स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४१

← अध्यायः ४० स्कन्दपुराणम्
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥करधम उवाच॥
केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम्॥
वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे॥ ४१.१ ॥
॥महाकाल उवाच॥
अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ॥
योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम॥ ४१.२ ॥
पुरा किलैवं मुनयो नैमिषारण्यवासिनः॥
संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन्॥ ४१.३ ॥
तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल॥
अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते॥ ४१.४ ॥
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि॥
ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः॥ ४१.५ ॥
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत्॥
ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम्॥ ४१.६ ॥
सदाशिवं च वंदे तौ भवेतां मंगलाय मे॥
ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः॥ ४१.७ ॥
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति॥
एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि॥ ४१.८ ॥
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः॥
श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन्॥ ४१.९ ॥
यद्वा देवा न संयांति पारं ये च परस्परम्॥
तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु॥ ४१.१० ॥
उत्तमाधममध्यत्वममीषां वर्णयंति ये॥
असत्यवादिनः पापास्ते यांति निरयं ध्रुवम्॥ ४१.११ ॥
एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः॥
सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम्॥ ४१.१२ ॥
जापकानां सहस्राणि वैष्णवानां तथैव च॥
शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन्॥ ४१.१३ ॥
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम्॥
स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम्॥ ४१.१४ ॥
॥करंधम उवाच॥
कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः॥
न वेदेषु न धर्मेषु रतिमापद्यते मनः॥ ४१.१५ ॥
॥महाकाल उवाच॥
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः॥
स्थूलाः सूक्ष्मा असूक्ष्माश्च कोटिभेदैरनेकशः॥ ४१.१६ ॥
तत्र ये पापनिचयाः स्थूला नरकहेतवः॥
ते समासेन कथ्यंते मनोवाक्कायसाधनाः॥ ४१.१७ ॥ तु. महाभारत अनुशासन १३.२
परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम्॥
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्॥ ४१.१८ ॥
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत्॥
परापवादपैशुन्यं चतुर्धा कर्म वाचिकम्॥ ४१.१९ ॥
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम्॥
परस्वानामुपादानं चतुर्धा कर्म कायिकम्॥ ४१.२० ॥
इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम्॥
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्॥ ४१.२१ ॥
ये द्विषंति महादेवं संसारार्णवतारकम्॥
सुमहात्पातकोपेतास्ते यांति नरकाग्निषु॥ ४१.२२ ॥
महांति पातकान्याहुर्निरंतरफलानि षट्‌॥
नाभिनंदंति ये दृष्ट्वा शंकरं न स्तुवंति ये॥ ४१.२३ ॥
यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च॥
उपचारविनिर्मुक्ताः शिवस्य गुरुसंनिधौ॥ ४१.२४ ॥
शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट्॥
गुरुमार्त्तमशक्तं वा विदेशप्रस्थितं तथा॥ ४१.२५ ॥
