सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/३७७

सौभरम्
सौभरम्

त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते ।
अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥ ३७७ ॥ ऋ. १.५२.१



(३७७।१) ।।सौभरम् । सुभरिर्जगतीन्द्रः ।।

त्यꣳसूऽ३मेषंमहया।। सुवर्वाइदाऽ२म् । शतंयस्यसुभुवस्साकऽ३माइराऽ१ताऽ२इ । अत्यंनवाजꣳहवनस्यऽ३दाꣳराऽ१थाऽ२म्। आइद्रंववृत्याम।। वसायेऽ३ । सूऽ२वॄऽ२३४औहोवा।। क्तीऽ२३४भीः ।।

( दी० ६ । प० ८ । मा० ८) १९( गै। ६४७)



टिप्पणी

द्र. ऋग्वेदः १.५२.१

अभि त्यं मेषम् (सा. ३७६) इत्यत्रैकं साम। अभित्यांमेषं (ग्रा १०.३.३७६.१) इति मन्द्रद्वितीयादिकम्। त्यं सु मेषम् (सा. ३७७) इत्यत्रैकं साम। त्यं सुमेषंमहया (ग्राम १०.३.३७७.१) इति मन्द्रद्वितीयादिकम्। एते ऋग्द्वयाश्रिते सामनी सौभरे द्वे। सुभरिणा दृष्टे। अत्रैव विकल्पः। वा अथवा अनयोः ऋग्द्वयाश्रितयोः साम्नोः पूर्वं प्रथमं सोमसाम। - आर्षेयब्राह्मणम् ४.३.७ पृ. १३४