स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २९

।। जैमिनिरुवाच ।। ।।
इत्युक्त्वा नृपशार्दूलं लोकसंग्रहणाय वै ।।
सिंहाकृति स हृदये उद्वास्य कमलासनः ।।१।।
पूर्वं प्रकाशरूपं यद्विष्णोस्तु प्रकटीकृतम् ।।
रथावरोहणे दृष्टाश्चतस्रो मूर्त्तयः पुरा ।। २ ।।
ता एव सिंहासनगाः सर्वे ते ददृशुः पुनः ।।
द्विषडक्षरमन्त्रेण बलभद्रमपूजयत् ।। ३ ।।
सूक्तेन पौरुषेणैनं नारायणमनामयम् ।।
देवीसूक्तेन चक्रं च द्वादशाक्षरकेण च ।।
पूजयित्वानुग्रहाय पार्थिवस्य न्यवेदयत् ।। ४ ।। ।।
।। ब्रह्मोवाच ।। ।।
भगवन्देवदेवेश भक्तानुग्रहकारक ।।
इन्द्रद्युम्नस्य जन्मानि त्वयि भक्तिं प्रकुर्वतः ।।
सहस्रं समतीतानि तदन्ते त्वामलोकयत् ।। ५ ।।
त्वद्दर्शनं हि भगवंस्त्वयि सायुज्यकारणम् ।।
यद्यप्ययं भक्तियोगेनेच्छति त्वां समर्चितुम् ।। ६ ।।
तदाज्ञापय येन त्वां भक्तियोगेन भावयेत् ।।
देशकालव्रताद्यैस्तु तथा नानोपचारकैः ।। ७ ।।
त्वन्मुखांभोजगलितमाज्ञामृतरसं नृपः ।।
पिपासुस्त्वां जगन्नाथ पश्यत्येषोऽनिमेषकम्।।८ ।।
।। जैमिनिरुवाच ।। ।।
इति विज्ञापितो देवः साक्षात्कमलयोनिना ।।
दारुदेहोऽपि विहसन्प्राह गंभीरया गिरा ।। ९ ।।
।। श्रीप्रतिमोवाच ।। ।।
इन्द्रद्युम्न प्रसन्नस्ते भक्त्या निष्कामकर्मभिः ।।
त्वदन्येनेदृशी संपन्न केनाप्यपवर्जिता ।। 2.2.29.१० ।।
वरं ददामि ते भूप मयि भक्तिः स्थिराऽस्तु ते ।।
उत्सृज्य वित्तकोटीस्तु यन्ममायतनं कृतम् ।। ११ ।।
भंगेप्येतस्य राजेंद्र स्थानं न त्यज्यते मया ।।
कालांतरेऽपि योऽप्यन्यः प्रासादं कारयिष्यति ।। १२ ।।
तवैव कीर्त्तिः सा नूनं त्वत्प्रीत्या तत्र मे स्थितिः ।।
सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते ।। १३ ।।
प्रासाद भंगे तत्स्थानं न त्यक्ष्यामि कदाचन ।।
अनेन दारुवपुषा स्थास्याम्यत्र परार्द्धकम् ।। १४ ।।
द्वितीयं पद्मयोनेस्तु यावत्परिसमाप्यते ।।
मनोः स्वायंभुवस्यास्य द्वितीये च चतुर्युगे ।। १५ ।।
कृतस्य प्रथमे ज्येष्ठे दशेति क्रतुसंस्थितिः ।।
ज्यैष्ठ्यामहं चावतीर्णस्तत्पुण्यजन्मवासरम् ।। १६ ।।
तस्यां मे स्नपनं कुर्यान्महास्नानविधानतः ।।
प्रत्यर्चायां महाराज साधिवासं समृद्धिमत् ।।१७।।
पापं विनाशयिष्यामि कोटिजन्मभिरर्जितम् ।।
सर्वतीर्थक्रतुफलं सर्वदानफलं तथा ।। १८ ।।
पश्यतां चापि राजेंद्र फलं तावत्प्रपद्यते ।।
न्यग्रोधादुत्तरे कूपः सर्वतीर्थमयोऽस्ति हि ।। १९ ।।
स्नानाय पूर्वं निर्माय किंचिदाच्छादितं भुवा ।।
अवतीर्णस्त्वहं पश्चात्तं विविच्य प्रकाशय ।। 2.2.29.२० ।।