अरिभिः परिभूतं वा यस्त्यजति स पापकृत्॥
तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति वा॥ ४१.२६ ॥
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत्॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः॥ ४१.२७ ॥
महापातकिनस्त्वेते तत्संसर्गी च पंचमः॥
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदंति ये॥ ४१.२८ ॥
मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः॥
ब्राह्मणं यः समाहूय याचमानमकिंचनम्॥ ४१.२९ ॥
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः॥
यश्च विद्याभिमानेन निस्तेजयति सद्द्विजम्॥ ४१.३० ॥
उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः॥
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षतां बलात्॥ ४१.३१ ॥
विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः॥
क्षुत्तृष्णातप्तदेहानां द्विजानां भोक्तुमिच्छताम्॥ ४१.३२ ॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम्॥
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः॥ ४१.३३ ॥
उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः॥
गवां तृषाभिभूतानां जलार्थमुपसर्पताम्॥ ४१.३४ ॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम्॥
परदोषं परिज्ञाय नृपकर्णे जपेत यः॥ ४१.३५ ॥
पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम्॥
न्यायेनोपार्जितं विप्रैस्तद्द्रव्यहरणं च यत्॥ ४१.३६ ॥
छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम्॥
अधीत्य यश्च शास्त्राणि परित्यजति मूढधीः॥ ४१.३७ ॥
सुरापानसमं ज्ञेयं जीवनायैव वा पठेत्॥
अग्निहोत्रपरित्यागः पंचयज्ञोपकर्मणाम्॥ ४१.३८ ॥
मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः॥
अभक्ष्यभक्षणं वन्यजंतूनां काम्यया वधः॥ ४१.३९ ॥
ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत्॥
इति घोराणि पापानि सुरापानसमानि च॥ ४१.४० ॥
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम्॥
गोभूरत्नसुवर्णानामौषधीनां रसस्य च॥ ४१.४१ ॥
चंदनागरुकर्पूरकस्तूरीपट्टवाससाम्॥
हस्तन्यासापहरणं स्कमस्तेयसमं स्मृतम्॥ ४१.४२ ॥
कन्यानां वरयोग्यानामदानं सदृशे वरे॥
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च॥ ४१.४३ ॥
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम्॥
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्॥ ४१.४४ ॥
द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः॥
न च चस्मारयते विप्रं तुल्यं तदुपपपातकम्॥ ४१.४५ ॥
अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता॥
अत्यंतविषयासक्तिः कार्पण्यं शाठ्यमत्सरम्॥ ४१.४६ ॥
भृत्यानां च परित्यागः साधुबंधुतपस्विनाम्॥
गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च ताडनम्॥ ४१.४७ ॥
शिवाश्रमतरूणां च पुष्पारामविनाशनम्॥
अयाज्यानां याजनं चाप्ययाच्यानां च याचनम्॥ ४१.४८ ॥
यज्ञारामतडागादिदारापत्यस्य विक्रयः॥
तीर्थयात्रोपवासानां व्रतायतनकर्मणाम्॥ ४१.४९ ॥
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः॥
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्॥ ४१.५० ॥
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम्॥
निंदितानां धनादानं साद्वीकन्योक्तिदूषणम्॥ ४१.५१ ॥
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम्॥
उच्चाटनाभिचाराश्च रागविद्वेषणक्रिया॥ ४१.५२ ॥
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु॥
मूल्येनाध्यापयेद्यस्तु मूल्येनाधीयते च ये॥ ४१.५३ ॥
