सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.3 तृतीया दशतिः

स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यं ॥ ४०९ ॥
संकृति-पार्थुरश्मे द्वे
रायोवाजीयम्

इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनं ।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यं ॥ ४१० ॥

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११ ॥
आभीके इत्यादि
बार्हद्गिरम्

इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यं ।
यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यं ॥ ४१२ ॥

प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यं ॥ ४१३ ॥

यदुदीरत आजयो धृष्णवे धीयते धनं ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥ ४१४ ॥

अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ ४१५ ॥

उपो षु शृणुही गिरो मघवन्मातथा इव ।
कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥ ४१६ ॥
यामम्

चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ४१७ ॥
त्रैतानि

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।
स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥ ४१८ ॥
लौशम्