सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९/वीङ्कानि(यदिन्द्र)
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः।
राधस्तन्नो विदद्वस उभयाहस्त्या भर।। ३४५।। (ऋ. ५.३९.१)
(३४५।१)
।। वींकानिचत्वारि, वीङ्के द्वे । द्वयोः गृत्समदोऽनुष्टुबिन्द्रः ।।
यदिन्द्रोहाइ ।। चित्रमइहनाऽ२३ । आऽ२३४ । स्तित्वादा । हाऽ३इ । तमद्राइवाऽ२३ः ।। राऽ२३४ । धस्तन्नोविदा । हाऽ३ । वाऽ । साउ ।। उभयाहाऽ२३ ।। स्तियाउवाऽ३४३ । भाऽ३४५रोऽ६हाइ ।।
( दी० ४ । प० १४ । मा० ८)२८ ( धै । ५९०)
(३४५।२)
यदिन्द्रचित्रमौहोवा ।। हाऽ२३४ना । अस्तित्वादातमोवाऽ३ । ओवा । द्राऽ२३इवाः । राधस्तन्नोविदोवाऽ३ । ओवा । वाऽ२३४साउ ।। उभयाहस्तियोवाऽ३ । ओवाऽ३४३ ।
भाऽ३४५रोऽ६हाह ।। ( दी० ६ । प० ११ । मा० ४) २९ ( की । ५५१)
(३४५।३)
।। आकूपारं आकूपारमनादेशं वा । आकूपारोऽनुष्टुबिन्द्रः ।।
यदिन्द्राऽ२३चित्र । मइहाऽ२३४ना ।। अस्ताऽ२इत्वादा । तमद्राइवो । राधस्तान्नाऽ२ः । विदद्वसाउ ।। उभयाहाऽ२३ ।। स्ताऽ२३याऽ३ । भाऽ३४५रोऽ६हाइ।।
( दी० २। प० ९ । मा० ६) ३०( झू । ५९२)
(३४५।४)
।। वींकम् ।।
यदिन्द्रचित्रमइ । हनाऽ३ । आस्ती ।। त्वादातमद्रिवः ।। राधस्ताऽ२३न्नाः । वीवीऽ२ । दद्वसाउ ।। उभयाऽ२३हा।। स्तायाऽ२३ । भाऽ२३राऽ३४३ । ओऽ२३४५इ ।। डा ।।
( दी० ३। प० १२ । मा० ५ )३१ ( ठु । ५९३)
टिप्पणी
वीङ्कम् (ऊहगानम्)
ऋषयो वै सत्राद् उत्थायायन्त आयुञ्जानाः। ते होचुर् – एत किं चिद् एव यक्षं पश्यामेति। ते होचुर् अकूपारो वा अयं कश्यपस् समुद्रे ऽन्तर् महद् यक्षम्। एत तं पश्यामेति। तं हान्वभ्यवेयुः। तेभ्यो ह नाविर् आस। ते होचुर् – एतेन्द्रम् एव स्तवाम स वावास्येशे। स एव न इमं दर्शयिष्यतीति। ते ऽत्रिम् अब्रुवन्न् – ऋषे, त्वं स्तुताद् इति। स एतम् अत्रिस् तृचम् अपश्यत्। तेनैनम् उपायन् –
यद् इन्द्र चित्र म इह नास्ति त्वादातम् अद्रिवः।
राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर॥
इति। स हेक्षांचक्रे – महत् बत म ऋषयो याचन्ति। उभयाहस्त्य् आ भरेति वा आहुर् इति।
यत् ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत्।
तेन दृढा चिद् अद्रिव आ वाजं दर्षि सातये॥
इति। स हेक्षांचक्रे – दृढं बत म ऋषयो याचन्ति। न हाजज्ञाव् – अकूपारं दिदृक्षन्त इति।
यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर।
विद्याम तस्य ते वयम् अकूपारस्य दावने॥
इति। स हाजज्ञाव् अकूपारं वै दिदृक्षन्त इति। तं ह पदोदस्यन्न् उवाचेदम् एव मेदम् ऋषयो महद् इवोभयाहस्त्य् आ भरेत्य अवोचन्न् इति। तम् अपश्यन्। ता एताः कामसनय ऋचः। एतं वै ते कामम् अकामयन्त। स एभ्यः कामस् समार्ध्यत। यत्काम एवैताभिर् ऋग्भि स्तुते, सम् अस्मै स काम ऋध्यते॥ - जै.ब्रा. 3.203
यः अनृजुः भवति, तस्य संज्ञा वीङ्कम् भवति, यथा वृन्दावने बांके विहारी(बांका, बींका भाषायाम्)।
आकूपारम् (आतूनइन्द्र ) ऊहगानम्
आकूपारम् (परित्यंहर्यतं)