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम्॥
असच्छास्त्राभिगमनं शुष्कतर्काव लंबनम्॥ ४१.५४ ॥
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च॥
प्रत्यक्षं वा परोक्षं वा राज्ञां मंडलिनामपि॥ ४१.५५ ॥
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये॥
दुःशीला नास्तिकाः पापा न सदा सत्यवादिनः॥ ४१.५६ ॥
पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु॥
रजस्वलास्वयोनौ च मैथुनं यः समाचरेत्॥ ४१.५७ ॥
स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये॥
जनस्याप्रियवक्तारः क्रूराः समयभेदिनः॥ ४१.५८ ॥
भेत्ता तडागकूपानां संक्रमाणांरसस्य च॥
एकपंक्तिस्थितानां च पाकभेदं करोति यः॥ ४१.५९ ॥
इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः॥
युक्तास्तदुनकैः पापैः पापिनस्तान्निबोध मे॥ ४१.६० ॥
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम्॥
अन्तरं यांति कार्येषु ते स्मृताः पापिनो नराः॥ ४१.६१ ॥
परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम्॥
पंक्त्यर्थं ये न कुर्वंति दानयज्ञादिकाः क्रियाः॥ ४१.६२ ॥
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च॥
त्यजंति ये पुरीषाद्यमारामायतनेषु च ॥ ४१.६३ ॥
गीतवाद्यरता नित्या मत्ताः किलकिलापराः॥
कूटवेषक्रियाचाराः कूटसंव्यवहारिणः॥ ४१.६४ ॥
कूटशासनकर्तारः कूटयुद्धकराश्च ये॥
निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः॥ ४१.६५ ॥
मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः॥
चपलश्चापि मायावी शठो मिथ्याविनीतकः॥ ४१.६६ ॥
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान्॥
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान्॥ ४१.६७ ॥
यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति॥
वृथापाकः स विज्ञेयो ब्रह्मवादिविगर्हितः॥ ४१.६८ ॥
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः॥
ये ताडयंति गां नित्यं वाहयंति मुहुर्मुहुः॥ ४१.६९ ॥
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च॥
पीडयन्त्यभिचारेण सक्षतान्वाहयंति च॥ ४१.७० ॥
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः॥
अजाविको माहिषिकः समुद्री वृषलीपतिः॥ ४१.७१ ॥
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः॥
यश्च शास्त्रमतिक्रम्य स्वेच्छयैवाहरेत्करम्॥ ४१.७२ ॥
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि॥
उत्कोचकैरधिकृतैस्तस्करैस्च प्रपीड्यते॥ ४१.७३ ॥
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः॥
अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपिणम्॥ ४१.७४ ॥
आलस्योपहतो राजा व्यसनी नरकं व्रजेत्॥
एवमादीनि चान्यानि पापान्याहुः पुराविदः॥ ४१.७५ ॥
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम्॥
अपहृत्य नरः पापो नारकी नात्र संशयः॥ ४१.७६ ॥
एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम्॥
शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात्॥ ४१.७७ ॥
तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत्॥
सदाशिवं च शरणं व्रजेत्सच्छ्रद्धया युतः॥ ४१.७८ ॥
नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा॥
संपर्कात्कौतुकाल्लोभान्न तस्य विफलं भवेत्॥ ४१.७९ ॥
॥करंधम उवाच॥
संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि॥
कृतेन येन मनुजः शिवपूजाफलं लभेत्॥ ४१.८० ॥
॥महाकाल उवाच॥
प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत्॥
दर्शनात्स्पर्शनान्मर्त्यः कृततृत्यो भवेत्स्फुटम्॥ ४१.८१ ॥
आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा॥
आपद्गतः कण्ठस्नानं मन्त्रस्नानमथापि वा॥ ४१.८२ ॥
आविकं परिदध्याच्च ततो वासः सितं च वा॥
धातुरक्तमथो नव्यं मलिनं संधितं न च॥ ४१.८३ ॥
उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम्॥
भस्मत्रिपुण्ड्रधारी च ललाटे हृति चांसयोः॥ ४१.८४ ॥
पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः॥
सर्वदोषान्बहिः क्षिप्य शिवायतनमाविशेत्॥ ४१.८५ ॥
प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत्॥
पाणी प्रक्षाल्य तच्चित्तो निर्माल्यमवरोपयेत्॥ ४१.८६ ॥
येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम्॥
तस्मान्मार्जयते त्वेवं स्थाणुनैतत्परस्परम्॥ ४१.८७ ॥
रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः॥
भक्तिर्देवस्य तिष्ठेन्न मालिन्यं मार्जतः सदा॥ ४१.८८ ॥
गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै॥
गडुकास्तु समाः सर्वे सर्वे च शुभदर्शनाः॥ ४१.८९ ॥
निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः॥
वस्त्रपूतजलैः पूर्णागन्धधूपैश्च वासिताः॥ ४१.९० ॥
क्षालिताः पूरिता नीताः षडक्षरजपेन च॥
गडुकाष्चशतं कुर्यादथवाप्यष्टविंशतिः॥ ४१.९१ ॥
अष्टादशापि चतुरस्ततोन्यूनं न कारयेत्॥
पयो दधि घृतं चैव क्षौद्रमिक्षुरसं तथा॥ ४१.९२ ॥
एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात्॥
ततो बहिर्विनिष्क्रम्य पूजयेत्प्रतिहारकान्॥ ४१.९३ ॥
सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात्॥ ४१.९४ ॥
ॐगं गणपतये नमः॥ ॐक्षां क्षेत्रपालाय नमः॥ ॐगं गुरुभ्यो नमः॥ इति आकाशे॥ ॐकौं कुलदेव्यै नमः॥ ॐ नंदिने नमः॥ ॐमहाकालाय नमः॥ ॐधात्रे विधात्रै नमः॥
ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः॥
उदङ्मुखः क्षणं ध्यायेत्समकायासनस्थितः॥ ४१.९५ ॥
दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम्॥
सोममण्डलमध्यस्थं ध्यायेद्वै वह्निमंडलम्॥ ४१.९६ ॥
तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम्॥
पंचवक्त्रं दशभुजं त्रिनेत्रं चंद्रभूषितम्॥ ४१.९७ ॥
वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः॥
ततः पूर्वं प्रदद्याच्च पाद्यार्घं शंभवे नृप॥ ४१.९८ ॥
पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम्॥
क्षीरं दधि मधु पुनर्नवांगोऽर्घः प्रकीर्तितः॥ ४१.९९ ॥
ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत्॥
गृहीत्वा गडुकं पूर्वं मलस्नानं समाचरेत्॥ ४१.१०० ॥
अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम्॥
सर्वेण स्नापयेत्पश्चात्पूजयेत्स्नापयेत्ततः॥ ४१.१०१ ॥
प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः॥
ॐहूं विश्वमूर्तये शिवाय नम॥
इति द्वादशाक्षरो मूलमंत्रः॥ ४१.१०२ ॥
वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च॥
स्नापयेन्मूलमन्त्रेण जलधूपार्चनात्पृथक्॥ ४१.१०३ ॥
गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत्॥ ४१.१०४ ॥
विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत्॥
पूजयेद्विविधैः पुष्पैर्विधिना येन तच्छृणु॥ ४१.१०५ ॥
आग्नेयपादे॥ ॐधर्माय नमः॥ नैर्ऋतके॥ ॐज्ञानाय नमः॥ वायव्ये॥ ॐवैराग्याय नमः॥ ईशानपादे॥ ॐऐश्वर्याय नमः॥ पूर्वपादे॥ ॐअधर्माय नमः॥ दक्षिणे॥ ॐअज्ञानाय नमः॥ पश्चिमे॥ ॐअवैराग्याय नमः॥ उत्तरे ॐअनैश्वर्याय नमः॥ ॐअनन्ताय नमः॥ ॐपद्माय नमः ॐअर्कमण्डला नमः॥ ॐसोममण्डलाय नमः॥ ॐवह्निमण्डला नमः॥ ॐवामाज्येष्ठादिपंचमन्त्रशक्तिभ्यो नमः॥ ॐपरमप्रकृत्यै देव्यै नमः॥ ॐईशानतत्पुरुषाघोरवामदेवसद्योजातपञ्चवक्त्राय रुद्रसाध्यवस्वादित्यविश्वेदेवादिदेवविश्वरूपाय अण्डजस्वेदजोद्भिज्जजरायुजरूपस्थावरजङ्गममूर्तये परमेश्वराय ॐहूं विश्वमूर्तये शिवाय नमस्त्रिशूलधनुःखड्गकपालदण्डकुठारेभ्यः॥ ४१.१०६ ॥
