← प्रथमः सर्गः सुमध्वविजयः
द्वितीयः सर्गः
[[लेखकः :|]]
तृतीयः सर्गः →

द्वितीयः सर्गः

विज्ञानभानुमति कालबलेन लीने
दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे ।
मार्गात्‌ सतां स्खलति खिन्नहृदो मुकुन्दं
देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ 2.1॥

नाथः कलौ त्रियुगहूतिरनुद्बुभूषुः
ब्रह्माणमप्यनवतारमनादिदिक्षुः ।
सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं
स्मेराननो भुवन जीवनमाबभाषे ॥ 2.2॥

वेदान्तमार्गपरिमार्गणदीनदूना
दैवीः प्रजा विशरणाः करुणापदं नः ।
आनन्दयेः सुमुख भूषितभूमिभागो
रूपान्तरेण मम सद्गुणनिर्णयेन ॥ 2.3॥

आदेशमौलिमणिमुज्जवलवर्णमेनं
बद्धाञ्जलिर्मरुदनर्घमधत्तमूर्ध्ना ।
हारावलीमिव हृदा विबुधेन्द्रयाञ्चां
बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत्‌ ॥ 2.4॥

कालः स एव समवर्तत नाम यावत्‌
चिन्ताकुलं विविधसाधुकुलं बभूव ।
वेदान्तसन्ततकृतान्तरसं न विद्मः
श्रेयो लभेमहि कथं नु वयं बतेति ॥ 2.5॥

तत्प्रीतये रजतपीठपुराधिवासी
देवो विवेश पुरुषं शुभसूचनाय ।
प्राप्ते महाय महिताय महाजनौघे
कोलाहलेन सुकुतूहलिनि प्रवृत्ते ॥ 2.6॥

आविष्टवानकुशलं पुरुषं प्रकृत्या
प्रत्याययन्निजजनान्नितरामनृत्यत्‌ ।
उत्तुङ्गकेतुशिखरे स कृताङ्गहारो
रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ 2.7॥

आभाष्य सोऽत्र जनतां शपथानुविद्धं
उच्चैरिदं वचनमुद्धृतदोर्बभाषे ।
उत्पत्स्यते जगति विश्वजनीनवृत्तिः
विश्वज्ञ एव भगवानचिरादिहेति ॥ 2.8॥

सद्वीपवारिनिधिसप्तकभूतधात्र्या
मध्येऽपि कर्मभुवि भारतनामखण्डे ।
काले कलौ सुविमलान्वयलब्धजन्मा
सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत्‌ ॥ 2.9॥

वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां
ग्रामो विभूषिततरः शिवरूप्यनामा ।
हेमाद्रिराजविभुराजदिलावृताभ
स्तस्याभवद्‌ गुरुगुणः खलु मूलभूमिः ॥ 2.10॥

रामाधिवेशितहरिस्वसृमौलिमाला
राजद्विमानगिरिशोभितमध्युवास ।
क्षेत्रं स पाजकपदं त्रिकुलैककेतुः
कं यद्दधाति सततं खलु विश्वपाजात्‌ ॥ 2.11॥

अर्थं कमप्यनवमं पुरुषार्थहेतुं
पुंसां प्रदातुमुचितामुचितस्वरूपाम्‌ ।
कन्यां सुवर्णलसितामिव वेदविद्यां
जग्राह विप्रवृषभप्रतिपादितां सः ॥ 2.12॥

रेमेऽच्छयोपनिषदेव महाविवेको
भक्त्यैव शुद्धकरणः परमश्रिताऽलम्‌ ।
मिथ्याभिमानरहितः परयेव मुक्त्या
स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥ 2.13॥

तस्य प्रभोश्चरणयोः कुलदेवताया
भक्तिं बबन्ध निजधर्मरतः स धीरः ।
विज्ञातभारतपुराणमहारहस्यं
यं भट्ट इत्यभिवदन्ति जना विनीतम्‌ ॥ 2.14॥

गोविन्दसुन्दरकथासुधया स नॄणां
आनन्दयन्न किल केवलमिन्द्रियाणि ।
किन्तु प्रभो रजतपीठपुरे पदाब्जं
श्रीवल्लभस्य भजतामपि दैवतानाम्‌ ॥ 2.15॥

इत्थं हरेर्गुणकथासुधया सुतृप्तो
नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु ।
तत्तवे स कालचलधीरतिसंशयालुः
धीमान्‌ धिया श्रवणशोधितया प्रदध्यौ ॥ 2.16॥

त्राता य एव नरकात्स हि पुत्रनामा
मुख्यावनं न सुलभं पुरुषादपूर्णात्‌ ।
तस्मात्समस्तविदपत्यमवद्यहीनं
विद्याकराकृति लभेमहि कैरुपायैः ॥ 2.17॥

पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या
यत्सेवया गुणगणाढ्यमपत्यमापुः ।
तं पूर्णसद्‌गुणतनुं करुणामृताब्धिं
नारायणं कुलपतिं शरणं व्रजेम ॥ 2.18॥

इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः
प्रेष्ठप्रदं रजतपीठपुराधिवासम्‌ ।
भक्त्या भवाब्धिभयभङ्गदया शुभात्मा
भेजे भुजङ्गशयनं द्विषडब्दकालम्‌ ॥ 2.19॥

पत्न्या समं भगवतः स भजन्‌ पदाब्जं
भोगान्‌ लघूनपि पुनर्लघयाञ्चकार ।
दान्तं स्वयं च हृदयं दमयाञ्चकार
स्वच्छं च देहमधिकं विमलीचकार ॥ 2.20॥

तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्र्यै
र्जायापती गुणगणार्णवपुत्रकामौ ।
सम्पूर्णपूरुषमतोषयतां नितान्तं
देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ 2.21॥

नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ
श्रीश्रीधरप्रततिसारशरीरयष्टी ।
भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ
तौ देहशुद्धिमतिमात्रमथालभेताम्‌ ॥ 2.22॥

कान्तादृतौ समुचितेऽथ बभार गर्भं
सा भूसुरेन्द्रदुहिता जगतां सुखाय ।
अच्छाम्बरेव रजनी परिपूरिताशा
भाविन्यपास्ततमसं विधुमाद्यपक्षात्‌ ॥ 2.23॥

तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं
यावद्‌ द्विजेन्द्रवनिता सुषुवेऽत्र तावत्‌ ।
अंशेन वायुरवतीर्य स रूप्यपीठे
विष्णुं प्रणम्य भवनं प्रययौ तदीयम्‌ ॥ 2.24॥

सम्पूर्णलक्षणचणं नवराजमान
द्वारान्तरं परमसुन्दरमन्दिरं तत्‌ ।
रजेव सत्पुरवरं भुवनाधिराजो
निष्कासयन्‌ परमसौ भगवान्विवेश ॥ 2.25॥

सन्तुष्यतां सकलसन्निकरैरसद्भिः
खिद्येत वायुरयमाविरभूत्‌ पृथिव्याम्‌ ।
आख्यन्नितीव सुरदुन्दुभिमन्द्रनादः
प्राश्रावि कौतुकवशैरिह मानवैश्च ॥ 2.26॥

नाथं निषेव्य भवनानतिदूरमाप्तः
प्राज्ञो महप्रकृतदुन्दुभिनादपूर्वात्‌ ।
पुत्रोद्भवश्रवणतो महदाप्य सौख्यं
ज्ञानं परोक्षपदमप्यमतेष्टहेतुम्‌ ॥ 2.27॥

आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं
भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य ।
जातस्य तस्य गुणजातवहस्य जात
कर्मादिकर्मनिवहं विदधे सुकर्मा ॥ 2.28॥

ज्ञानार्थमेव यदभूदसुदेव एष
यद्वासुदेव पदभक्तिरतः सदाऽसौ ।
तद्वासुदेवपदमन्ववदन्‌ सुरेन्द्रा
स्तातेन यन्निगदितं सुतनामकर्त्रा ॥ 2.29॥

पातुं पयांसि शिशवे किल गोप्रदोऽस्मै
पूर्वालयः स्वसुतसूनुतया प्रजातः ।
निर्वाणहेतुमलभीष्ट परात्मविद्यां
दानं ध्रुवं फलति पात्रगुणानुकूल्यात्‌ ॥ 2.30॥

अत्रस्तमेव सततं परिफुल्लचक्षुः
कान्त्या विडम्बितनवेन्दु जगत्यनर्घ्यम्‌ ।
तत्पुत्ररत्नमुपगृह्य कदाचिदाप्तः
स्वस्वामिने बुध उपायनमार्पयत्सः ॥ 2.31॥

नत्वा हरिं रजतपीठपुराधिवासं
बालस्य सम्पदमनापदमर्थयित्वा ।
साकं सुतेन परिवारजनान्वितोऽसौ
प्रायान्निशीथसमये निजमेव धाम ॥ 2.32॥

दोषेयुषां सममनेन वनेऽतिभीमे
तत्क्रीडितग्रह इहैकतमं तुतोद ।
उद्वान्तरक्तमवलोक्य तमभ्यधायि
केनाप्यहो न शिशुतुत्‌ कथमेष इत्थम्‌ ॥ 2.33॥

आविश्य पूरुषमुवाच महाग्रहोऽसौ
अस्मद्विहारसमयोपगतान्‌ समस्तान्‌ ।
यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं
लोकेश्वरः स बत बालतमः किलेति ॥ 2.34॥

स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो
माता कदाचन ययौ विरहासहाऽपि ।
विश्वस्य विश्वपरिपालकपालनाय
कन्यां निजामनुगुणां किल भीरुरेषा ॥ 2.35॥

