स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १७

← अध्यायः १६ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्
अध्यायः १७
[[लेखकः :|]]

।। ब्रह्मोवाच ।। ।।
कस्मिन्क्षेत्रे हि देवेश मार्गशीर्षोऽधिकः स्मृतः ।।
किं फलं च भवेत्तस्मिन्नेतत्सर्वं वद प्रभो ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
मधुरेति सुविख्यातमस्ति क्षेत्रं परं मम ।।
सुरम्या च प्रशस्ता च जन्मभूमिः प्रिया मम ।। २ ।।
पदेपदे तीर्थफलं मधुरायां चतुर्मुख ।।
यत्रयत्र नरः स्नातो मुच्यते घोरकिल्बिषात् ।। ३ ।।
सर्वधर्मविहीनानां पुरुषाणां दुरात्मनाम् ।।
नरकार्तिहरा पुत्र मधुरा पापनाशिनी ।। ४ ।।
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ।।
मधुरां प्राप्य मनुजो मुच्यते घोरपातकात् ।। ५ ।।
सूर्यौदये तमो नश्येद्यथा वज्रभयान्नगाः ।।
तार्क्ष्यं दृष्ट्वा यथा सर्पा मेघा वातहता यथा ।। ६ ।।
तत्त्वज्ञानाद्यथा दुःखं हरिं दृष्ट्वा यथा गजाः ।।
तथा पापानि नश्यंति मथुरादर्शनात्सुत ।। ७ ।।
श्रद्धया भक्तियुक्तस्तु दृष्ट्वा मधुपुरीं नरः ।।
ब्रह्महाऽपि विशुध्येत किं पुनस्त्वन्यपातकी ।। ८ ।।
मथुरां स्नातुकामस्य गच्छतस्तु पदेपदे ।।
निराशानि व्रजंत्येव पापानि च शरीरतः ।। ९ ।।
अनुषंगेण गच्छंति वाणिज्येनाऽपि सेवया ।।
मधुरास्नानमात्रेण दिवं यांति गतांहसः ।। 2.5.17.१० ।।
नामाऽपि गृह्णतामस्याः सदा मुक्तिर्न संशयः ।।
सदा कृतयुगं तत्र सदा चैवोत्तरायणम् ।। ११ ।।
यः शृणोति चतुर्वक्त्र माधुरं मम मंदिरम् ।।
अन्येनोच्चारिते सद्यः सोऽपि पापात्प्रमुच्यते ।। १२ ।।
त्रिरात्रमपि ये तत्र वसंति मनुजाः सुत ।।
तेषां पुनंति सहृष्टाः स्पृष्टाश्चरणरेणवः ।। १३ ।।
यथा तृणसमूहं तु ज्वलयंति स्फुलिंगकाः ।।
तथा महांति पापानि दहते मथुरा पुरी ।। १४ ।।
स्नानेन सर्वतीर्थानां यः स्यात्सुकृतसंचयः ।।
ततोऽधिकतरं प्रोक्ता मथुरा सर्वमंडले ।। १५ ।।
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ।।
तत्पुण्यं जायते तत्र मथुरां स्मरतां नृणाम् ।। १६ ।।
अन्यत्र हि कृतं पापं तीर्थमासाद्य नश्यति ।।
तीर्थेषु यत्कृतं पापं वज्रलेपो भविष्यति ।। १७ ।।
मथुरायां कृतं पापं मथुरायां प्रणश्यति ।।
धर्मार्थकाममोक्षाख्यं स्थित्वा तत्र लभेन्नरः ।। १८ ।।
अन्यत्र दशभिर्वर्षैः प्रारब्धं भुज्यते हि यत् ।।
किल्विषं च चतुर्वक्त्र माथुरे दशभिर्दिनैः ।।१९।।
दिवि नैव न पाताले नांतरिक्षे न मानुषे ।।
समं तु मथुरायां हि प्रियं मम सदैव हि ।। 2.5.17.२० ।।
सर्वेषामेव तीर्थानां माथुरं परमं महत् ।।
बालक्रीडनरूपाणि कृतानि सह गोपकैः ।। २१ ।।
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ।।
यत्फलं भारते वर्षे तत्फलं मथुरां स्मरन् ।। २२ ।।
सन्निहत्यां तु यत्पुण्यं राहुग्रस्ते दिवाकरे ।।
ततोधिकं लभेत्पुत्र मथुरायां दिनेदिने ।। २३ ।।
पूर्णे वर्षसहस्रे तु तीर्थराजे तु यत्फलम् ।।
तत्फलं लभते पुत्र सहोमासे मधोः पुरे ।। २४ ।।