ततो जलाधारमुखे चण्डीश्वराय नमः॥
एवं संपूज्य विधिवत्ततोऽर्घं संनिवेशयेत्॥ ४१.१०७ ॥
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः॥
गृहाणार्घ्यं महादेव पूजासंपूर्तिहेतवे॥ ४१.१०८ ॥
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया॥
धूपं दीपं च नैवेद्यं क्रमात्पश्चान्निवेदयेत्॥ ४१.१०९ ॥
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत्॥
भ्रामयेद्देवदेवस्य शंखवादित्रनिःस्वनैः॥ ४१.११० ॥
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः॥
स मुच्येत्पातकैः सर्वैः किं पुनर्यः करिष्यति॥ ४१.१११ ॥
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत्॥
तस्य तुष्येदनंतंहि गीतवाद्यफलं यतः॥ ४१.११२ ॥
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि॥
क्षमापयेच्च देवेशं सुकृतं कुकृतं क्षम॥ ४१.११३ ॥
य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः॥
पितरं पितामहं चैव तथैव प्रपितामहम्॥ ४१.११४ ॥
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम्॥
एवं माहेश्वरो भूत्वा सदाचारव्रतस्थितः॥ ४१.११५ ॥
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि॥
य एवं यजते रुद्रं तेनैतत्तर्पितं जगत्॥ ४१.११६ ॥
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत्॥
आचारात्फलते धर्मो ह्याचारात्स्वर्गमश्नुते॥ ४१.११७ ॥
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम्॥
यज्ञदानतपांसीह पुरुषस्य न भूतये॥ ४१.११८ ॥
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते॥
तस्य किञ्चित्समुद्देशं वक्ष्ये तं श्रृणु पार्थिव॥ ४१.११९ ॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना॥
तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च॥ ४१.१२० ॥
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत्॥
समुत्थाय तथाचम्य दंतधावनपूर्वकम्॥ ४१.१२१ ॥
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः॥
पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम्॥ ४१.१२२ ॥
उपासीत यथान्यायं नैनां जह्यादनापदि॥
वर्जयेदनृतं चासत्प्रलापं परुषं तथा॥ ४१.१२३ ॥
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव॥
आदर्शदर्शनं दंतधावनं केशसाधनम्॥ ४१.१२४ ॥
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः॥
पालाशमासनं चैव पादुके दंतधावनम्॥
वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः॥ ४१.१२५ ॥
जलमग्निं च निनयेद्यगपन्न विचक्षणः॥ ४१.१२६ ॥
पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ॥
चतुष्पथं चैत्यतरुं देवागारं तथा यतिम्॥ ४१.१२७ ॥
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्॥ ४१.१२८ ॥
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः॥
वाग्बुद्धिवीर्याणि तपस्तथैव वार्तायुषी गुप्ततमे च कार्ये॥ ४१.१२९ ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः॥
दक्षिणाभिमुखो रात्रौ ह्येवमायुर्न रिष्यते॥ ४१.१३० ॥
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति॥
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः॥ ४१.१३१ ॥
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः॥
रथ्याचंक्रमणे चार्द्रपञ्चकश्चाचमेत्सदा॥ ४१.१३२ ॥
