सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/अश्वव्रतम्

अश्वव्रतम्।
अश्वव्रतम्
अग्निचयने अश्वपरिक्रमणम्


अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः ।
सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ १८४३ ॥
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।
अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ १८४४ ॥
अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।
सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ १८४५

६. अश्वव्रतम् ॥ त्रिष्टुप् । अग्निः ॥
हौ । होइ । ह्वौ । होइ । ह्यौ । होइ । हौ । होऽ२ । वाऽ२३४औहोवा । एऽ३ । सुवर्ज्योतीऽ२३४५: । हौ । होइ । ह्वौ । होइ । ह्यौ । होइ । हौ। होs२ । वाs२३४ औहोवा । अभिवाजीविश्वरूपोजनित्राऽ२३४५म् ।। हौ । होइ । ह्वौ । होइ । ह्यौ । होइ । हौ । होऽ२ । वाऽ२३४औहोवा । एs३ । ज्योतिर्भाऽ२३४५: । हौ । होइ । ह्वौ । होइ । ह्यौ ।होइ । हौ । होs२ । वाऽ२३४औहोवा । हिरण्ययंबिभ्रत्कꣳसुपर्णाऽ१: ।। हौ। होइ । ह्वौ । होइ। ह्यौ। होइ। हौ।होऽ२। वाऽ२३४ औहोवा । एऽ३ । शिशुर्वाजीऽ१ । हौ। होइ। ह्वौ। होइ। ह्यौ। होइ। हौ। होऽ२ । वाऽ२३४ औहोवा । सूर्यस्य भानुमृतुथावसानाऽ२३४५: ।।। हौ । हो । हो२ । वाऽ२३४ औहौवा । ।। हौ । होइ । ह्वौ। होइ। ह्यौ । होइ । हौ । होइ । ह्वौ । होइ । ह्यौ । होइ । हौ । होऽ२ । वाऽ२३४औहोवा । एs३ । अश्वोमेध्याऽऽ२३४५: । हौ । होइ । ह्वौ । होइ ।। ह्यौ । होइ । हौ । होऽ२। वाऽ२३४औहोवा । परिस्वयम्मेधमृज्रोजजानाऽऽ२३४५ ॥ श्रीः ॥
अप्सुरेतश्शिश्रियेविश्वरूपाऽ२३४५म् ॥ तेजःपृथिव्यामधियत्संबभूवाऽ२३४५ ।। अन्तरिक्षेस्वंमहिमानंमिमानाऽ२३४५: ।। कनिक्रन्तिवृष्णोअश्वस्यरेताऽ२३४५: ।। श्रीः ।। अयꣳ सहस्रापरियुक्तावसानाऽ२३४५: ॥ सूर्यस्यभानुंयज्ञोदाधाराऽ२३४५ ॥ सहस्रदाश्शतदाभूरिदावाऽ२३४५ ॥ धर्तादिवोभुवनस्यविश्पतीऽ२३४५: । हौ । होइ । ह्वौ । होइ । ह्यौ । होइ । हौ । होऽ२ । वाs२३४औहोवा । एऽ३ । सुवर्वतेऽ२३४५ ॥
दी. ९५. उ. ७. मा. ४८. फै. ॥९८।।


सम्पाद्यताम्

टिप्पणी

उदञ्चमश्वमुत्क्रमय्यास्ताव उपविश्योद्गाताश्वव्रतेन स्तुयादभिवाजो विश्वरूप इत्येतासु। हिरण्यकशिपुन्यासीनो बहिष्पवमानेन स्तुत्वा स एव तद्धरेत्। लाट्यायण श्रौतसूत्रम् ९.९.२२

अश्वत्रिरात्रः - उदञ्चमश्वमुत्क्रमय्य आस्तावे यो म आत्मेत्युपवेशानन्तरमुद्गाता अश्वव्रतेन स्तुयात् अभि वाजी विश्वरूप (सा० १८४३-५ ) इति तृचस्थेन । उत्तरयोरपि स्तोत्रीययोर्हौहोईत्यादि स्तोत्रं प्रतिपदमाहरेत् । आर्षेयकल्पः ६ (पृ ३१९)