अथैते सप्तरात्राः। सप्त वै छन्दांसि। छन्दांसि वै सर्वा वाक्। वाचस् स ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् अश्नुते। वाच ऐश्वर्यम् आधिपत्यं गच्छानीति। तस्मात् सप्तरात्रेण यजते। सप्त वै प्राणाः। प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते, तैर् मा प्राणैः प्रजा पशवः परिगृहीता उपतिष्ठान्ता इति। प्राणैर् वै देवा स्वर्गं लोकम् आयन्। तद् यैः प्राणैर् देवा स्वर्गं लोकम् आयंस् तैः प्राणै स्वर्गं लोकम् अयानीति। सप्त वै मुख्याः प्राणाः। एते वा अपहतपाप्मानः प्राणा यन् मुख्याः। ते ये ऽपहतपाप्मानः प्राणास् तेषां मात्रया यज्ञं तनवा इति। सप्तर्षयो वा ऋद्धिकामास् तपो ऽतप्यन्त। त एतं सप्तरात्रम् यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त॥2.301॥


ते ऽहर्भाज आसन्। ततो वै तेषाम् अह्नैवैक आर्ध्नोद् अह्नैको ऽह्नैकः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुष्यतमो यम् एतेन सप्तर्षय आर्ध्नुवन्। सा या श्रेष्ठर्द्धीनां यो लोकानां पुष्यतमो यम् एतेन सप्तर्षय आर्ध्नुवंस् तम् ऋध्नवानीति। तस्मात् सप्तरात्रेण यजते। सप्तैतान्य् अहानि भवन्ति सप्त स्तोमाः। अहर् एव स्तोमो वहत्य् अह स्तोमो ऽह स्तोमः। सा ह खलु वा अह्नां समृद्धिर् यद् एनानि नाना स्तोमा वहन्ति। सा यैवाह्नां समृद्धिस् सैवैषा क्रियते। त उ सर्वे सप्त संपद्यैकविंशम् एवाभिसंपद्यन्ते - त्रिवृच् च त्रयस्त्रिंशश् च तौ द्वाव् एकविंशौ, पञ्चदशश् च त्रिणवश्च तौ द्वाव् एकविंशौ, सप्तदशश् च पञचविंशश् च तौ द्वाव् एकविंशाव्, एकविंश एवैकविशः। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्ति य सप्तरात्रयाजिनः। एतम् अभिसंपन्न एषां लोक ऋध्नोति। एतं गच्छत्य्, एतस्य सलोकतां, य एवं वेद॥2.302॥


तेन हैतेन जनको वैदेह इयक्षांचक्रे। तं ह स्म यद् ब्राह्मणाः कुरुपाञ्चाला आहुर् - अनेन त्वा यज्ञेन याजयामानेन त्वा यज्ञेन याजयामेति। नेति ह स्माह। न स युष्मद् ब्राह्मणो ब्रह्मीयान् आसीद्, यो मह्यम् एतं यज्ञक्रतुं व्यदधात्। एतेनैव मा याजयतेति। तथेति। तेन हैनं याजयांचक्रुः। स वा एष पृष्ठ्य एव षडहः, पञ्चविंशं महाव्रतम्। तत एव रात्रिम् उपयन्ति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। अन्नं वै महाव्रतम्, अन्नाद्यस्यैवावरुद्ध्यै। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै॥2.303॥


तद् आहुस् - तत्स्थानं वा एद् अरोहात्र्या अग्निष्टोमो वा एतद् अहर् इति। तद् उ वा आहुस् - संवत्सरो वा एष यद् अग्निष्टोमः। संवत्सरः प्रजापतिः। प्राजापत्यं महाव्रतम् एवाग्निष्टोमसाम्नः पञ्चविंशानि स्तोत्राणि स्युः। अथैकविंशैर् उक्थ्यै रात्रिम् उपावरोहेयुर् इति। तथा हैतौ यज्ञक्रतू व्याक्रियेते॥

अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमे ऽहनि महाव्रतं, विश्वजित् सर्वपृष्ठो ऽतिरात्र, एतेनो ह् क्रतुः कारीरादिर् ईजे श्रीकामो ऽन्नाद्यकामः। आत्मा वै पृष्ठ्यष् षडहो ऽन्नं महाव्रतम्। स मध्यत एवात्मनो ऽन्नाद्यं धास्ये, सो ऽन्नाद श्रेष्ठ स्वानां भविष्यामीति। अथो संवत्सरो वै पृष्ठ्यष् षडहः। तन् मा संवत्सरेणान्नाद्यं परिगृहीतम् उपस्थास्यत इति। विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। तद् उ श्रियं वर्ष्म पृष्ठान्य् अभ्युत्क्रमिष्यामीति। तम् उ ह ब्राह्मण उवाच - यावज् जीविष्यत्य अन्नाद एव श्रेष्ठ स्वानां भविष्यति, विशीर्षास् त्व् एव मर्तेति। शिरो वा एतद् यज्ञस्य यन् महाव्रतम्। तद् यथा शिरश् छित्वा तद् उपपक्षयोर् उपगृहेत् तद् वै न श्लिष्यति तादृग् अकृद् इति होवाच। जानन्त एवास्य शिरश् छेत्तार इति। तद् ध तथैवास। यावद् ध क्रतुः कारीरादिर् जिजीवान्नाद एव श्रेष्ठ स्वानाम् आस। विशीर्षास् त्व् एव ममार। जानन्तो ह त्व् एवास्य शिरश् चिच्छिदुर् भायकाः। स हैष कल्याण एव यज्ञक्रतुर् यस् त्वैनेनानुपद्रष्ट्रे यजेत॥2.304॥


अथैष बबरसप्तरात्रः। तस्य सप्तदशम् एव प्रथमम् अहर्, अथ त्रिवृद्, अथ पञ्चदशम्, अथैकविंशम्, अथ त्रिणवम्, अथ त्रयस्त्रिंशं, ज्योतिर् अतिरात्रः। एतेनो ह स ईजे श्रीकाम उ वान्नाद्यकामः। आत्मा वै पृष्ठ्यष् षडह इति। मुखं त्रिवृ्द्, अन्नं सप्तदशः। स प्रथमत एव मुखतो ऽन्नाद्यं धास्ये, सो ऽन्नाद श्रेष्ठ स्वानां भविष्यामीति । अथो संवत्सरो वै पृष्ठ्य् षडहस्, तं मा संवत्सरस्य पुरस्ताद् अन्नाद्यम् अवरुद्धम् उप स्थास्यत इति। ज्योतिर् अतिरात्रः। एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः। स उ प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचं गमिष्यामीति। तम् उ ह स्व एवान्तेवास्य् अनुव्याजहार - ॥2.305॥


- गोवर्णः खालतेयः - पापीयान् भविष्यति। प्रथमत एव मुखतो ऽन्नाद्यम् अधित। यदा वै मुखम् अन्नं प्राप्नोति ततो वाव तत् पूयति, यदि प्रगिरति पूयति, यदि ष्ठीवति पूयत्य्, अपूयीद् अन्नाद्यं, पापीयन् भविष्यतीति। तद् ध तथैवास। स ह पापीयान् आस। तस्मै होचुर् - यो वै ते ऽयं स्व एवान्तेवासी गोवर्णः खालतेयस्, स वै त्वानु व्याहार्षीद् इति। तं होवाच - स वै मा त्वम् अनेन यज्ञेन याजयेति। तथेति होवाच। तं वै त्वा यथा रथं वा रिष्टं संस्कुर्याद् अनो वा, एवं त्वा संस्करिष्यामीति। तस्य ह त्रिवृद् एव प्रथमम् अहश् चकार, अथ पञ्चदशम्, अथैकविंशम्, अथ त्रिणवम्, अथ त्रयस्त्रिंशम्, अथ सप्तदशम्, अथ सप्तदशम्। द्वे सप्तदशे अनूची। एतेनो ह गोवर्णः खालतेय आचार्यं याजयांचकार। आत्मा वै पृष्ठ्यष् षडहो, ऽन्नं सप्तदशः। स आत्मन् एवाध्य् ऊर्ध्वो ऽन्नाद्यम् अभ्युत्क्रमिष्यते। तत् त्वोपरिष्टाद् अन्नाद्यम् अवरुद्धम् उपस्थास्यते - सप्तदशात् सप्तदशम्, अन्नाद् अन्नम्। अभि ते प्रजान्नादी भवितेति होवाच॥2.306॥


