स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २५

← अध्यायः २४ स्कन्दपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥अर्जुन उवाच॥
देवर्षे वर्ण्यते चेयं कथा पीयूषसोदरा॥
पुनरेतन्मुने ब्रूहि यदा वेत्ति महेश्वरः॥ २५.१ ॥

भगवान्स्वां सतीं भार्यां वधार्थं चापि तारकम्॥
सत्याश्च विरहात्तप्यन्ददाह किमसौ स्मरम्॥ २५.२ ॥

त्वयैवोक्तं स विरहात्सत्यास्तप्यति वै तपः॥
हिमाद्रिमास्थितो देवस्तस्याः संगमवांछया॥ २५.३ ॥

॥नारद उवाच॥
सत्यमेतत्पुरा पार्थ भवस्येदं मनीषितम्॥
अतप्ततपसा योगो न कर्तव्यो मयाऽनया॥ २५.४ ॥

तपो विना शुद्धदेहो न कथंचन जायते॥
असुद्धदेहेन समं संयोगो नैव दैहिकः॥ २५.५ ॥

महत्कर्माणि यानीह तेषां मूलं सदा तपः॥
नातप्ततपसां सिद्धिर्महत्कर्माणि यांति वै॥ २५.६ ॥

एतस्मात्कारणाद्देवो दर्पितं तं ददाह तु॥
ततो दग्धे स्मरे चापि पार्वतीमपि व्रीतिताम्॥ २५.७ ॥

विहाय सगणो देवः कैलासं समपद्यत॥
देवी च परमोद्विग्ना प्रस्खलंती पदेपदे॥ २५.८ ॥

जीवितं स्वं विनिंदंती बभ्रामेतस्ततश्चसा॥
हिमाद्रिरपि स्वे श्रृंगे रुदतीं पृष्टवान्रतिम्॥ २५.९ ॥

कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि॥
पृष्टा सा च रतिः सर्वं यथावृत्तं न्यवेदयत्॥ २५.१० ॥

निवेदिते तथा रत्या शैलः संभ्रांतमानसः॥
प्राप्य स्वां तनयां पाणावादायागात्स्वकं पुरम्॥ २५.११ ॥

सा तत्र पितरौ प्राह सखीनां वदनेन च॥
दुर्भगेन शरीरेण किमनेन हि कारणम्॥ २५.१२ ॥

देहवासं परित्यक्ष्ये प्राप्स्ये वाभिमतं पतिम्॥
असाध्यं चाप्यभीष्टं च कथं प्राप्यं तपो विना॥ २५.१३ ॥

नियमैर्विविधैस्तस्माच्छोषयिष्ये कलेवरम्॥
अनुजानीत मां तत्र यदि वः करुणा मयि॥ २५.१४ ॥

श्रुत्वेति वचनं माता पिता च प्राह तां शुभाम्॥
उ मेति चपले पुत्रि न क्षमं तावकं वपुः॥ २५.१५ ॥

सोढुं क्लेशात्मरूपस्य तपसः सौम्यदर्शने॥
भावीन्यप्यनि वार्याणि वस्तूनि च सदैव तु॥ २५.१६ ॥

भाविनोर्था भवंत्येव नरस्यानिच्छतोपि हि॥
तस्मान्न तपसा तेऽस्ति बाले किंचित्प्रयोजनम्॥ २५.१७ ॥

॥श्रीदेव्युवाच॥
यदिदं भवतो वाक्यं न सम्यगिति मे मतिः॥
केवलं न हि दैवेन प्राप्तुमर्थो हि शक्यते॥ २५.१८ ॥

त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्॥ २५.१९ ॥

ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात्॥
अन्यैरपि च यल्लब्धं तन्नसंख्यातुमुत्सहे॥ २५.२० ॥

अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते॥
पश्चात्स शोच्यते मंदः पतितेऽस्मिञ्छरीरके॥ २५.२१ ॥

यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत्॥
क्वचिद्गर्भगतं नश्येज्जातमात्रं क्वचित्तथा॥ २५.२२ ॥

बाल्ये च यौवने चापि वार्धक्येपि विनश्यति॥
तेन चंचलदेहेन कोऽर्थः स्वार्थो न चेद्भवेत्॥ २५.२३ ॥

इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता॥
श्रृंगं हिमवतः पुण्यं नानाश्चर्यं जगाम सा॥ २५.२४ ॥

तत्रां बराणि संत्यज्य भूषणानि च शैलजा॥
संवीता वल्कलैर्दिव्यैस्तपोऽतप्यत संयता॥ २५.२५ ॥

ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता॥
मुनीनामप्य भून्मान्या तदानीं पार्थ पार्वती॥ २५.२६ ॥

त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः॥
शंत च बिल्वपत्रेण शीर्णोन कृतभोजना॥ २५.२७ ॥

जलभक्षा शतं चाभूच्छतं वै वायुभोजना॥
ततो नियममादाय पादांगुष्ठस्थिताभवत्॥ २५.२८ ॥

निराहारा ततस्तापं प्रापुस्तत्तपसो जनाः॥
ततो जगत्समालोक्य तदीयतपसोर्जितम्॥ २५.२९ ॥

हरस्तत्राययौ साक्षाद्ब्रह्मचारिवपुर्द्धरः॥
वसानो वल्कलं दिव्यं रौरवाजिनसंवृतः॥ २५.३० ॥

सुलक्षणाषाढधरः सद्वृत्तः प्रति भानवान्॥
ततस्तं पूजयामासुस्तत्सख्यो बहुमानतः॥ २५.३१ ॥

वक्तुमिच्छुः शैलपुत्रीं सखीभिरिति चोदितः॥
ब्रह्मन्नियं महाभागा गृहीतनियमा शुभा॥ २५.३२ ॥

मुहूर्तपंचमात्रेण नियमोऽस्याः समाप्यते॥
तत्प्रतीक्षस्व तं कालं पश्चादस्मत्सखीसमम्॥ २५.३३ ॥

नानाविदा धर्मवार्ताः प्रकरिष्यसि ब्राह्मण॥
इत्युक्त्वा विजयाद्यास्ता देवीचरितवर्णनैः॥ २५.३४ ॥

अश्रुमुख्यो द्विजस्याग्रे निन्युः कालं च तं तदा॥
ततः काले किंचिदूने ब्रह्मचारी महामतिः॥ २५.३५ ॥

विलोकनमिषेणागादाश्रमोपस्थितं ह्रदम्॥
निपपात च तत्रासौ चुक्रोशातितरां ततः॥ २५.३६ ॥

अहमत्र निमज्जामि कोऽपि मामुद्धरेत भोः॥
इति तारेण क्रोशंतं श्रुत्वा तं विजयादिकाः॥ २५.३७ ॥

आजग्मुस्त्वरया युक्ता ददुस्तस्मै करं च ताः॥
स चुक्रोश ततो गाढं दूरेदूरे पुनःपुनः॥ २५.३८ ॥

नाहं स्पृशाम्यसंसिद्धां म्रिये वा नानृतं त्विदम्॥
ततः समाप्तनियमा पार्वती स्वयमाययौ॥ २५.३९ ॥

सव्यं करं ददावस्य तं चासौ नाभ्यनन्दत॥
भद्रे यच्छुचि नैव स्याद्यच्चैवावज्ञया कृतम्॥ २५.४० ॥

सदोषेण कृतं यच्च तदादद्यान्न कर्हिचित्॥
सव्यं चाशुचि ते हस्तं नावलंबामि कर्हिचित्॥ २५.४१ ॥

इत्युक्ता पार्वती प्राह नाहं दत्तं च दक्षिणम्॥
ददामि कस्यचिद्विप्र देवदेवाय कल्पितम्॥ २५.४२ ॥

दक्षिणं मे करं देवो ग्रहीता भव एव च॥
शीर्यते चोग्रतपसा सत्यमेतन्मयोदितम्॥ २५.४३ ॥

॥विप्र उवाच॥
यद्येवमवलेपस्ते गमनं केन वार्यते॥
यथा तव प्रतिज्ञेयं ममापीयं तथाचला॥ २५.४४ ॥

रुद्रस्यापि वयं मान्याः कीदृशं ते तपो वद॥
विषमस्थं यत्र विप्रं म्रियमाणमुपेक्षसि॥ २५.४५ ॥

अवजा नासि विप्रांस्त्वं तच्छीघ्रं व्रज दर्शनात्॥
यदि वा मन्यसे पूज्यांस्ततोऽभ्युद्धर नान्यथा॥ २५.४६ ॥

