सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/सौभरे(प्रसोमासो)

सौभरे द्वे.

प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥ ४७७ ॥ ऋ. ९.३२.१

प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।
वनानि महिषा इव ॥ ४७८ ॥ ऋ. ९.३३.१

टिप्पणी

संहितम् (प्रसोमासो इति) (ऊहगानम्)

सोमसाम (ऊहगानम् )

जैब्रा. १.१८६ - १.१८७

लोके धारणा अस्ति यत् कर्मणः फलस्य भोगं अनिवार्यमस्ति। किन्तु योगवासिष्ठः एवं जैनसम्प्रदायः अस्य समर्थनं न करोति। कथनमस्ति यत् कर्मफलानां समुद्रः अस्ति। कालानुसारेण तेषां उदयं भवति। विपश्चित् बुद्धितः कर्मफलानां उदयस्य चयनं संभवमस्ति। अयं प्रतीयते यत् सोमयागे अह्नःकृत्येषु उक्थसंज्ञकः यः अन्तिमकृत्यः अस्ति, तत् कर्मफलानां चयनेन सम्बद्धः अस्ति। सौभरिः विपश्चितः अस्ति।