सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/महादिवाकीर्त्यानि(श्रायन्त)
महादिवाकीर्त्यानि (विभ्राट् बृहत् )
१४
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।। ऋ. ८.९९.३
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
३. इन्द्रः । बृहती । इन्द्रः ।।
श्रायन्तइवसूर्यम् । । विश्वेदिन्द्रस्यभक्षत ।। वसूनिजातोजनिमान्योजसा ।। प्रतिभागन्नदीधिमः ।।श्रीः।। प्रतिभागन्नदीधिमः (द्विः) ।। अलर्षिरातिंवसुदामुपस्तुहि ।। भद्राइन्द्रस्यरातयः ।। श्रीः ।। भद्राइन्द्रस्यरातयः ।। भद्राइन्द्रस्यरातयः ।। योअस्यकामंविधतोनरोषति ।। मनोदानायचोदयन् ।। ईेऽ२३४५ ।।
दी ३१ उत्. ३ मा १३ गि ।।५२।।
महादिवाकीर्त्यानि (तवाहं सोम रारण)
महादिवाकीर्त्यानि (बण्महाँ असि)
महादिवाकीर्त्यानि (इन्द्रमिद्देवता)
महादिवाकीर्त्यानि (श्रायन्तइव सूर्यं)
टिप्पणी
विषुवत्कालः - आपस् तपो अतप्यन्त । तास् तपस् तप्त्वा गर्भम् अदधत । तत एष आदित्यो अजायत षष्ठे मासि । तस्मात् सत्रिणः षष्ठे मासि दिवाकीर्त्यम् उपयन्ति । स षण् मासान् उदन्न् एति षड् आवृत्तः । तस्मात् सत्रिणः षड् एव ऊर्ध्वान् मासो यन्ति षड् आवृत्तान् । अन्तरेण उ ह वा एतम् अशनाया च पुनर् मृत्युश् च । अपाशनायाम् च पुनर् मृत्युम् च जयन्ति ये वैषुवतम् अहर् उपयन्ति । - कौ.ब्रा. २५.१