सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/पार्थुरश्मम्

५. पार्थुरश्मम् । पृथुरश्मिः । प्रजापतिः। पङ्क्तिः । इन्द्रः॥

पार्थुरश्मम्
पार्थुरश्मम्

ए꣡स्वादो꣢᳐: । ओ꣣ऽ२३४वा꣥ ॥ इ꣢त्था꣡꣯विषूऽ᳒२᳒वता꣡: । अथा ॥ एमधो꣢᳐: । ओ꣣ऽ२३४वा꣥ ।। पि꣢ब꣡न्तिगौऽ᳒२᳒रिया꣡: । अथा ॥ एयाई꣢᳐ । ओ꣣ऽ२३४वा꣥ ।। द्रे꣢꣯ण꣡सयाऽ᳒२᳒वरा꣡इ । अथा ।। एवृष्णा꣢᳐ । ओ꣣ऽ२३४वा꣥ ।। म꣢द꣡न्तिशोऽ᳒२᳒भथा꣡ । अथा ।। श्रीः ॥ ए꣡ताआ꣢᳐। ओ꣣ऽ२३४वा꣥ ॥ स्य꣢पृ꣡शनाऽ᳒२᳒युवाः । अथा ।। एसोमा꣢म्᳐ । ओ꣣ऽ२३४वा꣥ ॥ श्री꣢꣯ण꣡न्तिपाऽ᳒२᳒र्श्नया꣡: । अथा ॥ एप्राया꣢᳐ ।ओ꣣ऽ२३४वा꣥ ।। इ꣢न्द्र꣡स्यधाऽ᳒२᳒इनवा꣡: । अथा ॥ एवाज्रा꣢᳐म् । ओ꣣ऽ२३४वा꣥ ॥ हि꣢न्व꣡न्तिसाऽ᳒२᳒यका꣡म् । अथा।श्रीः।ए꣡ता꣢आ᳐। ओ꣣ऽ२३४वा꣥ ॥ स्य꣢न꣡मसाऽ᳒२᳒सहा꣡: । अथा ॥ एसापा꣢᳐। ओ꣣ऽ२३४वा꣥ ॥ र्य꣢न्ति꣡प्रचाऽ᳒२᳒इतसा꣡: । अथा ॥ एव्राता꣢। ओ꣣ऽ२३४वा꣥ ॥ नि꣢य꣡स्यसाऽ᳒२᳒श्चिरा꣡इ । अथा ॥ एपूरू꣢᳐। ओ꣣ऽ२३४वा꣥ ।। णि꣢पू꣡꣯र्वचाऽ᳒२᳒इत्तया꣡इ । अथा ।। एवस्वी꣢᳐: । ओ꣣ऽ२३४वा꣥ ॥ अ꣡नुस्व꣢राऽ᳒२᳒जिया꣡म् ॥ अथाऽ२३꣡४꣡५꣡ ॥

दी. ४. उ. १३. मा. २३. दि. ॥९७॥


स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ।। १००५ ।। ऋ. १.८४.१०
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ।। १००६ ।।
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ।। १००७ ।।

५. पार्थुरश्मम् । पृथुरश्मिः । प्रजापतिः। पङ्क्तिः । इन्द्रः॥

एस्वादोः । ओऽ२३४वा ॥ इत्थाविषूऽवताः । अथा ॥ एमधोः । ओऽ२३४वा ।। पिबन्तिगौऽ२रियाः । अथा ॥ एयाई । ओऽ२३४वा ।। द्रेणसयाऽ२वराइ । अथा ।। एवृष्णा । ओऽ२३४वा ।। मदन्तिशोऽ२भथा । अथा ।। श्रीः ॥ एताआ। ओऽ२३४वा ॥ स्यपृशनाऽ२युवाः । अथा ।। एसोमाम् । ओऽ२३४वा ॥ श्रीणन्तिपाऽ२र्श्नयाः । अथा ॥ एप्राया ।ओऽ२३४वा ।। इन्द्रस्यधाऽ२इनवाः । अथा ॥ एवाज्राम् । ओऽ२३४वा ॥ हिन्वन्तिसाऽ२यकाम् । अथा।श्रीः।एताआ। ओऽ२३४वा ॥ स्यनमसाऽ२सहाः । अथा ॥ एसापा। ओऽ२३४वा ॥ र्यन्तिप्रचाऽ२इतसाः । अथा ॥ एव्राता। ओऽ२३४वा ॥ नियस्यसाऽ२श्चिराइ । अथा ॥ एपूरू। ओऽ२३४वा ।। णिपूर्वचाऽ२इत्तयाइ । अथा ।। एवस्वीः । ओऽ२३४वा ॥ अनुस्वराऽ२जियाम् ॥ अथाऽ२३४५ ॥

दी. ४. उ. १३. मा. २३. दि. ॥९७॥


टिप्पणी

द्र. संकृति-पार्थुरश्मे द्वे (स्वादो) (आरण्यकम्)

स्वादोरित्था विषूवत इति विषुवान् वै पञ्चममहस्तासु रायोवाजीयम्। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहाद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति। पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः - तां.ब्रा. १३.४.१६

ज्योतिष्टोमे षोडशिशस्त्रप्रकरणम् -- आ त्वा वहन्तु हरयः (ऋ. १.१६.१) स्वादोरित्थेति गायत्रं तृचं पाङ्क्तं च विहरति - शां.श्रौ.सू. ९.५.४

स्वादोरित्थेत्था हि सोम(ऋ. १.८०.१) इति स्तोत्रियानुरूपौ -शांश्रौसू. १२.५.११

पार्थुरश्मं ब्रह्मसाम भवति रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतोऽप्रतिष्ठितः परां परावतं गन्तोर्यत्पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव धृत्यै ५। संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - माश १३.३.३.६]

तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। तस्यैकविंशतिर् यूपा भवन्य् एकविंशत्यरत्नयः। जै.ब्रा. २.२७४