परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥ ४७६ ॥
टिप्पणी
"परिप्रिया दिवः कविर्"इति परिवत्यो भवन्त्यन्तो वै चतुर्थमहस्तस्यैताः पर्याप्त्यै - तांब्रा १२.११.१
परि प्रिया दिवः कविरित्येते यां कामयेत्ताँ श्रावयेत्कामयते हैनम् ॥सामविधानब्राह्मणम् २.६.७॥
और्णायवाद्यम्
और्णायवोत्तरम्