स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०१

श्रीकृष्णाय नमोनमः ।।

।। अथ श्रीवासुदेवमाहात्म्यं प्रारभ्यते ।।

।। शौनक उवाच ।। ।।
जीवानां श्रेयसे सौते बहुधा साधनानि ते ।।
धर्मो ज्ञानं च वैराग्यं योगादीन्युदितानि नः ।। १ ।।
इतिहासैर्बहुविधैर्विस्पष्टार्थानि तानि च ।।
सर्वाण्यपि महाबुद्धे श्रुतान्यस्माभिरादरात् ।। २ ।।
सर्वेषां मनुजानां तु दुष्कराण्येव तानि तु ।।
बाहुल्याच्चान्तरायाणां तत्सिद्धिरपि दुर्ल्लभा ।। ३ ।।
प्रयत्नेनाति महता पुरुषैद्धेंर्य्यशालिभिः ।।
साधितान्यपि सिध्यन्ति तानि कालेन भूयसा ।। ४ ।।
अतो भवान्द्विजातीनामाश्रमाणां च सर्वशः ।।
ब्रवीतु सुकरोपायं स्त्रीशूद्रादेरपीह नः ।। ५ ।।
कृतेन येनाप्यल्पेन येन केनापि देहिना ।।
अन्तरायैरविहतं महदेव फलं भवेत् ।। ६ ।।
मोक्षस्य साधनं तादृक्सुविचार्य्य महामते ।।
हिताय सर्वजीवानां कृपया वक्तुमर्हसि ।। ७ ।।
प्रसादाद्बलदेवस्य व्यासस्य जनकस्य च ।।
जानासि सर्वमेव त्वं तन्नो ब्रूहि बुभुत्सतः ।। ८ ।।
सौतिरुवाच ।।
महर्षिरपि सावर्णिरेवमेव हि शौनक ।।
विनीतः स्कन्दमप्राक्षीत्पुनः शङ्करनन्दनम् ।। ९ ।।
सावर्णिरुवाच ।।
श्रुता नानाविधा धर्म्माः साङ्ख्यज्ञानं च नैकधा ।।
योगादीनि त्वदुक्तानि साधनानि मया गुह ।। 2.9.1.१० ।।
सुदुष्कराणि मन्येऽहं तानि त्वस्मादृशां किल ।।
महतामपि चान्येषां कृच्छ्रसाध्यानि वै चिरात् ।। ११ ।।
अतो वर्णाश्रमवतां श्रेयस्कृत्सुकरं च यत् ।।
साधनं तच्छ्रेष्ठतमं वक्तुमर्हसि मेऽधुना ।। १२ ।।
सौतिरुवाच ।।
इति पृष्टो मुनीन्द्रेण तेन जिज्ञासुना गुहः ।।
वासुदेवं हृदि ध्यायन्कार्त्तिकेयः स ऊचिवान् ।। १३ ।।
स्कन्द उवाच ।। शृणु ब्रह्मन्प्रवक्ष्येऽहं श्रुतं पितृमुखान्मया ।।
सर्वेषामपि जीवानां सुकरं मोक्षसाधनम् ।। १४ ।।
देवताप्रीणनसमं स्वेष्टसिद्धिमभीप्सताम् ।।
नास्त्यन्यसाधनं किञ्चिद्वर्णाश्रमवतामिह ।। १५ ।।
अप्यल्पं सुकृतं कर्म्म देवसंबन्धतः कृतम् ।।
फलं ददाति निर्विघ्नं महदेव हि तन्नृणाम् ।। १६ ।।
दैवं पित्र्यं स्वधर्म्मश्च काम्यं कर्म्मापि यच्च तत् ।।
देवतायास्तु संबन्धात्सद्यः स्यादिष्टसिद्धिदम् ।। १७ ।।
साङ्ख्ययोग विरागादि प्रागुक्तं यच्च दुष्करम् ।।
तदपि स्याद्धि सुकरमनेनैवाशु सिद्धिदम् ।। १८ ।।
देवस्याराधनेनैव यतः सिद्ध्यति वाञ्छितम् ।।
अतः सर्वैर्य्यथाशक्ति प्रीत्याराध्यः स मानवैः ।। १९ ।।
सावर्णिरुवाच।।
देवा वहुविधा प्रोक्तास्त्वया षण्मुख मे पुरा ।।
नानाविधा वर्णिताश्च तदाराधनरीतयः।।2.9.1.२०।।
तत्फलानि च सर्वाणि त्वयोक्तानि पृथक्पृथक् ।।
स्वर्गादिप्राप्तिमुख्यानि कालग्रस्तानि तानि तु ।।२१।।
निवृत्तिधर्म्मिणां ब्रह्मा ह्युपास्तेर्य्योगिनां गुह ।।
जनादिलोकाप्तिफलं द्विपरार्द्धान्तनश्वरम्।।२२।।
दुष्कराणीह संसाध्य कर्म्माणि पुरुकृच्छ्रतः।।
क्षयिष्णुफललाभश्चेत्तर्हि किं तदुपार्जनैः।।२३।।
कालेन नाश्यते येषां वपुः स्थानबलादिकम्।।
तेषां न रोचते मह्यमुपासाऽत्र दिवौकसाम्।।२४।।
यः स्वयं निर्भयोऽन्येषां भयहर्त्ता सनातनः ।।
नित्यधामाऽक्षयफलप्रदाता भक्तवत्सलः ।। २५ ।।
यस्य प्रसादात्सर्वेषां सर्व एव मनोरथाः ।।
 सिद्ध्येयुश्चाञ्जसैवाऽत्र तं देवं वद मे गुह ।। २६ ।।
तदाराधनरीतिं च सुकरां शिष्टसंमताम् ।।
ब्रूहि सर्वां विशेषेण जिज्ञासामीदमञ्जसा ।। २७ ।।
सौतिरुवाच ।।
इत्थं महर्षिणा तेन संपृष्टो भगवान्गुहः ।।
सुप्रसन्न उवाचेदं मानयंस्तमुदारधीः ।। २८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये सावर्णिप्रश्नो नाम प्रथमोऽध्यायः ।। १ ।।