२३इ । षुसाऽ३इदाऽ५“ताऽ६५६इ ।। श्रीः ।। विश्वाधामा । निविश्वचाऽ२३ । क्षाऽ३ऋभ्वसः ।। प्रभोष्टेस । त ᳲपरियाऽ२३ । तीऽ३केतवः ।। वियानशी । पवसेसोऽ२३ । माऽ३धर्मणा ।। पतिर्विश्वा । स्यभुवनाऽ२३ । स्यराऽ३जाऽ५“साऽ६५६इ ।।
दी. २८. उत. न. मा. १९. रो. ३०४।।