सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९/आत्रम्(योनोव)

(३३६।१) ॥ आत्रम् । अत्रिस्त्रिष्टुबिन्द्रः॥

आत्रम्.

यो꣣꣯नो꣤꣯वनुष्य꣣न्न꣤भि꣥꣯दा । ति꣣मा꣡ऽ३᳐२᳐३४र्ता꣥:॥ उ꣡गणा꣯वा꣯मन्यमा꣯नस्तु꣢रो꣡ऽ२३वा꣢ । क्षिधी꣡꣯युधा꣯शवसा꣯वा꣯त꣢मा꣡ऽ२३इन्द्रा꣢ ॥ अ꣡भाइष्या꣢ऽ३मा꣢ ॥ वृ꣡षामा꣢ऽ३णा꣢ऽ३ः । त्वो꣡ऽ२३ता꣢ऽ३४३: । ओ꣡ऽ२३४५३॥ डा॥

(दी० १० । प० ९ । मा० ६ )७ ( भू । ५६९)


(३३६।१) ॥ आत्रम् । अत्रिस्त्रिष्टुबिन्द्रः॥

योनोवनुष्यन्नभिदा । तिमाऽ३२३४र्ताः॥ उगणावामन्यमानस्तुरोऽ२३वा । क्षिधीयुधाशवसावातमाऽ२३इन्द्रा ॥ अभाइष्याऽ३मा ॥ वृषामाऽ३णाऽ३ः । त्वोऽ२३ताऽ३४३: । ओऽ२३४५३॥ डा॥

(दी० १० । प० ९ । मा० ६ )७ ( भू । ५६९)

सायणभाष्यम्

हे इन्द्र ! “यो” “मर्त्तो” मनुष्यः "नः” अस्मान् “वनुष्यन्" हन्तुमिच्छन्[] "अभि दाति" आभिमुख्येनागच्छति[] । यो वा "मन्यमानः” आत्मानं बहु मन्यमानो मर्त्तः “उगणा वा” उत्कृष्ट गणाः उद्गूर्णगणाः[] “तुरो " []हिंसित्रीरस्मदीयाः प्रजाः अभिगच्छति । केन साधनेन हिसिष्यन् ? "क्षिधी" [क्षिः क्षयो धीयते क्रियते अनेनेति क्षिधिः तृतीयैकवचनस्य पूर्वसवर्ण: []] क्षयकरणेन “युधा" आयुधेन [] “शवसा" वेगेन बलेन वा आयाति। "त्वोताः” त्वया रक्षिताः[] “वृषमणः" वृषा इवाचरन्तो वयं “तम्” “अभिष्याम” अभिभवेम [] ॥ ५ ॥१०४

टिप्पणी

द्र. कश्यपव्रतम् (आरण्यगेयः)

  1. 'वनुष्यन् हन्ति-कर्म'-इति वि०।
  2. 'अभिदाति आभिमुख्येन ददाति योऽस्माकमदत्वा अन्येभ्यो ददातीत्यर्थ:'इति वि०। 'दाति'-इति दान-कर्मसु प्रथमं नैघण्टुकम् ३,२० ।
  3. 'उरु गणयतीत्युरुगणाः, उरुगणाः उगणाः उच्यन्ते ; एतदुक्तं भवति-योsस्मभ्यमल्पं दत्वा बहु गणयति जनेभ्यः कथयति यस्त्वं मन्यमानः वाचा पूजयन्”-इति वि० । “उरु"-दूनि बहुनामसु प्रथमं पदम् (नै० ३,१)।
  4. 'तुर्वतेर्वधकर्मण ( नै० २, १९ ) एतद्रूपम् ; वाचा पूजयन् हृदयेन हिनस्तीत्यर्थः' इति वि०।
  5. "सुपां सु-लुक्-पूर्व सवर्णाच्छेयाड़ाड्यायाजालः (७,१,३९)।
  6. 'युधा युद्धेन' इति वि०।
  7. त्वया उता:'- इति त्वोताः। उताः रक्षिताः ।
  8. इत्येतदाशास्महे इति भावः । “निपातस्यच (६,३,१३६)” इति मन्त्रे दीर्घः अभीष्याम इति।