सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ८/अध्यर्द्धेडꣲसोमसाम
टिप्पणी
अथ सोमसाम। प्रजननं वै सोमः। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। अथो क्षत्रं वै सोमः। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥जैब्रा. ३.१९१॥