ततो विचार्य बहुधा इति चेति च सा शुभा॥
विप्रस्योद्धरणं सर्वधर्मेभ्योऽमन्यताधिकम्॥ २५.४७ ॥

ततः सा दक्षिणं दत्त्वा करं तं प्रोज्जहार च॥
नरं नारी प्रोद्धरति सज्जन्तं भववारिधौ॥
एतत्सन्दर्शनार्थाय तथा चक्रे भवोद्भवः॥ २५.४८ ॥

प्रोद्धृत्य च ततः स्नात्वा बद्ध्व योगासनं स्थिता॥ २५.४९ ॥

ब्रह्मचारी ततः प्राह प्रहसन्किमिदं शुभे॥
कर्तुकामासि तन्वंगि दृढयोगासनस्थिता॥ २५.५० ॥

देवी प्राह ज्वालयिष्ये शरीरं योगवह्निना॥
महादेवकृतमतिरुच्छिष्टाहं यतोऽभवम्॥ २५.५१ ॥

ब्रह्मचारी ततः प्राह काश्चिद्ब्राह्मणकाम्यया॥
कृत्वा वार्तास्ततः स्वीयमभीष्टं कुरु पार्वति॥ २५.५२ ॥

नोपहन्यां कदाचिद्वि साधुभिर्विप्रकामना॥
धर्ममेनं मन्यसे चेन्मुहूर्तं ब्रूहि पार्वति॥ २५.५३ ॥

देवी प्राह ब्रूहि विप्र मुहूर्तं संस्थिता त्वहम्॥
ततः स्वयं व्रती प्राह देवीं तां स्वसखीयुताम्॥ २५.५४ ॥

किमर्थमिति रम्भोरु नवे वयसि दुश्चरम्॥
तपस्त्वया समारब्धं नानुरूपं विभाति मे॥ २५.५५ ॥

दुर्लभं प्राप्य मानुष्यं गिरिराजगृहेऽधुना॥
भोगांश्च दुर्लभान्देवि त्यक्त्वा किं क्लिश्यते वपुः॥ २५.५६ ॥

अतीव दूये वीक्ष्य त्वां सुकुमारतराकृतिम्॥
अत्युग्रतपसा क्लिष्टा पद्मिनीव हिमर्दिता॥ २५.५७ ॥

इदं चान्यत्त्व शुभे शिरसो रोगदं मम॥
यद्देहं त्यक्तुकामा त्वं प्रबुद्धा नासि बालिके॥ २५.५८ ॥

वामः कामो मनुष्येषु सत्यमेतद्वचो यतः॥
स्पृहणीयासि सर्वेषामेवं पीडयसे वपुः॥ २५.५९ ॥

अविज्ञातान्वयो नग्नः शूली भूतगणाधिपः॥
श्मशाननिलयो भस्मोद्धूलनो वृषवाहनः॥ २५.६० ॥

गजाजिनो द्विजिह्वाद्यलंकृतांगो जटाधरः॥
विरूपाक्षः कथंकारं निर्गुणः स्यात्तवोचितः॥ २५.६१ ॥

गुणा ये कुलशीलाद्य वराणामुदिता बुधैः॥
तेषामेकोऽपि नैवास्ति तस्मिंस्तन्नोचितः स ते॥ २५.६२ ॥

शोचनीयतमा पूर्वमासीत्पार्वति कौमुदी॥
त्वं संवृत्ता द्वितीयासि तस्यास्तत्संगमाशया॥ २५.६३ ॥

तपोधनाः सर्वसमा वयं यद्यपि पार्वति॥
दुनोत्येव तवारंभः शूलायां यूपसत्क्रिया॥ २५.६४ ॥

वृषभारोहणं वासः श्मशाने पाणिसंग्रहः॥
सव्यालपाणिना क्षौमगजत्वग्बंधनः कथम्॥ २५.६५ ॥

जनहास्यकरं सर्वं त्वयारब्धमसांप्रतम्॥
स्त्रीभावाद्भूतिसंपर्क्कः कथं चाभिमतस्तव॥ २५.६६ ॥

निवर्तय मनस्तस्मादस्मात्सर्वविरोधिनः॥
मृगाक्षि मदनारातेर्मर्कटाक्षस्य प्रार्थनात्॥ २५.६७ ॥

विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम्॥
निशम्य कुपिता देवी प्राह वाचा सगद्गदम्॥ २५.६८ ॥

मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे॥
महत्तमो याति पुमान्देवदेवस्य निंदया॥ २५.६९ ॥

न सम्यगभिजानासि तस्य देवस्य चेष्टितम्॥
श्रृणु ब्राह्मण त्वं पापाद्यथास्मात्परिमुच्यसे॥ २५.७० ॥

स आदिः सर्वजगतां कोस्य वेदान्वयं ततः॥
सर्वं जगद्यस्य रूपं दिग्वासाः कीर्त्यते ततः॥ २५.७१ ॥

गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः॥
अबद्धाः सर्वतो मुक्ता भूता एव च तत्पतिः॥ २५.७२ ॥

श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम्॥
भूतयः कथिता भूतिस्तां बिभर्ति स भूतिभृत्॥ २५.७३ ॥

वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी॥
सर्पाश्च दोषाः क्रोधाद्यास्तान्बिभर्ति जगन्मयः॥ २५.७४ ॥

नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः॥
वेदत्रयी त्रिनेत्राणि त्रिपुरं त्रिगुणं वपुः॥ २५.७५ ॥

भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः॥
एवंविध महादेवं विदुर्ये सूक्ष्मदर्शिनः॥ २५.७६ ॥

कथंकारं हि ते नाम भजंते नैव तं हरम्॥
अथ वा भीतसंसाराः सर्वे विप्र यतो जनाः॥ २५.७७ ॥

विमृश्य कुर्वते सर्वं विमृश्यैतन्मया कृतम्॥
शुभं वाप्यशुभं वास्तु त्वमप्येनं प्रपूजय॥ २५.७८ ॥

इति ब्रुवंत्यां तस्यां तु किंचित्प्रस्फुरिताधरम्॥
विज्ञाय तां सखीमाह किमप्येष विवक्षुकः॥ २५.७९ ॥

वार्यतामिति विप्रोऽयं महद्दूषणबाषकः॥
न केवलं पापभागी श्रोता वै स्यान्न संशयः॥ २५.८० ॥

अथ वा किं च नः कार्यं वादेन सह ब्राह्मणैः॥
कर्णौ पिधाय यास्यामो यथा यः स्यात्ततास्तु सः॥ २५.८१ ॥

इत्युक्त्वोत्थाय गच्छंत्यां पिधाय श्रवणावुभौ॥
स्वरूपं समुपाश्रित्य जगृहे वसनं हरः॥ २५.८२ ॥

ततो निरीक्ष्य तं देवं संभ्रांता परमेश्वरी॥
प्रणिपत्य महेशानं तुष्टावावनता उमा॥ २५.८३ ॥

प्राह तां च महादेवो दासोऽस्मि तव शोभने॥
तपोद्रव्येण क्रीतश्च समादिश यथेप्सितम्॥ २५.८४ ॥

॥देव्युवाच॥
मनसस्त्वं प्रभुः शंभो दत्तं तच्च मया तव॥
वपुषः पितरावीशौ तौ सम्मानयितुमर्हसि॥ २५.८५ ॥

॥महादेव उवाच॥
पित्रा हि ते परिज्ञातं दृष्ट्वा त्वां रूपशालिनीम्॥
बालां स्वयंवरं पुत्री महं दास्यामि नान्यथा॥ २५.८६ ॥

तत्तस्य सर्वमेवास्तु वचनं त्वं हिमाचलम्॥
स्वयंवरार्थं सुश्रोणि प्रेरय त्वां वृणे ततः॥ २५.८७ ॥

इत्युक्त्वा तां महादेवः शुचिः शुचिषदो विभुः॥
जगामेष्टं तदा देशं स्वपुरं प्रययौ च सा॥ २५.८८ ॥

दृष्ट्वा देवीं तदा हृष्टो मेनया सहितोऽचलः॥ २५.८९ ॥

आलिंग्याघ्राय पप्रच्छ सर्वं सा च न्यवेदयत्॥
दुहितुर्देवदेवेन आज्ञप्तं तु हिमाचलः॥ २५.९० ॥

