सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/अथारण्यार्चिकः/1.2.1 प्रथमा दशतिः

इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः ।
यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः ॥ ५८६ ॥

इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य ।
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥५८७ ॥

यस्येदमा रजोयुजस्तुजे जने वनं स्वः ।
इन्द्रस्य रन्त्यं बृहत् ॥५८८ ॥
कश्यपव्रतम् (आरण्यकगानम्)
द्र. आर्षेयब्राह्मणम् ६.३.७.२ भाष्यम्

उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥ ५८९ ॥

त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ ५९० ॥

इमं वृषणं कृणुतैकमिन्मां ॥ ५९१ ॥

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परिस्रव ॥ ५९२ ॥

एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।
सिषासन्तो वनामहे ॥ ५९३ ॥

अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम ।
यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥ ५९४ ॥
सेतुषाम