स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १९

← अध्यायः १८ स्कन्दपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान्॥
ततो निमिं च दैत्येन्द्रं मत्वा देवं महाजवः॥ १९.१ ॥

केशेषु गृह्य तं वीरं चकर्ष च ननाद च॥
ततो निमिरुवाचेदं कालनेमिं महाबलम्॥ १९.२ ॥

अहं निमिः कालनेमे सुतं मत्वा वधस्व मा॥
भवता मोहितेनाजौ देवान्मत्वासुराः स्वकाः॥ १९.३ ॥
सुरैः सुदुर्जयाः कोट्यो निहतादश विद्धि तत्॥
सर्वास्त्रवारणं मुंच ब्रह्ममस्त्रं त्वरान्वितः॥ १९.४ ॥

स तेन बोधितो दैत्यो मुक्त्वा तं संभ्रमाकुलः॥
बाणं ब्रह्मास्त्रविहितं मुमोच त्वरयान्वितः॥ १९.५ ॥

ब्रह्मास्त्रं तत्प्रजज्वाल ततः खे सुमहाद्भुतम्॥
देवानां चाभवत्सैन्यं सर्वमेव भयाकुलम्॥ १९.६ ॥

शंबरास्त्रं ततः शांतं ब्राह्मप्रतिहतं तदा॥
तस्मिन्प्रतिहते ह्यस्त्रे भास्करः प्रभुः॥ १९.७ ॥

महेंद्रजालमास्ताय चक्रे भीषणां तनुम्॥
विस्फूर्जत्करसंघातसमाक्रांतजगत्त्रयः॥ १९.८ ॥

तताप दानवानीकं गलन्मज्जाङ्घ्रिशोणितम्॥
चक्षूंषि दानवेन्द्राणां चकारांधानि स प्रभुः॥ १९.९ ॥

गजानामगलन्मेदः पेतुश्चापि रथा भुवि॥
तुरंगमाः श्वसंतश्च घर्मार्ता रथिनोपि च॥ १९.१० ॥

इतश्चेतश्च सलिलं प्रार्थयंतस्तृषातुराः॥
गिरिद्रोणीश्च पादांश्च गिरिणां गहनानि च॥ १९.११ ॥

तेषां प्रार्थयतां शीघ्रमन्योन्यं च विसर्पिणाम्॥
दावाग्निरज्वलत्तीव्रो घोरो नर्दग्धपादपः॥ १९.१२ ॥

तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लो लमालितम्॥
पुरःस्थितमपि प्राप्तुं न शेकुरुपसादितुम्॥ १९.१३ ॥

अप्राप्य सलिलं भूमावभ्याशे द्रुतमेव ते॥
तत्रतत्र व्यदृश्यन्त मृता दैत्येश्वराभुवि॥ १९.१४ ॥

रथा गजाश्च पतितास्तुरंगाश्च श्रमान्विताः॥
स्थिता वमंतो धावंतो गलद्द्रुतवसास्रजः॥ १९.१५ ॥

दानवानां कोटिकोटि व्यदृश्यतमृतं तदा॥
एवं क्षयो जानवानां तस्मिन्महति वर्तिते॥ १९.१६ ॥

प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः॥
बभूव कालमेधाभः स्फुरद्रोमशतह्रदः॥ १९.१७ ॥

गंभीरास्फोटनिर्ह्रादजगद्धृदयकंपनः॥
प्रच्छाद्य गगनं सूर्यप्रभां सर्वां व्यनाशयत्॥ १९.१८ ॥

ववर्ष शीतं च जलं दानवेन्द्रबलं प्रति॥
दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात्॥ १९.१९ ॥

बीजांकुरा इव म्लानाः प्राप्य वृष्टिं धरातले॥
ततः स मेघरूपेण कालनेमिर्महासुराः॥ १९.२० ॥

शस्त्रवृष्टिं ववर्षोग्रां देवनीकेषु दुर्जयः॥
तया वृष्ट्या पीड्यमाना दैत्यैरन्यैश्च देवताः॥ १९.२१ ॥

गतिं कांचिन्न पश्यन्ति गावः शीतार्दिता इव॥
परस्परं व्यलीयंत गजेषु तुरगेषु च॥
रथेषु च भयत्रस्तास्तत्रतत्र निलिल्यिरे॥ १९.२२ ॥

एवं ते लीयमानाश्च निहताः कालने मिना॥
दृश्यंते पतिता देवाः शस्त्रभिन्नंगसंधयः॥ १९.२३ ॥

विभिन्ना भिन्नमूर्धानस्तथा भिन्नोरुजानवः॥
विपर्यस्तं रथांगैश्च पतितं ध्वजशक्तिभिः॥ १९.२४ ॥

तुरंगाणां सहस्राणि गजानामयुतानि च॥
रक्तेन तेषां घोरेण दुस्तरा चाभवन्मही॥ १९.२५ ॥

एवमाजौ महादैत्यः कालनेमिर्महासुरः॥
जघ्ने मुहुर्तमात्रेण गंधर्वाणां दशायुतम्॥ १९.२६ ॥