स्वयंवरं प्रमुदितः सर्वलोकेष्वघोषयत्॥
अश्विनो द्वादशादित्या गन्धर्वरुडोरगाः॥ २५.९१ ॥

यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषा नगाः॥
समुद्राद्याश्च ये केचित्त्रैलोक्यप्रवरास्च ये॥ २५.९२ ॥

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥
त्रयस्त्रिंशच्च ये देवास्त्रयस्त्रिंशच्च कोटयः॥ २५.९३ ॥

जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्॥
आमंत्रितस्तथा विष्णुर्मेरुमाह हसन्निव॥ २५.९४ ॥

तातास्माकं च सा देवी मेरो गच्छ नमामि ताम्॥
अथ शैलसुता देवी हैममारुह्य शोभनम्॥ २५.९५ ॥

विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम्॥
अप्सरोभिः प्रनृत्यद्भिः सर्वाभरणभूषिता॥ २५.९६ ॥

गंधर्वसंघैर्विविधैः किंनरैश्च सुशोभनैः॥
बंदिभिः स्तूयमाना च वीरकांस्यधरा स्थिता॥ २५.९७ ॥

सितातपत्ररत्नांशुमिश्रितं चावहत्तदा॥
शालिनी नाम पार्वत्याः संध्यापूर्णेदुमंडला॥ २५.९८ ॥

चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता॥
मालां प्रगृह्य सा तस्थौ सुरद्रुमसमुद्भवाम्॥ २५.९९ ॥

एवं तस्यां स्थितायां तु स्थिते लोकत्रये तदा॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः॥ २५.१०० ॥

उत्संगतलसंगुप्तो बभूव भगवान्भवः॥
जयेति यत्पदं ख्यातं तस्य सत्यार्थमीश्वरम्॥ २५.१०१ ॥

अथ दृष्ट्वा शिशुं देवास्तस्य उत्संगवर्तिनः॥
कोयमत्रेति संमंत्र्य चुक्रुशुर्भृशरोषिताः॥ २५.१०२ ॥

वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा॥
स बाहुरुद्यतस्तस्य तथैव समतिष्ठत॥ २५.१०३ ॥

स्तंभितः शिशुरूपेण देवदेवेन लीलया॥
वज्रं क्षेप्तुं न शक्नोति बाहुं चालयितुं तदा॥ २५.१०४ ॥

वह्निः शक्तिं तदा क्षेप्तुं न शशाक तथोत्थितः॥
यमोऽपि दंडं खड्गं च निर्ऋतिस्तं शिशुं प्रति॥ २५.१०५ ॥

पाशं च वरुणो राजा ध्वजयष्टिं समीरणः॥
सोमो गुडं धनेशश्च गदां सुमहतीं दृढाम्॥ २५.१०६ ॥

नानायुधानि चादित्या मुसलं वसवस्तथा॥
महाघोराणि शस्त्राणि तारकाद्याश्च दानवाः॥ २५.१०७ ॥

स्तंभिता देवदेवेन तथान्ये भुवनेषु ये॥
पूषा दंतान्दशन्दंर्बालमैक्षत मोहितः॥ २५.१०८ ॥

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना॥
भगश्च नेत्रे विकृते चकार स्फुटिते च ते॥ २५.१०९ ॥

बलं तेजश्च योगांश्च सर्वेषां जगृहे प्रभुः॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि॥ २५.११० ॥

ब्रह्मा ध्यानमुपाश्रित्य बुबोध हरचेष्टितम्॥
सोऽभिगम्य महादेवं तुष्टाव प्रयतो विधिः॥ २५.१११ ॥

पौराणैः सामसंगीतैर्वेदिकैर्गुह्यनामभिः॥
नमस्तुभ्यं महादेव महादेव्यै नमोनमः॥ २५.११२ ॥

प्रसादात्तव बुद्ध्यादिर्जगदेतत्प्रवर्तते॥
मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम्॥ २५.११३ ॥

महादेवमिहायातं सर्वदेवनमस्कृतम्॥
गच्छध्वं शरणं शीघ्रं यदि जीवितुमिच्छत॥ २५.११४ ॥

ततः संभ्रम संपन्नास्तुष्टुवुः प्रणताः सुराः॥
नमोनमो महादेव पाहिपाहि जगत्पते॥ २५.११५ ॥

