स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १८

।। जैमिनिरुवाच ।। ।।
ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका ।।
तस्यां त्रैलोक्यमभवदेकसद्मनिभं द्विजाः ।। १ ।।
शास्त्रैः स्तोत्रैर्दिवस्पृग्भिर्वर्णक्रमसमुज्ज्वलैः ।।
यथापदस्वरन्यासैरन्ये शब्दास्तिरोहिताः ।। २ ।।
दीनेभ्योऽवारितं तत्र दीयन्ते वाञ्छितानि वै ।।
नटनर्त्तकसूतानां साभूत्कल्पद्रुमोपमा ।। ३ ।।
तन्मध्येऽवभृथे स्नातुं कृता यत्रोपकारिका ।।
दक्षिणे तटभूदेशे बिल्वेश्वरसमीपतः ।। ४ ।।
नियुक्ताः सेवका राज्ञा ससंभ्रममुपस्थिताः ।।
न्यवेदयन्त नृपतिं कृतांजलिपुटा द्विजाः ।। ५ ।।
देव दृष्टो महान्वृक्षस्तटभूमौ महोदधेः ।।
प्रविष्टाग्रसमुद्रांतः कल्लोलप्लवमूलकः ।। ६ ।।
मंजिष्ठवर्णः सर्वत्र शंखचक्रांकितः प्लवन् ।।
स्नानवेश्मसमीपेऽसौ दृष्टोऽस्माभिः परोऽद्भुतः ।। ७ ।।
न दृष्टपूर्वो वृक्षोऽयमुद्यत्सूर्यनिभोंऽशुना ।।
गंधेन वासयन्सर्वा तटभूमिं सुगंधिना ।। ८ ।।
द्रुमः साधारणो नायं लक्ष्यते देवभूरुहः ।।
कश्चिद्देवस्तरुव्याजादागतो लक्ष्यते धुवम् ।। ९ ।।
नियुक्तानां वचः श्रुत्वा राजा नारदमब्रवीत् ।।
तत्किं निमित्तं यद्दृष्टं तरुश्रेष्ठं वदंति ते ।। 2.2.18.१० ।।
नारदः प्रहसन्वाक्यमुवाच नृपसत्तमम् ।।
पूर्णाहुतिः समाप्नोतु यथा स्यात्सफलः क्रतुः ।। ११ ।।
उपस्थितं ते तद्भाग्यं स्वप्ने यद्दृष्टवान्पुरा ।।
श्वेतद्वीपे विश्वमूर्तिर्दृष्टो यो विष्णुरव्ययः ।। १२ ।।
तदंगस्खलितं रोम तरुत्वमुपपद्यते ।।
अंशावतारः स्थास्नुर्यः पृथिव्यां परमेष्ठिनः ।। १३ ।।
तद्रूपावतरं याति भगवान्भक्तवत्सलः ।।
द्रुमो ह्यपौरुषो योसौ भाजनं नास्य दर्शने ।। १४ ।।
त्वामृते पुरुषव्याघ्र पृथिव्यां नृपसत्तम ।।
त्वद्भाग्यवशतः सर्वलोकानां नयनातिथिः ।। १५ ।।
भविष्यति महाराज सर्वकल्मषनाशनः ।।
समाप्यावभृथस्नानं तटांते सरितां पतेः ।। १६ ।।
उत्सवं सुमहत्कृत्वा कृतकौतुकमंगलम् ।।
महावेद्यां स्थापयात्र यज्ञेशं तरुरूपिणम् ।। १७ ।।
विचार्येत्थं मुदा युक्तौ तावुभौ नृपनारदौ ।।
सुसमृद्धौ तत्र यातौ यत्रासौ भगवद्द्रुमः ।। ।। १८ ।।
तं दृष्ट्वा हर्षिताः सर्वे ब्रह्म साक्षादुपस्थितम् ।।
मेनिरे जन्मसाफल्यं जीवन्मुक्ता महोदयाः ।। १९ ।।
इन्द्रद्युम्नोऽपि नृपतिर्ममज्जामृतसागरे ।।
स्वप्ने दृष्ट्वा जगन्नाथं यथासौ भगवत्प्रियः ।। 2.2.18.२० ।।
तथा ददर्श तं वृक्षं चक्षुःशाखं चतुर्भुजम् ।।
स्वकं श्रमं मन्यमानः सफलं नृपसत्तमः ।। ।। २१ ।।
जहौ शोकं नीलमणिमाधवांतर्धिजं द्विजाः ।।
पुनः पुनः प्रणम्यैनं हर्षाश्रुनयनो नृपः ।। २२ ।।
द्विजैराहारयामास तरुं कल्लोललोलितम् ।।
शंखकाहालमुरजढक्कापटहनिःस्वनैः ।। २३ ।।