एते बाबरयः कुरुष पणाय्या एव। स ह स्म तद् देवयजने परिचरतीदम् अयज इदम् उ नायज इति॥

अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहो, विश्वजित् सर्वपृष्ठ्य उक्थ्यष्, षोडशिमाञ् छन्दोमपवमानः सर्वस्तोम उक्थ्यः, पञ्चविंशं महाव्रतं, ज्योतिर् अतिरात्रो, यः कामयेतोपेत्याभिप्लवम्, उपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतं म उपेतं स्याद् इति, स एतेन यजेत। उपेत्य हैवाभिप्लवम्, उपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतम् अस्योपेतं भवत्य् - अन्नं वै महाव्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। ज्योतिर् अतिरात्रः। एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः। प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचम् अश्नवा इति॥2.307॥


पृष्ठ्यष् षडहो, ऽथ यत् सप्तमम् अहस् तस्य चतुर्विंशं बहिष्पवमानं त्रयस्त्रिंशान्य् उत्तराणि स्तोत्राणि पञ्चविंशं महाव्रतं चतुस्त्रिंशम् अग्निष्टोमसाम। आप्यत इव वा एतद् यज्ञो, यद् एष पृष्ठ्यष षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। तेनो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति। त्रयस्त्रिंशान्य् उत्तराणि स्तोत्राणि - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोमसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति॥

पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तस्य चतुर्विंशाः पवमानास्, त्रयस्त्रिंशं पुनरभ्यावर्ति, पञ्चविंशं महाव्रतं, चतुस्त्रिंशम् अग्निष्टोमसाम। आप्यत इव वा एतद् यज्ञो यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशाः पवमाना भवन्ति सवनमुखे, सवनमुखे नो यज्ञ आरब्धो ऽसद् इति। त्रयस्त्रिंशं पुनरभ्यावर्ति - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति॥2.308॥


पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तत् सर्वम् एव चतुर्विंशं, पञ्चविंशं महाव्रतं, चतुस्त्रिंशम् अग्निष्टोसाम। आप्यत इव वा एतद् यज्ञो यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमम् अहस् सर्वम् एव चतुर्विंशं भवति, सर्वेणैवाह्ना यज्ञ आरब्धो ऽसद् इति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोमसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति॥

पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तस्य छन्दोमाः पवमानाश्, चतुस्त्रिशं पुनरभ्यावर्ति, पञ्चविंशं महाव्रतं, त्रयस्त्रिंशम् अग्निष्टोमसाम। यः कामयेतोपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतं म उपेतं स्याद् इति, स एतेन यजेत। उपेत्य हैव पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतम् अस्योपेतं भवत्य् - अन्नं वै महाव्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशं पुनरभ्यावर्ति। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु प्रतितिष्ठति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। त्रयस्त्रिंशम् अग्निष्टोमसाम - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै॥2.309॥


अथैतौ संसंग्यौ। जमदग्निर् ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे - कथं न्व् अहम् एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतौ यज्ञाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ततो वै स तेषां सप्त सप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। स वा एषो ऽछिद्रो वज्रः। तान् ह स्मैतेनैवाछिद्रेण वज्रेणोपप्रवर्तयति। तद् यथा मत्येन तिलान् स्तृंह्याद् एवं ह स्मैवैनांस् तत् सृदानपोप्तान् अभिव्युच्छति। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद् य स्पर्धेत, स एताभ्यां यजेत। एतेनैवाछिद्रेण वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते। अथो आहुः - प्रजाकाम एवाभ्यां यजेतेति। स्तोमो वा एतत् स्तोमेन संसक्तो भवति - संसक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथैतत् सप्तदशं सप्तमम् अहर् भवति। तस्मिन् महाव्रतम् उपयन्ति। प्रजापतिर् वै सप्तदशः। अन्नं महाव्रतम्। स्व एव तद् आयतने प्रजापतिम् अन्नाद्येन समृद्धयन्ति॥2.310॥