स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३५

← अध्यायः ३४ स्कन्दपुराणम्
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः॥
प्रणम्य गुहमूचुश्च प्रबद्धकरसंपुटाः॥ ३५.१ ॥

किंचिद्विज्ञापयष्यामो वयं त्वां श्रृणु तत्त्वतः॥
पूर्वप्रसिद्ध आचारः प्रोच्यते जयिनामयम्॥ ३५.२ ॥

जयंति ये रणे शत्रूंस्तैः कार्यः स्तंभचिह्नकः॥
तस्मात्तव जयोद्द्योतनिमित्तं स्तंममुत्तमम्॥ ३५.३ ॥

नक्षिपाम वयं यावत्त्मनुज्ञातुमर्हसि॥
विश्वकर्मकृतं यच्च तृतीयं लिंगमुत्तमम्॥ ३५.४ ॥

तस्य स्तंभाग्रतसतं च संस्थापय शिवात्मज॥
एवमुक्ते सुरैः स्कन्दस्ततेत्याह महामनाः॥ ३५.५ ॥

ततो हृष्टाः सुरगणाः शक्राद्याः स्तंभमुत्तमम्॥
जांबूनदमयं शुभ्रं रणभूमौ विनिक्षिपुः॥ ३५.६ ॥

परितः स्थंडिलं दिक्षु सर्वरत्नमयं तु ते॥
तत्र हृष्टाश्चाप्सरसो ननृतुर्दशधा शुभाः॥ ३५.७ ॥

मातरो मंगलान्यस्य जगुः स्कन्दस्य नंदिताः॥
इंद्राद्या ननृतुस्तत्र स्वयं विष्णुश्च वादकः॥ ३५.८ ॥

पेतुः खात्पुष्पवर्षाणि देववाद्यानि सस्वनुः॥
एवं स्तंभं समारोप्य जयाख्यं विश्वनंदकः॥ ३५.९ ॥

स्तम्भेश्वरस्ततो देवः स्थापितस्त्र्यक्षसूनुना॥
विरिंचिप्रमुखैर्देवैर्जातानन्दैः समं तदा॥ ३५.१० ॥

हरिहरादित्युक्तैस्तैः सेन्द्रैर्मुनिगणैरपि॥
तस्यैव पश्चिमे भागे शक्त्यग्रेण महात्मना॥ ३५.११ ॥

गुहेन निर्मितः कूपो गंगा तत्र तलोद्भवा॥
माघस्य च चतुर्दश्यां कृष्णायां पितृतर्पणम्॥ ३५.१२ ॥

कूपे स्नानं नरः कृत्वा भक्त्या यः पांडुनंदन॥
गयाश्राद्धेन यत्पुण्यं तत्फलं लभते स्फुटम्॥ ३५.१३ ॥

स्तंभेश्वरं ततो देवं गन्धपुष्पैः प्रपूजयेत्॥
वाजपेयफलं प्राप्य मोदते रुद्रसद्मानि॥ ३५.१४ ॥

पौर्णमास्याममावास्यां महीसागरसंगमे॥
श्राद्धं कृत्वा च योऽभ्यर्च्चेंत्स्तंभेश्वरमकल्मषः॥ ३५.१५ ॥

पितरस्तस्य तृप्यंति तृप्ता यच्छंति चाशिषः॥
स भित्त्वा सर्वपापानि रुद्रलोके महीयते॥ ३५.१६ ॥

इत्याह भगवान्रुद्रः स्कन्दस्य प्रीतये पुरा॥
एवमेव चतुर्थं च स्थापितं लिंगमुत्तमम्॥ ३५.१७ ॥

प्रणेमुर्देवताः सर्वे साधुसाध्विति ते जगुः॥ ३५.१८ ॥

इति स्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तंभेश्वरमाहात्म्यवर्णन नाम पंचत्रिंशोऽध्यायः॥ ३५ ॥ छ ॥