सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.10 दशमी दशतिः

सोमं राजानं वरुणमग्निमन्वारभामहे।
आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम्॥ ९१

इत एत उदारुहन्दिवः पृष्ठान्या रुहन्।
प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः॥ ९२

राये अग्ने महे त्वा दानाय समिधीमहि।
ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी॥ ९३
आसिते द्वे

दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत्।
परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत्॥ ९४

प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि।
यातुधानस्य रक्षसो बलं न्युब्जवीर्यम्॥ ९५

त्वमग्ने वसूंरिह रुद्रां आदित्यां उत।
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्॥ ९६