सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.3 तृतीया दशतिः
< सामवेदः | कौथुमीया | संहिता | पूर्वार्चिकः | छन्द आर्चिकः | 1.1.3 तृतीयप्रपाठकः आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुं | | १अ १छ् |
अतश्चिदिन्द्र न उपा याहि शतवाजया | | २अ २छ् |
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरं | | ३अ ३छ् |
बृबदुक्थं हवामहे सृप्रकरस्नमूतये | | ४अ ४छ् |
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् | | ५अ ५छ् |
दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् | | ६अ ६छ् |
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं | | ७अ ७छ् |
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत | | ८अ ८छ् |
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं | | ९अ ९छ् |