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि॥
न गोमये न कृष्टे च नैवालूने न शाड्वले॥ ४१.१३३ ॥
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः॥
अंतर्जलाद्देवकुलाद्वल्मीकान्मूषकस्थलात्॥ ४१.१३४ ॥
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः॥
गन्धलेपापहरणं शौचं कुर्यात्तथा बुधः॥ ४१.१३५ ॥
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च॥
उभाभ्यामपि पाणिभ्यां कण्डूयेन्नात्मनः शिरः॥ ४१.१३६ ॥
रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः॥
सूर्यास्तं न विनाकाश्चित्क्रिया नैवाचरेत्तथा॥ ४१.१३७ ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः॥
शिवचित्तोर्जयोद्वित्तं न चातिकृपणो भवेत्॥ ४१.१३८ ॥
नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः॥
न पाणिपादचपलो न नेत्रचपलोऽनृजुः॥ ४१.१३९ ॥
न च वागङ्गचपलो न चाशिष्टस्य गोचरः॥
न शुष्कवादं कुर्वीत शुष्क्रवैरं तथैव च॥ ४१.१४० ॥
उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः॥
भिन्नाशनं भिन्नशय्यां वर्जयेद्भिन्नभाजनम्॥ ४१.१४१ ॥
अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः॥
नाग्न्योर्न विप्रयोश्चैव न दंपत्योर्नृपोत्तम॥ ४१.१४२ ॥
न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च॥
एतेषामंतरं कुर्वन्यतः पापमवाप्नुयात्॥ ४१.१४३ ॥
नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत्॥
न चार्चयेद्द्विजान्नैव कुर्याद्देवार्चनं बुधः॥ ४१.१४४ ॥
खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा॥
रंधनं भोजनं स्वाप उत्थानं गमनं क्षुतम्॥ ४१.१४५ ॥
कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम्॥
पिबञ्जिघ्रन्स्पृशञ्छृण्वन्विवक्षुर्मैथुनं तथा॥ ४१.१४६ ॥
शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा॥
माहेश्वरः स विज्ञेयः शेषोन्यो नामधारकः॥ ४१.१४७ ॥
स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत्॥
परस्त्रियं नाभिभाषेत्तथा संभाषयेद्यदि॥ ४१.१४८ ॥
मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः॥
उचछिष्टो नालभेत्किंचिन्न च सूर्यं विलोकयेत्॥ ४१.१४९ ॥
नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः॥
स्वस्रा दिहित्रा मात्रा वा नैकांतासन माचरेत्॥ ४१.१५० ॥
दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन्॥
गुरुमभ्यागतं गेहे स्वयमुत्थाय यत्नतः॥ ४१.१५१ ॥
आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम्॥
नोदक्छिराः स्वपेज्जातु न च प्रत्यक्छिरा बुधः॥ ४१.१५२ ॥
शिरस्यगस्त्यमाधाय तथैव च पुरंदरम्॥
उदक्यादर्शनं स्पर्शं वर्ज्यं संभाषणं तथा॥ ४१.१५३ ॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत्॥
कृत्वा विभवतो देवमनुष्यर्षिसमर्चनाम्॥ ४१.१५४ ॥
पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति॥
वाग्यतः शुचिराचांतः प्राङ्मुखोदङ्मुखोऽपि वा॥ ४१.१५५ ॥
अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन्॥
नोपघातं विना दोषान्न तस्योदाहरेद्बुधः॥ ४१.१५६ ॥
नग्नस्नानं न कुर्वीत न शयीत व्रजेत वा॥
दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत्॥ ४१.१५७ ॥
परिवादं न श्रृमुयादन्येषामपि जल्पताम्॥
सदा चा कर्णयेद्धमास्त्यक्त्वा कृत्यशतान्यपि॥ ४१.१५८ ॥
नित्यं नित्यं हि संमार्ष्टि गेहदर्पणयोरिव॥
शुक्लायां च चतुर्दश्यां नक्तभोजी सदा भवेत्॥ ४१.१५९ ॥
तिस्रो रात्रीर्न शक्तश्चेदेवं माहेश्वरो भवेत्॥
संयावकृशरामांसं नात्मानमुपसाधयेत्॥ ४१.१६० ॥
सायंप्रातश्च भोक्तव्यं कृत्वा ह्यतिथि भोजनम्॥