गीतवादित्रनिनदैर्जयशब्दैः सहस्रशः ।।
सुगंधिपुष्पांजलिभिराकाशात्पतितैर्मुहुः ।। २४।।
परितो धूपपात्रैश्च कृष्णागुरुसुधूपितैः ।।
वेश्याभिर्यौवनोन्मत्तसुरूपाभिः प्रचालितैः ।। २५ ।।
रत्नदण्डप्रकीर्णैश्च वीज्यमानं समंततः ।।
पताकाभिर्दिव्यपट्टदुकूलाभिः सुशोभितम् ।। २६ ।।
राजर्षिराजवृन्दैश्च तुरगैः पत्तिभिर्वृतम् ।।
मागधैर्वंद्यमानं तु स्तूयमानं महर्षिभिः ।।२७।।
ऋत्विग्भिर्ब्राह्मणैश्चैव विद्वद्भिः श्रोत्रियैस्तथा ।।
राजन्यैर्वैश्यकुलजैः सच्छूद्रैः परिचारितम् ।। २८ ।।
स्तोत्रैर्बहुविधैः श्रौतैः स्मार्तैः पौराणिकैस्तथा ।।
स्तूयमानं तरुं विष्णोर्भूर्लोके परिवेष्टितम् ।।२९।।
स्रग्गन्धालंकृतं दिव्यं महावेदीं विनिन्यतुः।।
वितानवरचित्रायां वेष्टितायां निरंतरम् ।।2.2.18.३०।।
वेद्यां तं स्थापयामासुरिंद्रद्युम्नस्य शासनात् ।।
वचसा नारदस्यैनं पूजयामास पार्थिवः ।। ३१ ।।
सहस्रैरुपचाराणां दिव्यरूपैर्नृपोत्तमः ।।
पूजावसाने पप्रच्छ नारदं मुनिसत्तमम् ।।३२।।
कीदृश्यः प्रतिमा विष्णोर्घटयिष्यति कः पुनः ।।
तच्छ्रुत्वा तं मुनिः प्राह अचिंत्यमहिमा गुरुः ।। ३३।।
को वेद तस्य चेष्टां वै सर्वलोकोत्तरां नृप ।।
स्रष्टा यो जगतां तस्याप्येषा संशयगोचरा ।। ३४ ।।
विचारयंतौ तावित्थं यावन्नारदपार्थिवौ ।।
अशरीरा ततो वाणी शुश्रुवे चांतरिक्षतः ।। ३५ ।।
तत्र विस्मयमानानां सर्वेषामेव शृण्वताम् ।।
अपौरुषेयो भगवानविचारपथे स्थितः ।। ३६ ।।
सुगुप्तायां महावेद्यां स्वयं सोऽवतरिष्यति ।।
प्रच्छाद्यतां दिनान्येषा यावत्पंचदशानि वै ।। ३७ ।।
उपस्थितोऽयं यो वृद्धः शस्त्रपाणिस्तु वर्द्धकिः ।।
एनमंतः प्रवेश्यैव द्वारं बध्नंतु यत्नतः ।। ३८ ।।
बहिर्वाद्यानि कुर्वंतु यावत्तु घटना भवेत् ।।
श्रुतो हि घटनाशब्दो बाधिर्यांधत्वदायकः ।। ३९ ।।
नरके वसतिं चैव कुर्यात्संताननाशनम् ।।
नांतःप्रवेशनं कुर्यान्न पश्येच्च कदाचन ।।2.2.18.४०।।
नियुक्तादन्यः पश्येच्चेद्राज्ञो राष्ट्रस्य चैव ह ।।
द्रष्टुश्चापि महाभीतिरंधता चक्षुषोर्युगे ।। ४१ ।।
तस्मान्नावेक्षणं कार्यं यावत्प्रतिमनिर्मितिः ।।
निर्व्यूढस्तु स्वयं दैवः कृत्यांते तु वदिष्यति ।। ४२ ।।
यत्कार्यं प्रयत्नेन सर्वलोकसुखावहम् ।।
तच्छ्रुत्वा नारदाद्यास्ते यथोक्तं विष्णुना स्वयम् ।। ४३ ।।
चिकीर्षंति तथा कर्त्तुं तत्रायातश्च वर्द्धकिः ।।
प्रोवाच नृपतिं सोऽथ स्वप्ने दृष्टास्तु यास्त्वया ।। ।। ४४ ।।
ता एवाहं घटिष्यामि दारुणा दिव्यरूपिणा ।।
इत्युक्त्वांतर्दधे वेद्यां वृद्धवर्द्धकिरूपधृक् ।। ४५ ।।
वंचनार्थं मनुष्याणां साक्षान्नारायणो विभुः ।। ४६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टादशोऽध्यायः ।। १८ ।।