सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/गायत्रम्

।। गायत्रम् ।। ( परमेष्ठी प्रजापतिः, गायत्री, सविता ।)

गायत्रम्.
गायत्रम्

ओ꣢ऽ३म् । त꣡त्सवितुर्वरे꣯णियोम् ।। भार्गो꣯दे꣯वस्य धी꣯माहीऽ᳒२᳒। धियो꣡꣯ यो꣯ नः प्रचो꣢ऽ१२१२ ।। हिम् स्थि आऽ᳒२᳒।। दा꣡यो ।। आ꣢ऽ३꣡४꣡५꣡ ।।

( दीर्घाः ६ । पर्वाणि ६ । मात्राः २ ।। का)

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।।१४६२ ।। ऋग्वेदः ३.६२.१०


।। श्री सामवेदाय नमः ।।
गानम् ।
।। गायत्रम् ।। ( परमेष्ठी प्रजापतिः, गायत्री, सविता ।)

ओऽ३म् । तत्सवितुर्वरेणियोम् ।। भार्गोदेवस्य धीमाहीऽ२ । धियो यो नः प्रचोऽ१२१२ ।। हिम् स्थि आऽ२ ।। दायो ।। आऽ३४५ ।।
( दीर्घाः ६ । पर्वाणि ६ । मात्राः २ ।। का)

( इति प्रकृतिसप्तगानान्तर्भूतं गायत्राख्यं प्रथमं गानं सम्पूर्णम् ।।)











सम्पाद्यताम्

टिप्पणी

गायत्री उपरि टिप्पणी

भर्गशब्दोपरि टिप्पणी

 
गायत्री मन्त्र लक्षणम् Gayatri Mantra

मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ छाउ २.११.१

गायत्रं साम भवत्य् - अयातयाम वै गायत्रम् - अयातयामताया एव। अथो मनो वै गायत्रम्। मनसैवैनत् तत् समृद्धयन्ति, मनसोपावर्तयन्ति, मनसा हिंकुर्वन्ति, मनसा प्रस्तौति, मनसादिम् आदत्ते, मनसोद्गायति, मनसा प्रतिहरति, मनसोपद्रवति, मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै। यद् वै देवा यज्ञस्य वाचा न समाप्नुवंस् तद् अस्य मनसा समाप्नुवन्। । जै ३,३०५

मन उपरि टिप्पणी