सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/साम ५६४

प्रवर्ग्ये प्रथमदिने महावीरेऽज्यमाने प्रस्तोतृसाम--

काक्षीवतानि शार्ङ्गाणि(अञ्जते)
शफेन महावीरपात्रग्रहणम्

अग्निर्भौमः । पवमानः सोमः । जगती । ( ऋ० ९ । ८६ । ४३ )
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ।। ५६४ ।।
अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते ।
सिन्धोरुछ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ ५६४ ।।

(५६४।१) काक्षीवतानि (शार्ङ्गाणि )त्रीणि । अञ्जतः कक्षीवाञ्जगती सोमः ॥
अञ्जताई । वियञ्जताइ । समञ्जाताऽइ ।। क्रतुꣳरिहा । तीमधुवा । भियञ्जाताऽ२३॥ सिन्धोरुच्छ्वा । सेपत्तया । तमुक्षाणाऽ२म् ।। हिरण्यपा। वाःपशुमा । प्सूगृभ्णताऽ३१उवाऽ२३४५॥ (दी० ५ । प० १२ । मा० ६ )३१( फू । १११९)

(५६४।२) ॥ व्यञ्जतः कक्षीवान् ॥
अञ्जाऽ३हो । तेऽ३होइ । वियञ्जतेऽ३साऽ३मञ्जताइ ॥ क्रतूꣳऽ३होइ ।
रिहाऽ३हो । तिमधुवाऽ३भीऽ३अञ्जताइ॥ सिन्धोऽ३र्होइ । उच्छ्वाऽ३हो । सेपतयाऽ३०ताऽ३मुक्षणम् ॥ हिराऽ३हो । ण्यपाऽ३हो । वाःपशुम । प्सुगाऽ३र्भ्णाऽ५ताऽ६५६इ ॥
(दी० २। प० १३ । मा० ८ )३२ ( जै । ११२०)

समञ्जतः कक्षीवान्.

(५६४।३)
॥ समञ्जतः कक्षीवान् ॥
हावा०जा । ताऽ२३४इ । वियञ्जतेसमञ्जते । एहिया । एहियाऽ३४ ॥ हाउक्रातूम् । राऽ२३४इ । हन्तिमधुवाभियञ्जते । एहिया । एहियाऽ३४ ॥ हाउसाइन्धोः । ऊऽ२३४त् । श्वासेपतयंतमुक्षणम् । एहिया । एहियाऽ३४ ॥ हाउहाइरा । ण्याऽ२३४ । पावाः पशुमप्सुगृभ्णते । एहिया । एहियाऽ३४ हाउ । होऽ५ई ॥ डा॥
(दी० ९ । प० २३ । मा० १३ )३३( दि । ११२१) ॥

[साम-तन्त्र-सूत्राणि][१११९]३१ [११२०]३२[११२१]३३ ( पृथक् सूत्राणि न सन्ति )

सम्पाद्यताम्