सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/रायोवाजीयम्

रायोवाजीयम्.
रायोवाजीयम्.

स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ।। १००५ ।। ऋ. १.८४.१०
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ।। १००६ ।।
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ।। १००७ ।।

टिप्पणी

रायोवाजीयम् (आरण्यकम्)

पृष्ठ्यषडहे पंचममहः - अथ बार्हद्गिररायोवाजीये पांक्ते पांक्ते ऽहनि क्रियेते - पांक्ता वै पशवः। पशव एतद् अअहः - पशूनाम् एवावरुद्ध्यै। ते उ अथकारवच् चाध्यर्धेळं च भवतः प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धे। तद् आहुस् स वाद्य गोभिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देद् इति। गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.१०३

इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः - पंब्रा. १३.४

इन्द्रो मदायेति स्वादोरित्थेति च पङ्क्तिषु बार्हद्गिरम् - रायोवाजीये ब्रह्मसामाच्छावकसामनी । राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । - आर्षेयकल्पः उपोद्घातः पृ. ७३