स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ३६

।। ।। ब्रह्मोवाच ।। ।।
यास्तिस्रस्तिथयः पुण्या अंतिके शुक्लपक्षके ।।
कार्तिके मासि विप्रेंद्र पूर्णिमांताः शुभवहाः ।। १ ।।
अंतिपुष्करिणी संज्ञा सर्वपापक्षयावहा ।।
कार्त्तिके मासि संपूर्णं यो वै स्नानं करोति ह ।। २ ।।
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत् ।।
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून्पुनंति हि ।। ३ ।।
चतुर्दश्यां सयज्ञाश्च देवा जंतून्पुनंति हि ।।
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि ।। ४ ।।
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जंतून्पुनंति हि ।।
उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये ।। ५ ।।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश ।।
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये ।। ६ ।।
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ।।
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ।। ७ ।।
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम् ।।
कुटुंबभोजन यस्तु गृहस्थस्तु दिनत्रये ।। ।। ८ ।।
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ।।
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ।। ९ ।।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ।।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये ।। 2.4.36.१० ।।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा ।।
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च ।। ११ ।।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ।।
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम् ।। १२ ।।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ।।
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ।। १३ ।।
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात् ।।
कार्त्तिके हरिपूजां तु यः करोति दिनत्रये ।। १४ ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।।
कार्त्तिके मासि विप्रेंद्र सर्वमंत्यदिनत्रये ।। १५ ।।
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ।।
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत् ।। १६ ।।
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत् ।।
उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः ।। १७ ।।
मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम् ।।
चूतपल्लवसंवीतमिक्षुदंडैः सुमंडितम्।। १८ ।।
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत् ।।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम् ।। १९ ।।
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ।।
संपूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा ।। 2.4.36.२० ।।
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने ।।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः ।। २१ ।।
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि ।।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः ।। २२ ।।
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः ।।
साधुः कारुणिको वाग्ग्मी वदेत्पुण्यां कथां सुधीः ।। २३।।
व्यासासनं समारूढो यदा पौराणिको भवेत् ।।
आसमाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ।। २४ ।।
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।।
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ।।२५।।
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा ।।
वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः ।। २६ ।।
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः ।।
तेषां पुण्यफलं नाऽस्ति दुःखं स्याजन्मजन्मनि ।। २७ ।।
पौराणिकं च मासांते पूजयेद्भक्तितत्परः ।।
गन्धमाल्यैस्तथा वस्त्रैरलंकारैर्धनेन च ।। २८ ।।
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः ।। २९ ।।
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ।।
भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ।। 2.4.36.३० ।।
उच्चासनसमारूढो न नरः प्रणतो भवेत् ।।
विषवृक्षस्तथा स्वापे वने चाऽजगरो भवेत् ।। ३१ ।।
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ।।
कोट्यब्दनरकान्भुक्त्वा भवंति ग्रामसूकराः ।। ३२ ।।
ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम् ।।
कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदे ।। ३३ ।।
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः ।।
कम्बलाजिनवासांसि मंचं फलकमेव वा ।। ३४ ।।
परिधानीयवस्त्राणि प्रयच्छंति च ये नराः ।।
भूषणादि प्रयच्छंति वसेयुर्ब्रह्मसद्मनि ।। ३५ ।।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।।
अतः संतोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान् ।।
तस्य पुण्यफलं पूर्णं भवत्येव न संशयः ।। ३६ ।।
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ।।
सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ।।३७।।
कलौ युगे विशेषेण पुराणश्रवणादृते ।।
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ।।
पुराणश्रवणाद्विष्णोर्नास्ति संकीर्तनात्परम् ।। ३८ ।।
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि ।।
स तीर्थराज बदरीगमनस्य फलं लभेत् ।। ३९ ।।
सर्वरोगापहं सर्वपापनाशकरं शुभम् ।। 2.4.36.४० ।।
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः ।।
कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत् ।। ४१ ।।
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ।।
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ।। ४२ ।।
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ।।
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ।।
पुराणविद्यादातारो ह्यनंतफलभोगिनः ।। ।। ४३ ।।
इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत् ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ४४ ।।
न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः ।। ४५ ।।
अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः ।।
भुक्त्वा तु भोगान्नरकेषु चैव ततो हि जन्मान्तर दुःखभोगी ।। ४६ ।।
तस्मात्संपूजयेद्भक्त्या गुरुं तत्त्वावबोधकम् ।।
माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ ।। ४७ ।।
न शक्यते हि संपूर्णं वक्तुं वर्षशतैरपि ।।
पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः ।। ४८ ।।
कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन् ।।
तथापि नांतमगमदशक्तो विरराम ह ।। ४९ ।।
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् ।।
किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात् ।। 2.4.36.५० ।।
।। सूत उवाच ।। ।।
इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः ।।
भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः ।। ५१ ।।
कथितं शंकरेणाऽपि पुत्राय हितकाम्यया ।।
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ।। ५२ ।।
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः ।।
कथितस्तेन संतुष्टा सत्या व्रतमथाऽकरोत् ।।५३।।
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम् ।।
ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः ।। ५४ ।।
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम् ।।
नाऽनेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम् ।। ५५ ।।
।। व्यास उवाच ।। ।।
इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः ।।
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च ।। ५६ ।।
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः ।।
यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम् ।। ५७ ।।
अनेन विधिना ये वै कुर्वंति कार्तिकव्रतम् ।।
ते सर्वपापनिर्मुक्ता गच्छंति विष्णुमंदिरम् ।। ५८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये पुष्करिणीसंज्ञिकांतिमतिथित्रयमाहात्म्यकथनपूर्वकपुराण श्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः ।। ३६ ।।

इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे सटीकं कार्तिकमासमाहात्म्यं समाप्तम् ।।

इति श्रीज्योतिर्वित्कुलावतंसव्यंकटरामात्मजहरिकृष्णशास्त्रिविरचितायां कार्त्तिकमासमाहात्म्यटीकायां पुराणश्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः।।३६।।