दुराचारान्भवानस्मानात्मद्रोहपरायणान्॥
अहो पश्यत नो मौढ्यं जानंतस्तव भाविनीम्॥ २५.११६ ॥

भार्यामुमां महादेवीं तथाप्यत्र समागताः॥
युक्तमेतद्यदस्माकं राज्यं गृह्येत चासुरैः॥ २५.११७ ॥

येषामेवंविधाबुद्धिरस्माभिः किं कृतं त्विदम्॥
अथ वा नो न दोषोऽस्ति पशवो हि वयं यतः॥ २५.११८ ॥

त्वयैव पतिना सर्वे प्रेरिताः कुर्महे विभो॥
ईश्वरः सर्व भूतानां पतिस्त्वं परमेश्वरः॥ २५.११९ ॥

भ्रामयस्यखिलं विश्वं यन्त्रारूढं स्वमायया॥
येन विभ्रामिता मूढाः समायाताः स्वयंवरम्॥ २५.१२० ॥

तस्मै पशुनां पतये नमस्तुभ्यं प्रसीद नः॥
अथ तेषां प्रसन्नऽभूद्देवदेवास्त्रियंबकः॥ २५.१२१ ॥

यथापूर्वं चकारैतान्संस्तवाद्ब्रह्मणः प्रभुः॥
तारकप्रमुखा दैत्याः संक्रुद्धास्तत्र प्रोचिरे॥ २५.१२२ ॥

कोयमंग महादेवो न मन्यामो वयं च तम्॥
ततः प्रहस्य बालोऽसौ हुंकारं लीलया व्यधात्॥ २५.१२३ ॥

हुंकारेणैव ते दैत्याः स्वमेव नगरं गताः॥
विस्मृतं सकलं तेषां स्वयंवरमुखं च तत्॥ २५.१२४ ॥

महादेवप्रभावेन दैत्यानां घोरकर्मणाम्॥
एवं यस्य प्रभावो हि देवदैत्येषु फाल्गुन॥ २५.१२५ ॥

कथमीश्वरवाक्यार्थस्तस्मादन्यत्र मुच्यते॥
असंशयं विमुढास्ते पश्चात्तापः पुरा महान्॥ २५.१२६ ॥

ईश्वरं भुवनस्यास्य ये भजंते न त्र्यंबकम्॥
ततः संस्तूयमानः स सुरैः पद्मभुवादिभिः॥ २५.१२७ ॥

वपुश्चकार देवेशस्त्र्यंबकः परमाद्भुतम्॥
तेजसा तस्य देवास्ते सेंद्रचंद्रदिवाकराः॥ २५.१२८ ॥

सब्रह्मकाः ससाध्याश्च वसुर्विश्वे च देवताः॥
सयमाश्च सरुद्राश्च चक्षुरप्रार्थयन्प्रभुम्॥ २५.१२९ ॥

तेभ्यः परतमं चक्षुः स्ववपुर्द्रष्टुमुत्तमम्॥
ददावम्बापतिः शर्वो भवान्याश्चालस्य च॥ २५.१३० ॥

लब्ध्वा रुद्रप्रसादेन दिव्यं चक्षुरनुत्तमम्॥
सब्रह्यकास्तदा देवास्तमपश्यन्महेश्वरम्॥ २५.१३१ ॥

ततो जगुश्च मुनयः पुष्पवृष्टिं च खेचराः॥
मुमुचुश्च तदा नेदुर्देवदुंदुभयो भृशम्॥ २५.१३२ ॥

जगुगधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः॥
मुमुदुर्गणपाः सर्वे मुमोदांबा च पार्वती॥ २५.१३३ ॥

ब्रह्माद्या मेनिरे पूर्णां भवानीं च गिरीश्वरम्॥
तस्य देवी ततो हृष्टा समक्षं त्रिदिवौकसाम्॥ २५.१३४ ॥

पादयोः स्थापयामास मालां दिव्यां सुगंधिनीम्॥
सादुसाध्विति संप्रोच्य तया तं तत्र चर्चितम्॥ २५.१३५ ॥

सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः॥
सर्वे सब्रह्मका देवा जयेति च मुदा जगुः॥ २५.१३६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये श्रीमहादेववैवाहिकोत्सावर्णनंनाम पञ्चविंशोऽध्यायः॥ २५ ॥ छ ॥