यक्षाणां पंचलक्षाणि किंनराणां तथैव च॥
जघ्ने पिशाचमुख्यानां सप्तलक्षाणि निर्भयः॥ १९.२७ ॥

इतरेषां न संख्यास्ति सुरजातिनिकायिनाम्॥
जघ्ने स कोटिशः क्रद्धः कालनेमिर्मदोत्कटः॥ १९.२८ ॥

एवं प्रतिभये भीमे तदामर महाक्षये॥
संक्रुद्धावश्विनौ वीरौ चित्रास्त्रकवचोज्जवलौ॥ १९.२९ ॥

जघ्नतुस्तौ रणे दैत्यमेकैकं षष्टिभिः शरैः॥
निर्भिद्य ते महादैत्यं सपुंखा विविशुर्महीम्॥ १९.३० ॥

ताभ्यां बाणप्रहारैस्तु किंचित्सोऽवाप्तचेतनः॥
जग्राह चक्रं लक्षारं तैलधौतं रणेऽधिकम्॥ १९.३१ ॥

तेन चक्रेण सोश्विभ्यां चिच्छेद रथकूबरम्॥
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान्॥ १९.३२ ॥

ववर्ष भिषजोर्मूर्ध्नि संछाद्याकाशगोचरम्॥
तावप्यस्त्रैः स्मृतैः सर्वाश्छेदतुर्दैत्यसायकान्॥ १९.३३ ॥

तच्च करम तयोर्दृष्ट्वा विस्मितः कोपमाविशत्॥
जग्राह मुद्गरं भीम कालदंडविभीषणम्॥ १९.३४ ॥

स तदमुद्भ्राम्य वेगेन चिक्षेपास्य रथं प्रति॥
तं तु मुद्गरमायांतमालोक्यांबरगोचरे॥ १९.३५ ॥

मुक्त्वा रथावुभौ वेगादाप्लुतौ तरसाश्विनौ॥
तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः॥ १९.३६ ॥

दारयामास धरणीं हेमजालपरिष्कृतः॥
तस्य कर्माथ तद्दृष्ट्वा भिषजौ चित्रयोधिनौ॥ १९.३७ ॥

वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम्॥
घोरवज्रप्रहारैस्तु दानवः स परिक्षतः॥ १९.३८ ॥

रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा॥
क्षणेन शतधा भूतं सर्वसैन्यस्य पश्यतः॥ १९.३९ ॥

तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः॥
नारायणास्त्रं बलवान्मुमोच रणमूर्धनि॥ १९.४० ॥

ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा॥
जीवग्राहं ग्राहयितुमश्विनौ तौ प्रचक्रमे॥ १९.४१ ॥

तावभिप्रायमालक्ष्य संत्यज्य समरांगणम्॥
पदाती वेपमानांगौ प्रद्रुतौ वासवोयतः॥ १९.४२ ॥

तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः॥
प्राप्येंद्रस्य बलं क्रूरो दैत्यानीकपदानुगः॥ १९.४३ ॥

स काल इव कल्पांते यदा वासवमाद्रुतः॥
तं दृष्ट्वा सर्वभूतानि विविशुर्विह्वलानि तु॥ १९.४४ ॥

हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे॥
पराजयं महेंद्रस्य सर्वलोकक्षयावहम्॥ १९.४५ ॥

चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात्॥
जगर्जुर्जलदा दिक्षु संभूतश्च महारवः॥ १९.४६ ॥

तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः॥
मनसा शरणं जग्मुर्वासुदेवं जगत्पतिम्॥ १९.४७ ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च॥
जगद्धिताय कृष्णाय गोविंदाय नमोनमः॥ १९.४८ ॥

स नो रक्षतु गोविंदो भयार्तास्ते जगुः सुराः॥
सुराणां चिंतितं ज्ञात्वा भगवान्गरुडध्वजः॥ १९.४९ ॥

विबुध्यैव च पर्यंकाद्योगनिद्रां विहाय सः॥
लक्ष्मीकरयुगांभोजलालितांघ्रिसरोरुहः॥ १९.५० ॥

शारदंबरनीराब्जकांतिदेहच्छविः प्रभुः॥
कौस्तुभोद्भासिहृदयः कांतकेयूरभास्करः॥ १९.५१ ॥

विमृश्य सुरसंक्षोभं वैनतेयमाताह्वयत्॥
आहूतेऽविस्थितेतस्मिन्गरुडे दुःखिते भृशम्॥ १९.५२ ॥

दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुराहवम्॥
तत्रापश्यत देवेंद्रं भयभीतमभिद्रुतम्॥ १९.५३ ॥

दानवेंद्रैर्नवांभोदसच्छायैः सर्वथोत्कटैः॥
यथा हि पुरुषं घोरैरभाग्यैरर्थकांक्षिभिः॥ १९.५४ ॥

तत्त्राणायाव्रजद्विष्णुः स्तूयमानो मुहुः सुरैः॥
अभाग्येभ्यः परित्रातुं सुकृतं निर्मलं यथा॥ १९.५५ ॥