संस्कार्यः स चतुर्दश्यां बलिं दत्त्वा विधानतः ।।
रक्षकक्षेत्रपालाय दिशांपालेभ्य एव च ।। २१ ।।
कम्बुकाहालमुरजध्वनिषु सुस्वरेषु च ।।
द्विजातयः स्वर्णकुम्भैरुद्धरेयुस्ततो जलम् ।।२२।।
ज्यैष्ठ्यां प्रातस्तने काले ब्रह्मणा सहितं च माम् ।।
रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात् ।। २३ ।।
स्नाप्यमानं तु यः पश्येन्मां तदा नृपसत्तम ।।
देहबन्धं च नाप्नोति स पुनर्न तु पूरुषः ।। २४ ।।
कारयित्वा दृढं मंचमैशान्यां दिशि मंडितम् ।।
वितानशोभारचितं चंदनांभः समुक्षितम् ।। २५ ।।
तत्र मां रामभद्राभ्यां स्नापयित्वा पुनर्नयेत् ।। २६ ।।
दक्षिणाभिमुखं यांतं यो मां पश्यति भक्तितः ।।
तत्तद्ध्रुवमवाप्नोति मनसा यद्यदिच्छति ।। २७ ।।
ततः पंचदशाहानि स्थापयित्वा तु मां नृप ।।
विरूपमभिरूपं वा न पश्येत्तु कदाचन ।। २८ ।।
ज्येष्ठस्नानमिदं कृत्वा सर्वपापैः प्रमुच्यते ।। २९ ।।
गुंडिचाख्यां महायात्रां प्रकुर्वीयाः क्षितीश्वर ।।
यस्याः संकीर्तनादेव नरः पापाद्विमुच्यते ।। 2.2.29.३० ।।
माघमासस्य पंचम्यामष्टम्यां चैत्रशुक्लके ।।
एते कालाः प्रशस्ता हि गुंडिचाख्यमहोत्सवे ।। ३१ ।।
विशेषान्मोक्षदाषाढद्वितीया पुष्यसंयुता ।।
ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम ।। ३२ ।।
आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ।।
तस्यां रथे समारोप्य रामं मां भद्रया सह ।। ३३ ।।
महोत्सवप्रवृत्त्यर्थं प्रीणयित्वा द्विजान्बहून् ।।
गुंडिचामण्डपंनाम यत्राहमजनं पुरा ।। ३४ ।।
अश्वमेधसहस्रस्य महावेदी तदाभवत् ।।
तस्याः पुण्यतमं स्थानं पृथिव्यां नेह विद्यते ।। ३५ ।।
यत्राजुहोः पंचशतवर्षाणि प्रीतये मम ।।
मम प्रीतिकरं स्थानं तस्मान्नान्यद्धरागतम् ।। ३६ ।।
यथेयं नीलशिखरा प्रासादेन तवाधुना ।।
चतुर्मुखानुरोधेन महाप्रीतिकरी मम ।। ३७ ।।
तथा नृसिंहक्षेत्रे वै महावेदी तव क्रतोः ।।
ममोत्पत्तेश्च निलयं प्रीतिकृन्मम शाश्वतम् ।। ३५ ।।
बहुकालं स्थितश्चाहं तस्यां मे प्रीतिरुत्तमा ।।
आत्मा मे पद्मभूरेष प्रासादे स्थापितोऽमुना ।। ३९ ।।
अस्यानुरोधात्त्वद्भक्त्या ह्यवतिष्ठेऽत्र नित्यदा ।।
दिनानि नव यास्यामि तथा तस्मादिहागतः ।। 2.2.29.४० ।।
तत्रास्ति ते महाराज सर्वतीर्थमयं सरः ।।
तत्तीरे सप्तदिवसान्स्थास्याम्यनुजिघृक्षया ।। ४१ ।।
तत्र स्थितं मां पश्यंतो यांति मर्त्या ममालयम् ।।
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां भुवनत्रये ।। ४२ ।।
तानि सर्वाणि सरसि मत्सान्निध्याद्व्रजंति ते ।।
तत्र स्नात्वा च विधिवद्दृष्ट्वा मां भक्तिभावतः ।। ४३ ।।