पूर्णे वर्षसहस्रे तु वाराणस्यां च यत्फलम् ।।
तत्फलं लभते पुत्र मथुरायां सहो दिने ।। २५ ।।
गोदावरीद्वारकयोर्नरो यः क्षेत्रे कुरूणां क्षितिदायको यः ।।
षण्मासकात्साधयते गयायां समं भवेन्नो दिनमेकमाथुरम् ।। २६ ।।
न द्वारका काशिकांची न माया गदाधरो यस्य समं न तीर्थम् ।।
संतर्पिता यद्यमुनाजलेन वांछंति नो वै पितरः पिंडदानम् ।। २७ ।।
मथुरायां प्रकुर्वंति पुरीसाधारणीदृशम् ।।
ये नरास्तेऽपि विज्ञेयाः पापराशिभिरन्विताः ।। २८ ।।
न दृष्टा मथुरा येन दिदृक्षा यस्य जायते ।।
यत्र तत्र मृतस्याऽपि माथुरे जन्म जायते ।। २९ ।।
भूमे रजांसि गणयेत्कालेनाऽपि चतुर्मुख ।।
माथुरे यानि तीर्थानि तेषां संख्या न विद्यते ।। 2.5.17.३० ।।
कुरु भोः कुरु भो वासं मथुराख्यां पुरीं प्रति ।।
वसामि सततं तस्यां गोपकन्याभिरावृतः ।। ३१ ।।
रेरे संसारमग्नाश्च शिष्या मे शृणुताऽपरे ।।
यदीच्छथ सुखं सांद्रं वासं कुरुत मत्पुरीम् ।। ३२ ।।
अहो लोको महानंदो नेत्रयुक्तो न पश्यति ।।
माथुरे विद्यमानेऽपि संसृतिं भजते सदा ।। ३३ ।।
मानुषीं योनिमतुलां लब्ध्वा भाग्यस्य योगतः ।।
वृथैवायुर्गतं तेषां न दृष्टा मथुरापुरी ।। ३४ ।।
अहो मतेः सुदौर्बल्यमहो भाग्यस्य दुर्विधिः ।।
अहो मोहस्य महिमा मथुरा नैव सेव्यते ।। ३५ ।।
मथुरां तु परित्यज्य योऽन्यत्र कुरुते मतिम् ।।
मूढो भ्रमति संसारे मोहितो मम मायया ।। ३६ ।।
मथुरामपि संप्राप्य योऽन्यत्र कुरुते स्पृहाम् ।।
दुर्बुद्धेस्तस्य किं ज्ञानं सोऽज्ञानेन विजृंभितः ।। ।। ३७ ।।
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ।।
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ।। ३८ ।।
पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ।।
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ।। ३९ ।।
सारात्सारतरं स्थानं गुह्याद्गुह्यतरं परम् ।।
गतिमन्वेषमाणानां मथुरा परमा गतिः ।। 2.5.17.४० ।।
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तु स्तवैः ।।
न लभ्यं विविधैर्योगैर्लभ्यं मदनुभावतः ।। ४१ ।।
मयि येषां स्थिरा भक्तिर्भूयसी येषु मत्कृपा ।।
तेषामेव हि धन्यानां मथुरायां भवेद्गतिः ।। ४२ ।।
या गतिर्योगयुक्तस्य ब्रह्मज्ञस्य मनीषिणः ।।
सा गतिस्त्यजतः प्राणान्मथुरायां नरस्य च ।। ४३ ।।
काश्यादिपुर्यो यदि संति लोके तासां तु मध्ये मथुरैव धन्या ।।
या जन्ममौंजीव्रतमुक्तिदानैर्नृणां चतुर्धा विदधाति मुक्तिम् ।। ।। ४४ ।।
न योगैर्या गतिर्लभ्या मन्वंतरशतैरपि ।।
अन्यत्र हेलया साऽत्र लभ्यते मत्प्रसादतः ।।४५।।
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ।।
न गर्भवासभीर्यत्र तत्क्षेत्रं को न संश्रयेत्।। ४६।।
मथुरायां च यत्पुण्यं तत्पुण्यस्य फलं शृणु ।।
मथुरायां समासाद्य मथुरायां मृता हि ये ।। ४७ ।।
अपि कीटपतंगाद्या जायंते ते चतुर्भुजाः ।।
कूलात्पतंति ये वृक्षास्तेऽपि यांति परां गतिम् ।। ४८ ।।
मूका जडांधबधिरास्तपोनियमवर्जिताः ।।