अथापश्यत दैत्येंद्रो वियति द्युतिमंडलम्॥
स्फुरंतमुदयाच्छीघ्रं कांतं सूर्यशतं यथा॥ १९.५६ ॥

प्रभवं ज्ञातुमिच्छंतो दानवास्तस्य तेजसः॥
गरुडं तमथा पश्यन्कल्पांतानलभैरवम्॥ १९.५७ ॥

तत्र स्थितं चतुर्बाहुं हरिं चानुपमद्युतिम्॥
तमालोक्यासुरेंद्रास्तु हर्षसंपूर्णमानसाः॥ १९.५८ ॥

अयं स देवः सर्वेषां शरणं केशवोऽरिहा॥
अस्मिञ्जिते जिताः सर्वा देवता नात्र संशयः॥ १९.५९ ॥

एनमाश्रित्य लोकेशा यज्ञभागभुजोऽमराः॥
इत्युक्त्वा ते समागम्य सर्व एव ततस्ततः॥ १९.६० ॥

तं जघ्नुर्विविधैः शस्त्रैः परिवार्य समंततः॥
कालनेमिप्रभृतयो दश दैत्यमहारथाः॥ १९.६१ ॥

षष्ट्या विव्याधबाणानां कालनेमिर्जनार्दनम्॥
निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः॥ १९.६२ ॥

जंभकश्चैव सप्तत्या शुंभो दशभिरेव च॥
शेषा दैत्ये श्वराः सव विष्णुमेकैकशः शरैः॥ १९.६३ ॥

दशभिर्दशभिः शल्यैर्जघ्नुः सगरुडं रणे॥
तेषाममृष्यत्तत्कर्म विष्णुर्दानवसूदनः॥ १९.६४ ॥

एकैकं दानवं जघ्ने षड्भिः पड्भिरजिह्नगैः॥
आकर्णकृष्टैर्भूयश्च कालनेमिस्त्रिभिः शरैः॥ १९.६५ ॥

विष्णुं विव्याध हृदये रोषाद्रक्तविलोचनः॥
तस्याशोभंत ते बाणा हृदये तप्तकांचनाः॥ १९.६६ ॥

मयूखा इव संदीप्ताः कौस्तुभस्य स्फुरत्त्विषः॥
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम्॥ १९.६७ ॥

स तमुद्ग्राह्य वेगेन दानवाय मुमोच वै॥
दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः॥ १९.६८ ॥

चिच्छेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम्॥
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम्॥ १९.६९ ॥

तेन दैत्यस्य हृदयं ताडयामास वेगतः॥
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः॥ १९.७० ॥

शक्तिं जग्राह तीक्ष्णाग्रां हेमघंटाट्टहासिनीम्॥
तया वामं भुजं विष्णोर्बिभेद दितिनंदनः॥ १९.७१ ॥

भिन्नं शक्त्या भुजं तस्य स्रुतशोणितमाबभौ॥
नीले बला हके विद्युद्विद्योतंती यथा मुहुः॥ १९.७२ ॥

ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः॥
सप्तदश च नाराचांस्तीक्ष्णाग्रान्मर्मभेदिनः॥ १९.७३ ॥

दैत्यस्य हृदयं षड्भिर्विव्याध च शरैस्त्रिभिः॥
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्रिणा॥ १९.७४ ॥

द्वाभ्यां धनुर्ज्याधनुषी भुजं चैकेन पत्रिणा॥
स विद्धो हृदये गाढं दोषैर्मूढो यथा नरः॥ १९.७५ ॥

स्रुतरक्तारुणः प्रांशुः पीडाचलितमानसः॥
चकंपे मारुतेनेव चोदितः किंशुकद्रुमः॥ १९.७६ ॥

ततः कंपितमालक्ष्य गदां जग्राह केशवः॥
तां च वेगेन चिक्षेप कालनेमिवधं प्रति॥ १९.७७ ॥

सा पपात शिरस्युग्रा सहसा कालनेमिनः॥
संचूर्णितोत्तमां गस्तु निष्पिष्टमुकुटोसुरः॥ १९.७८ ॥

स्रुतरक्तौघरंध्रश्च स्रुतधातुरिवाचलः॥
पपात स्वे रथे भग्नो विसंज्ञः शिष्टजीवनः॥ १९.७९ ॥

पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा॥
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः॥ १९.८० ॥

गच्छासुर विमुक्तोऽसि सांप्रतं जीव निर्वृतः॥
ततः स्वल्पेन कालेन अहमेव तवांतकः॥ १९.८१ ॥

एवं वचस्तस्य निशम्य विष्णोः सर्वेश्वरस्याथ रथं निमेषात्॥
निनाय दूरं किल कालनेमिनो भीतस्तदा सारथिर्लोकनाथात्॥ १९.८२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरासंग्रामे कालनेमिकृतयुद्धसंमर्दे विष्णुना सह कालनेमियुद्धवर्णनंनामैकोनविंशोऽध्यायः॥ १९ ॥ छ ॥