सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/१८०

पौषम्.
पौषम्

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महां अभिष्टिरोजसा ।। १८० ।। ऋ. १.९

( १८०।१) ।। पौषम् । पूषा गायत्रीन्द्रः ।।

इन्द्रेहिमाहाउ ।। त्सीऽ३आन्धाऽ३साः । वाइश्वेभिस्सोऽ२३हाऽ३ । मापर्वाऽ२३४भीः । महाꣳ२३ ।। आऽ२भाऽ२३४औहोवा ।। ष्टिरोजसाऽ२३४५।।

( दी० ६ । प० ७। मा० ६)३ (खू।३१९)


सम्पाद्यताम्

टिप्पणी

गौरान्त्सर्षपाꣳस्तिष्येण चूर्णं कारयित्वेन्द्रेहि मत्स्यन्धस इत्येतेन संयूय तैर्मुखं पाणी पादौ च सर्वाणि चाङ्गानि सर्वाꣳश्च संश्लेषानुत्सादयन्नलक्ष्मीं नुदते। - सामविधानब्राह्मणम् ३.१.७