सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/यशाꣳसि(पवतेह)

यशांसि त्रीणि
यशांसि त्रीणि

पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ ५७६ ॥ ऋ. ९.१०६.१३

सम्पाद्यताम्

टिप्पणी

अथातो यशस्यानां त्वमिन्द्र यशा असि, पवते हर्य्यतो हरिरित्येतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानो यशस्वी भवति ॥सामविधानब्रा. २.६.१७