सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.10 दशमी दशतिः
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
न किः स दभ्यते जनः ॥ १८५ ॥
णो यथा पुराश्वयोत रथया ।
वरिवस्या महोनां ॥ १८६ ॥
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरं ।
एनामृतस्य पिप्युषीः ॥ १८७ ॥
अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
यत्सोमेसोम आभुवः ॥ १८८ ॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ १८९ ॥
भारद्वाजम्
क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् ।
स नो वसून्या भरात् ॥१९० ॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥ १९१ ॥
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ १९२ ॥
पाष्ठौहे द्वे
द्रविणविस्पर्द्धसी
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
स्मसि स्थातर्हरीणां ॥ १९३ ॥