सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.4 चतुर्थी दशतिः
उद्धेदभि श्रुतामघं वृषभं नर्यापसं |
अस्तारमेषि सूर्य || १२५ ||
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य |
सर्वं तदिन्द्र ते वशे || १२६ ||
य आनयत्परावतः सुनीती तुर्वशं यदुं |
इन्द्रः स नो युवा सखा || १२७ ||
मा न इन्द्राभ्याऽऽ३ दिशः सूरो अक्तुष्वा यमत |
त्वा युजा वनेम तत् ||१२८ ||
एन्द्र सानसिं रयिं सजित्वानं सदासहं |
वर्षिष्ठमूतये भर || १२९ ||
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे |
युजं वृत्रेषु वज्रिणं || १३० ||
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे |
तत्राददिष्ट प्ॐस्यं || १३१ ||
वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् |
विद्धी त्वा३स्य नो वसो || १३२ ||
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् |
येषामिन्द्रो युवा सखा || १३३ ||
ऐध्मवाहानि
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः |
वसु स्पार्हं तदा भर || १३४ ||