सा बालकं प्ररुदितं परिसान्त्वयन्ती
मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा ।
मा तात तात सुमुखेति पुनः प्ररोदी
र्माता तनोति रुचितं त्वरितं तवेति ॥ 2.36॥

रोदे क्रियासमभिहारत एव वृत्ते
पोतस्य मातरि चिरादपि नागतायाम्‌ ।
जग्राह बालमथ चैक्षत मातृमार्गं
साऽपि क्रियासमभिहारत एव बाला ॥ 2.37॥

कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं
प्राभोजयत्‌ खलु कुलित्थकुलं प्रपक्वम्‌ ।
शीतं पयोऽपि सततं परिपाययन्ती
यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ 2.38॥

नूनं पिपासुरतिरोदिति हन्त बालो
धिङ्‌ मां दयाविरहितां परकृत्यसक्ताम्‌ ।
इत्याकुला गृहमुपेत्य तदा प्रसन्नं
पुर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ 2.39॥

पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं
यूनां च दुःसहमिदं शिशुनोपभुक्तम्‌ ।
इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या
भीतं तयाऽनु कुपितं मनसाऽनुतप्तम्‌ ॥ 2.40॥

आरोग्यशालिनि तदाऽपि पुरेव पुत्रे
विस्मेरतामुपजगाम जनन्यमुष्य ।
यस्य त्रिलोकजननी जननी विषेऽपि
पीते न विस्मयमवाप समस्तशक्तेः ॥ 2.41॥

स्तन्यं मुहुः किल ददौ जननी गृहीत्वा
क्षेमाय तं किल दधज्जनको जजाप ।
अन्यो जनोऽपि किल लालयति स्म किन्तु
सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ 2.42॥

देवादिसद्भिरनुपालितयाऽदरेण
देव्यात्मनेव विलसत्पदया नितान्तम्‌ ।
अव्यक्तया प्रथमतो वदनेऽस्य वाण्या
शालीनयेव भुवनार्चितया विजह्रे ॥ 2.43॥

प्रग्रिङ्खणं स्वयमथ स्तिथिमेष चक्रे
पश्चाद्गतिं परिचयेन किल क्रमेण ।
विश्वस्य चेष्टितमहो यदनुग्रहेण
सर्वं तदस्य पवनस्य विडम्बनं हि ॥ 2.44॥

पुच्छान्तमच्छमवलम्ब्य कदाचिदेष
प्रातर्व्रजाद्व्रजत एव निजर्रषभस्य ।
प्रायात्‌ प्रियस्य सहसा स्वजनैरदृष्टो
ननावनेषु चरतश्चरतस्तृणानि ॥ 2.45॥

उत्तुङ्गशृङ्गलसितस्य महिष्ठमूर्तेः
पादावृतावनितलस्य सुरन्ध्रकस्य ।
आश्रित्य तस्य शुशुभेऽवयवैकदेशं
बालो दिवाकर इवोदयपर्वतस्य ॥ 2.46॥

लीलां करोति नु गृहान्तरगो नु बालः
कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः ।
इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य
हन्तानवेक्ष्य तनयं हृदि तापमाप ॥ 2.47॥

बालस्य बालपरिलम्बनगोचरं त-
द्वश्वस्यतापिवचनं वनगोचरोक्तम्‌ ।
यत्‌ सायमैक्षत जनः शिशुमाव्रजन्तं
एकाब्दकं वृषभबालकृतावलम्बम्‌ ॥ 2.48॥

चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो
विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः ।
नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा
नाथस्य तस्य तमनुग्रहमेव मेने ॥ 2.49॥

लीलावसानसमये सहसा कदाचित्‌
आर्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः ।
रोद्धैष नोऽस्ति धनिको वृषविक्रयीति
प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम्‌ ॥ 2.50॥

लीलाकरेण स करेण सुकोमलेन
बीजान्तराणि किल कानिचिदाशु तस्मै ।
स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदा
दादत्त तानि धनिको बहुमानपूर्वम्‌ ॥ 2.51॥

लब्धं सुतादिति वदन्‌ द्विजपुङ्गवेन
कालान्तरे निजधने प्रतिदित्सितेऽपि ।
साक्षादमानवनवाकृतितः स लेभे
बीजच्छलेन पुरुषार्थमहो विशिष्टम्‌ ॥ 2.52॥

वासुदेवमिह वासुदेवतासत्कलामभिननन्द तं जनः ।
वासुदेवमिति वासुदेवसन्नामकं विविधलीलमर्भकम्‌ ॥ 2.53॥

इति विहरति मह्यां विष्णुदासेऽपि गूड्हे
समजनि सुजनानां चित्तमानन्दपूर्णम्‌ ।
उदयति घनमालालीनभानौ च भानौ
ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ 2.54॥

इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के द्वितीयः सर्गः