कालेनैव मृता ये च मम लोकं व्रजंति ते ।। ४९ ।।
सर्पदष्टाः पशुहताः पावकांबुविनाशिताः।।
लब्धाऽपमृत्यवो ये च माथुरे मम लोकगाः ।। 2.5.17.५० ।।
सत्यं सत्यं मुनिश्रेष्ठ ब्रुवे शपथपूर्वकम् ।।
सर्वाऽभीष्टप्रदं नान्यन्मथुरायाः समं क्वचित् ।। ६१ ।।
त्रिवर्गदा कामिनां या मुमुक्षूणां च मुक्तिदा ।।
भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाऽऽश्रयेद्बुधः ।। ५२ ।।
एतादृशी मधुपुरी कर्त्तव्या मार्गशीर्षके ।।
तदभावे पुष्करं हि कर्तव्यं विधिपूर्वकम् ।। ५३ ।।
ज्येष्ठं हि ब्रह्मणः कुण्डं मध्यं कुण्डं च वैष्णवम् ।।
कनिष्ठं रुद्रदैवत्यमिति जानीहि बुद्धिमन् ।।५४।।
एषु स्नानं च दानं च श्राद्धं च विधिपूर्वकम् ।।
पूजा च महती कार्या मम प्रीतिकरा सुत ।। ५५ ।।
पूर्णा या तु भवेत्पुत्र सहोमासे मम प्रिया ।।
तस्यां यत्क्रियते पुण्यं मम प्रीतिकरं भवेत् ।। ५६ ।।
गोदानमन्नदानं च हेमदानं च पुत्रक ।।
धरादानं च कर्तव्यं पूर्णायां विधिपूर्वकम् ।। ५७ ।।
सहोमासे हि पूर्णायां सद्मदानं च कारयेत् ।।
यत्किंचित्क्रियते पूर्णं तदक्षय्यफलं भवेत् ।। ५८ ।।
ब्रह्मभोज्यं हि कर्तव्यं यथाविभवसारतः ।।
पूर्णायामेव कर्तव्य उत्सवो व्रतपूर्त्तये ।। ५९ ।।
यादृशी मथुरा पुत्र सहोमासे मम प्रिया ।।
न तथा तीर्थराजाद्यास्तदभावे च पुष्करम् ।। 2.5.17.६० ।।
पुष्करे मथुरायां वै पूर्णा कार्या विचक्षणैः ।।
यत्र कुत्रापि वा कार्या विधियुक्ता च पूर्णिमा ।। ६१ ।।
स्नानं दानं तथा पूजां पूर्णायां न करोति यः ।।
षष्टिवर्षसहस्राणि पच्यते रौरवादिषु ।। ६२ ।।
तस्मात्सर्वप्रयत्नेन मान्या पूर्णा विचक्षणैः ।।
मार्गशीर्षेण संयुक्ता अनंतफलदायिनी ।। ६३ ।।
यथा ते कथितं वत्स मार्गशीर्षं मम प्रियम् ।।
करोति यो नरो भक्त्या तस्य पुण्यफलं शृणु ।। ६४ ।।
तीर्थायुतेषु यत्पुण्यं यत्पुण्यं व्रतकोटिभिः ।।
सर्वयज्ञेषु यत्पुण्यं तत्पुण्यं समवाप्नुयात् ।। ६५ ।।
अपुत्रो लभते पुत्रं निर्धनो धनमेव च ।।
विद्यार्थी च तथा विद्यां रूपार्थी रूपमाप्नुयात् ।। ६६ ।।
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।।
वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात् ।। ६७ ।।
यद्दुर्लभं च दुष्प्राप्यं त्रिषु लोकेषु मानद ।।
तत्सर्वं प्राप्नुयान्मर्त्यः सहोमासे न संशयः ।। ६८ ।।
यद्यप्येतेषु कामेषु सक्ता ये मानवाः सुत ।।
तुष्टा ह्यंते चतुर्वक्त्र न कामार्हा महाभुज ।। ६९ ।।
सुदुर्लभा हि सद्भक्तिर्मम वश्यकरी शुभा ।।
सा वै संप्राप्यते पुत्र सहोमासे श्रुते तथा ।। 2.5.17.७० ।।
मम प्रीतिकरं मासं सर्वदा मम वल्लभम् ।।
सर्वं संप्राप्यतेऽमुष्मान्मत्प्रसादाच्चतुर्मुख ।। ७१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मथुरामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।

इति श्रीस्कांदे महापुराणे द्वितीये वैष्णवखण्डे पंचमं श्रीमार्गशीर्षमासमाहात्म्यं संपूर्णम् ।। ( २-५) ।।

।। श्रीकृष्णार्पणमस्तु ।। ।।