सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/सोमसामानि(प्रपुनानाय)

सोमसामानि
सोमसामानि


प्र पुनानाय वेधसे सोमाय वच उच्यते ।
भृतिं न भरा मतिभिर्जुजोषते ॥ ५७३ ॥ ऋ. ९.१०३.१


(५७३|१) ॥ सोमसामानि चत्वारि । चतुर्णां सोम उष्णिक्सोमः ॥
प्रपुनाऽ२३नायवेधसाइ ॥ होइ । होइ । सोमायवचाउच्याताऽ२इ ॥ भृतिन्नभरामतिभाऽ२इः ॥ जुजोषाऽ२३ताऽ३४३इ ओऽ२३४५इ ॥ डा ॥
 ( दी० ५ । प० ८ । मा० ९) ३२ ( वो । ११५५ )
 
(५७३।२)
प्रपुनानौहोऽ५यवेधसाइ ॥ सोमाऔऽ३होऽ३४ | यवचउच्यताइ ॥ भृताऔऽ३होऽ३४ । नभरामतिभाइः । जुजाऽ३१उवाऽ२३ ॥ षाऽ२३४ते ॥
( दी० ५ । प० ७ | मा० ८ ) ३३ (फै | ११५६ )


सम्पाद्यताम्

टिप्पणी

प्र पुनानाय वेधसे (सा ५७३) इत्यत्र सामद्वयम् । प्रपुनानाय- वेधसाइ (ग्राम. १७. १०. ५७३. :) इति द्वितीयक्रुष्टादिकम् । प्रपुनानौ- होयवेधसाइ (ग्राम १७.१०. ५७३.२) इति चतुर्थमन्द्रादिकम् । आर्षेयब्राह्मणम् ५.१०.८