सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/अथारण्यार्चिकः/1.2.2 द्वितीया दशतिः

त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
परुष्णीषु रुशत्पयः ॥५९५ ।।

अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥५९६ ।।

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥५९७ ।।

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥५९८ ।।

प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥५९९ ।।
वसिष्ठ शफौ

नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहं ॥६०० ।।
शुक्रचन्द्रे द्वे

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥६०१ ।।
स्वरसामानि षट्