जननीजठरे क्लेशं पुनर्नानुभवंति हि ।।
नवमेऽह्नि समायातं दक्षिणाशामुखं तदा ।। ४४ ।।
ये पश्यन्ति प्रतिपदमश्वमेधक्रतोः फलम् ।।
प्राप्य भोगानिंद्रसमान्भुक्त्वान्ते मां विशंति ते ।। ४५।।
ममोत्थानं मम स्वापं मत्पार्श्वपरिवर्त्तनम् ।।
मार्गप्रावरणं चैव पुष्यस्नानमहोत्सवम् ।।४६ ।।
फाल्गुन्यां क्रीडनं कुर्याद्दोलायां मम भूमिप ।।
दोलायां येऽपि पश्यंति दक्षिणामुखपूजितम् ।। ४७ ।।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।। ४८ ।।
अनयोर्मां समभ्यर्च्य दृष्ट्वा मां प्रणिपत्य च ।।
प्रत्येकमष्टसाहस्रं वाजिमेधफलं लभेत् ।। ४९ ।।
चैत्रे सितत्रयोदश्यां कुर्यात्कर्मप्रपूरणम् ।।
चैत्रे मासि चतुर्दश्यां दमनैर्मे प्रपूजनम् ।।
शुक्लपक्षे तु ये लोकाः सर्वपापक्षयो भवेत् ।। 2.2.29.५० ।।
वैशाखस्य सिते पक्षे तृतीयाऽक्षयसंज्ञिता ।।
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ।। ५१ ।।
प्रीतये मम ये कुर्युरुत्सवान्मम शाश्वतान् ।।
चतुर्वर्गप्रदा ह्येते प्रत्येकं परिकीर्तिताः ।। ५२ ।।
।। जैमिनिरुवाच ।। ।।
इति दत्त्वा वरं तस्मा इन्द्रद्युम्नाय भो द्विजाः ।।
ब्रह्माणमाह भगवान्स्मेरांभोरुहसन्मुखः।। ५३ ।।
चतुर्मुख तव प्रीत्यै सर्वं संपादितं मया ।।
त्वदिच्छा हि ममैवेच्छा न भेदो ह्यावयोर्ध्रुवम् ।। ५४ ।।
यन्मां माधवमूर्तिं त्वं पुरा प्रार्थितवानसि ।।
तस्यैव परिपाकोऽयमवतारः कृतो मया ।। ५५ ।।
मामत्र दृष्ट्वा त्वभ्यर्च्य प्राणान्संत्यज्य मुच्यते ।।
क्रमात्सर्वे त्वया सार्द्धं भूयः सायुज्यमेव च ।। ५६ ।।
यद्वाचाभिलपन्मर्त्यो मामत्र हि निषेवते ।।
अवश्यं तदवाप्नोति संगत्या चात्र भूपतिः ।। ५७ ।।
व्रजेदानीं सत्यलोकं त्रिदिवं यांतु देवताः।।
तवायुःपूर्णिपर्यंतमहमत्र स्थितो ध्रुवम् ।। ५८ ।।
ततस्ते हर्षिताः सर्वे ब्रह्मर्षिसुरसत्तमाः ।।
प्रणम्य शिरसा देवं जग्मुस्ते निलयं स्वकम् ।। ५९ ।।
देवोऽपि च जगन्नाथः प्रतिमारूपधृक्तदा ।।
तूष्णीं तिष्ठति सर्वेषां हर्षमापादयन्नृणाम्।। 2.2.29.६० ।।
इन्द्रद्युम्नोऽपि धर्मात्मा विष्णुभक्तो दृढव्रतः ।।
अनुव्रजन्पद्मयोनिं तेनादिष्टो न्यवर्तत ।। ६१ ।।
यात्राः सर्वा भगवता आज्ञप्ताः साधु कारय ।।
अस्मिंस्तुष्टे जगन्नाथे सन्तुष्टं वै चराचरम्।।६२।।
इत्याज्ञां पद्मयोनेस्तु मूर्ध्न्याधाय क्षितीश्वरः ।।
नारदेन सह श्रीमान्निधिना च समृद्धिमत् ।।
ज्येष्ठस्नानादिकं सर्वमुत्सवं निरवर्तयत् ।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकोनत्रिंशोऽध्यायः ।। २९ ।।