स्वप्नाध्ययनभोज्यानि संध्ययोश्च विवर्जयेत्॥ ४१.१६१ ॥
भुंजानः संध्ययोर्मोहादसुरावसथो भवेत्॥
स्नातो न धूनयेत्केशान्क्षुते निष्ठीवितेऽध्वनि॥ ४१.१६२ ॥
आलभेद्दक्षिणं कर्णं सर्वभूतानि क्षामयेत्॥
न चापि नीलीवासाः स्यान्न विपर्यस्तवस्त्रधृक्॥ ४१.१६३ ॥
वर्ज्यं च मलिनं वस्त्रं दशाभिश्च विवर्जितम्॥
प्रक्षाल्य मुखहस्तौ च पादौ चाप्युपविश्य च॥ ४१.१६४ ॥
अंतजानुस्त्रिराचामेद्दिर्मुखं परिमार्जयेत्॥
तोयेन स्पर्शयेत्खानि स्वमूर्धानं तथैव च॥ ४१.१६५ ॥
आचम्य पुनराचम्य क्रियाः कुर्वीत सर्वशः॥
क्षुते निष्ठीविते चैव दंतलग्ने तथैव च॥ ४१.१६६ ॥
पतितानां च संभाषे कुर्यादाचमनिक्रियाम्॥
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता॥ ४१.१६७ ॥
धर्मतो धनमाहार्य यष्टव्यं चापि यत्नतः॥
हीनेभ्योपि न युंजीत त्वंकारं कर्हिचिद्बधः॥
त्वंकारो वा वधो वापि गुरूणामुभयं समम्॥ ४१.१६८ ॥
सत्यं वाच्यं नित्यमैत्रेण भाव्यं कार्यं त्याज्यं नित्यमायासकारि॥
लोकेऽमुष्मिन्यद्दिनं स्यात्तथास्मिन्नात्मा योगे येजनीयो गभीरैः॥ ४१.१६९ ॥
तीर्थस्नानैः सोपवासैर्व्रतैश्च पात्रे दानैर्होमजप्यैश्चयज्ञैः॥
भवार्चनैर्देवपूजाविशेषैरात्मा नित्यं शोधनीयो मलाक्तः॥ ४१.१७० ॥
यत्रापि कुर्वतो नात्मा जुगुप्सामेति पार्थिव॥
तत्कर्तव्यसमसंगेन यन्नगोप्यं महाजने॥ ४१.१७१ ॥
इति ते वै समुद्देशः कीर्तितः किंचिदेव च॥
शेषः स्मृतिपुराणेभ्यस्त्वया श्रोतव्य एव च॥ ४१.१७२ ॥
एवमाचरतो धर्मं महेशस्य गृहे सतः॥
धर्मार्थकामसंप्राप्तौ परत्रेह च शोभनम्॥ ४१.१७३ ॥
एवं नानाविधान्धर्मान्महाकालस्य फाल्गुन॥
वदतो ध्वनिराकाशे सुमहानभ्यजायत॥ ४१.१७४ ॥
यावत्पश्यंति ये तत्र समाजग्मुः श्रृणुष्व तान्॥
ब्रह्मा विष्णुः स्वयं रुद्रो दे वी रुद्रगणास्तथा॥ ४१.१७५ ॥
इंद्रादयस्तथा देवा वसिष्ठाद्या मुनीश्वराः॥
तुंबरुप्रवराश्चापि गंधर्वाप्सरसां गणाः॥ ४१.१७६ ॥
तान्महेशमुखान्सर्वान्महाकालो महामतिः॥
अर्चयामास बहुधा भक्त्युद्रेकातिपूरितः॥ ४१.१७७ ॥
ततो ब्रह्मादिभिर्देवैर्वरे रत्नमयासने॥
उपविष्टोऽभिषिक्तश्च महीसागरसंगमे॥ ४१.१७८ ॥
ततो देव्या समालिंग्य नीत्वोत्संगं स्वकं मुदा॥
पुत्रत्वे कल्पितः पार्थ महाकालो महामतिः॥ ४१.१७९ ॥
उक्तञ्च यावद्ब्रह्माण्डमिदमास्ते शिवव्रत॥
तावत्तिष्ठ शिवस्थाने शिववच्छिवभक्तितः॥ ४१.१८० ॥
देवेन च वरो दत्तस्त्वल्लिंगं योऽर्चयिष्यति॥
जितेन्द्रियः शुचिर्भूत्वा ऊर्ध्वं मल्लोकमेष्यति॥ ४१.१८१ ॥
दर्शनं स्तवनं पूजा प्रणामश्च ततो जपः॥
दानं चात्र कृतं लिंगे ममातितृप्तिकारणम्॥ ४१.१८२ ॥
इत्युक्ते विस्मिता देवाः साधु साध्विति ते जगुः॥
ब्रह्मविष्णुमुखाश्चैव महाकालं प्रतुष्टुवुः॥ ४१.१८३ ॥
ततः सुरैःस्तूयमानो वंद्यमानश्च चारणैः॥
नृत्यद्भिरप्सरोभिश्च कीतैर्गंधर्वजैः शुभैः॥ ४१.१८४ ॥
कोटिकोटिगणैश्चैव स्तुवद्भिः सर्वतो वृतः॥ ४१.१८५ ॥
महाकालो रुद्रभवनं गतो भवपुरस्सरः॥
एवमेतन्महालिंगमुत्पन्नं कुरुनंदन॥ ४१.१८६ ॥
कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम्॥
अत्र ये मनुजाः पार्थ लिंगस्याराधने रताः॥ ४१.१८७ ॥
महाकालः समालिंग्य ताञ्छिवाय निवेदयेत्॥
एतदत्यद्भुतं लिंगं त्रिषु लोकेषु विश्रुतम्॥ ४१.१८८ ॥
दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन॥ ४१.१८९ ॥
ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः॥ ४१.१९० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीमहाकालमाहात्म्ये महाकालकरंधमसंवादे शिवपूजनविधिनित्यकर्तव्यधर्मनिरूपणपूर्वकमहाकालशिवलोकप्राप्तिवर्णनंनामैकचत्वारिंशोऽध्यायः॥ ४१ ॥ छ ॥