सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.9 नवमी दशतिः
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥ ५७८ ॥
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुं ।
वि कोशं मध्यमं युव ॥ ५७९ ॥
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं ।
वनप्रक्षमुदप्रुतं ॥ ५८० ॥
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहं ।
विश्वा वसूनि बिभ्रतं ॥ ५८१ ॥
स सुन्वे यो वसूनां यो रायामानेता य इडानां ।
सोमो यः सुक्षितीनां ॥ ५८२ ॥
त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन् ॥५८३ ॥
शैतोष्माणि चत्वारि
एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।
क्रीडन्नूर्मिरपामिव ॥ ५८४ ॥
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा ।
अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥ ५८५ ॥
शार्करम्