स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०४
।। श्रीऋषय ऊचुः ।। ।।
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ।।
श्रीभागवतमाहात्म्यमपूर्वं त्वन्सुखाच्छ्रुतम् ।। १ ।।
तत्स्वरूपप्रमाणं च विधिं च श्रवणे वद ।।
तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना ।। २ ।।
।। श्रीसूत उवाच ।। ।।
श्रीमद्भागवतस्याथ श्रीमद्भगवतः सदा ।।
स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम् ।। ३ ।।
श्रीकृष्णासक्तभक्तानां तन्माधुर्य्यप्रकाशकम् ।।
समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत् ।। ४ ।।
ज्ञानविज्ञानभक्त्यङ्गचतुष्टयपरं वचः ।।
मायामर्दन दक्षं च विद्धि भागवतं च तत् ।। ५ ।।
प्रमाणं तस्य को वेद ह्यनंतस्याक्षरात्मनः ।।
ब्रह्मणे हरिणा तद्दिक्चतुःश्लोक्या प्रदर्शिता ।। ६ ।।
तदानंत्यावगाहेन स्वेप्सितावहनक्षमाः ।।
त एव संति भो विप्रा ब्रह्मविष्णुशिवादयः ।। ७ ।।
मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ।।
परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः ।। ८ ।।
ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ।।
कलिग्राहगृहीतानां स एव परमाश्रयः ।। ९ ।।
श्रोतारो ऽथ निरूप्यन्ते श्रीमद्विष्णुकथाश्रयाः ।।
प्रवरा अवराश्चति श्रोतारो द्विविधा मताः ।। 2.6.4.१० ।।
प्रवराश्चातको हंसः शुको मीनादयस्तथा ।।
अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः ।। ११ ।।
अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती ।।
स चातको यथाम्भोदमुक्ते पाथसि चातकः ।। १२ ।।
हंसः स्यात्सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ।।
दुग्धेनैक्यं गतात्तोयाद्यथा हंसोऽमलं पयः ।। १३ ।।
शुकः सुष्टु मितं वक्ति व्यासं श्रोतृंश्च हर्षयन् ।।
सुपाठितः शुको यद्वच्छिक्षकं पार्श्वगानपि ।। १४ ।।
शब्दं नानिमिषो जातु करोत्यास्वादयन्रसम् ।।
श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा ।। १५ ।।
यस्तुदन्रसिकाञ्च्छ्रोतॄन्विरौत्यज्ञो वृको हि सः ।।
वेणुस्वनरसासक्तान्वृकोऽरण्ये मृगान्यथा ।। १६ ।।
भूरुण्डः शिक्षयेदन्याञ्च्छ्रुत्वा न स्वयमाचरेत् ।।
यथा हिमवतः शृंगे भूरुण्डाख्यो विहंगमः ।। १७ ।। (भारुण्ड)
सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः ।।
स्वादु द्राक्षां खलिं चापि निर्विशेषं यथा वृषः ।। १८ ।।
स उष्ट्रो मधुरं मुञ्चन्विपरीते रमेत यः ।।
यथा निम्बं चरत्युष्ट्रो हित्वाऽऽम्रमपि तद्युतम् ।। १९ ।।
अन्येऽपि बहवो भेदा द्वयोर्भृंगखरादयः ।।
विज्ञेयास्तत्तदाचारैस्तत्तत्प्रकृतिसंभवैः ।। 2.6.4.२० ।।
यः स्थित्वाऽभिमुखं प्रणम्य विधिवत्त्यक्तान्यवादो हरेर्लीलाः श्रोतुमभीप्सतेऽतिनिपुणो नम्रो ऽथ क्लृप्ताञ्जलिः ।।
शिष्यो विश्वसितोऽनुचिन्तनपरः प्रश्नेऽनुरक्तः शुचिर्नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभिः ।। २१ ।।
भगवन्मतिरनपेक्षः सुहृदो दीनेषु सानुकम्पो यः ।।
बहुधाबोधनचतुरो वक्ता संमानितो मुनिभिः ।। २२ ।।
अथ भारतभूस्थाने श्रीभागवतसेवने ।।
विधिं शृणुत भो विप्रा येन स्यात्सुखसंततिः ।। २३ ।।
राजसं सात्त्विकं चापि तामसं निर्गुणं तथा ।।
चतुर्विधं तु विज्ञेयं श्रीभागवत सेवनम् ।। २४ ।।
सप्ताहं यज्ञवद्यत्तु सश्रमं सत्वरं मुदा ।।
सेवितं राजसं तत्तु बहुपूजादिशोभनम् ।।२५।।
मासेन ऋतुना वापि श्रवणं स्वादसंयुतम्।।
सात्त्विकं यदनायासं समस्तानन्दवर्द्धनम् ।। २६ ।।
तामसं यत्तु वर्षेण सालसं श्रद्धयाऽयुतम् ।।
विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम् ।। २७ ।।
वर्षमासदिनानां तु विमुच्य नियमाग्रहम् ।।
सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम् ।। २८ ।।
पारीक्षितेऽपि संवादे निर्गुणं तत्प्रकीर्तितम्।।
तत्र सप्तदिनाख्यानं तदायुर्दिनसंख्यया ।। २९ ।।
अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया ।।
यथा कथंचित्कर्तव्यं सेवनं भगवच्छ्रुतेः ।। 2.6.4.३० ।।
ये श्रीकृष्णविहारैकभजनास्वादलोलुपाः ।।
मुक्तावपि निराकांक्षास्तेषां भागवतं धनम् ।। ३१ ।।
येऽपि संसारसंतापनिर्विण्णा मोक्षकांक्षिणः ।।
तेषां भवौषधं चैतत्कलौ सेव्यं प्रयत्नतः ।। ३२ ।।
ये चापि विषयारामाः सांसारिकसुखस्पृहाः ।।
तेषां तु कर्ममार्गेण या सिद्धिः साऽधुना कलौ ।। ।। ३३ ।।
सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्ल्लभा ।।
तस्मात्तैरपि संसेव्या श्रीमद्भागवती कथा ।। ३४ ।।
धनं पुत्रांस्तथा दारान्वाहनादि यशो गृहान् ।।
असापत्न्यं च राज्यं च दद्याद्भागवती कथा ।। ३५ ।।
इह लोके वरान्भुक्त्वा भोगान्वै मनसेप्सितान् ।।
श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम् ।। ३६ ।।
यत्र भागवती वार्ता ये च तच्छ्रवणे रताः ।।
तेषां संसेवनं कुर्याद्देहेन च धनेन च ।। ३७ ।।
तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् ।।
श्रीकृष्णव्यतिरिक्तं यत्तत्सर्वं धनसंज्ञितम् ।। ३८ ।।
कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः ।।
यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्द्धते ।। ३९ ।।
उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः।।
किन्तु कृष्णार्थिनां सिद्धिर्विलम्बेनापि जायते ।। 2.6.4.४० ।।
धनार्थिनस्तु संसिद्धिर्विधिसंपूर्णतावशात् ।।
कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः ।। ४१ ।।
आसमाप्ति सकामेन कर्तव्यो हि विधिः स्वयम् ।।
स्नातो नित्य क्रियां कृत्वा प्राश्य पादोदकं हरेः ।। ४२ ।।
पुस्तकं च गुरुं चैव पूजयित्वोपचारतः ।।
ब्रूयाद्वा शृणुयाद्वापि श्रीमद्भागवतं मुदा ।। ४३ ।।
पयसा वा हविष्येण मौनं भोजनमाचरेत् ।।
ब्रह्मचर्य्यमधःसुप्तिं क्रोधलोभादिवर्ज्जनम् ।। ४४ ।।
कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् ।।
ब्राह्मणान्भोजयित्वा तु दक्षिणाभिः प्रतोषयेत् ।। ४५ ।।
गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् ।।
एवं कृते विधाने तु लभते वाञ्छितं फलम् ।। ४६ ।।
दारागारसुतान्राज्यं धनादि च यदीप्सितम् ।।
परन्तु शोभते नात्र सकामत्वं विडम्बनम् ।। ४७ ।।
कृष्णप्राप्तिकरं शश्वत्प्रेमानन्दफलप्रदम् ।।
श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये चतुर्थोऽध्यायः ।। ४ ।।
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे श्रीभागवतमहापुराणमाहात्म्यं समाप्तम् ।। २-६।।