स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०८

सावर्णिरुवाच ।।
महर्षिवारितैर्द्देवैस्त्यक्ते हिंसामये मखे ।।
पुनः कथं संप्रवृत्ता मखाः सर्वत्र तादृशाः ।। १ ।।
देवेष्वृषिषु भूपेषु प्राचीनाधुनिकेषु च ।।
सनातनः शुद्धधर्मो विपर्यासं कथं गतः ।। २ ।।
अत्र मे संशयो भूयान्संजातोऽद्य षडानन ।।
त्वं सर्वशास्त्रतत्त्वज्ञस्तमपाकर्त्तुमर्हसि ।। ३ ।।
स्कन्द उवाच ।।
कालो बलीयान्बलिनां भिद्यन्ते तेन बुद्धयः ।।
कामक्रोधरसास्वादलोभमानवतां मुने ।। ४ ।।
अतिक्रमेण महतां यथार्थहितभाषिणाम् ।।
क्रोधमानवशात्पुंसां नश्यन्त्येव च सद्धियः ।। ५ ।।
अकार्यमपि ते कर्तुं तदानीं तु बुधा अपि ।।
प्रवर्त्तन्तेऽनुतप्यन्ते बम्भ्रम्यन्तेऽथ संसृतौ ।। ६ ।।
कामादिभिर्विहीना ये सात्वताः क्षीणवासनाः ।।
तेषां तु बुद्धिभेदाय क्वापि कालो न शक्नुते ।।७।।
अनाश्रितस्तु सद्धर्मं पुमान्कश्चन कर्हिचित् ।।
संसृतेर्म्मुच्यते नैव सत्यमेतद्वचो मम ।। ८ ।।
प्रवृत्तिं हिंस्रयज्ञादेरथ ते द्विजसत्तम ।।
कथयामि यथा पूर्वं मयाऽश्रावि पितुर्मुखात् ।।९।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
नारायणस्य माहात्म्यं यत्र लक्ष्म्याश्च कीर्तितम् ।। 2.9.8.१० ।।
मुनीनां बृहतां तेषामतिक्रमणदोषतः ।।
इन्द्रस्यासीद्विश्वजितः सद्बुद्धिविलयो मुने ।। ११ ।।
दुर्वासाः शंकरस्यांशस्तपस्वी मुनिरेकदा ।।
चरन्यदृच्छया लोकान्पुष्पभद्रां नदीं ययौ ।। १२ ।।
जलक्रीडार्थमायांतीं स्वर्गात्तत्र सखीवृताम् ।।
विद्याधरस्य सुमतेरङ्गनां स समैक्षत ।। १३ ।।
स्वर्गङ्गाहेमकमलैर्ग्रथितामतिसौरभाम् ।।
दधतीं दक्षिणे पाणौ स्रजं मदकलाभिधाम् ।। १४ ।।
तामवेक्ष्य मुनिस्तस्याः समीपमुपगम्य सः ।।
उन्मत्तवद्ययाचे तां स्रजं विद्याधरीधृताम्।। ।। १५ ।।
सापि प्रणम्य तं सद्यो माहात्म्यं तस्य जानती ।।
तत्कंठे धारयामास मालां तां परमादरात् ।। १६ ।।
ततः प्रीतमना गच्छन्गायन्नुन्मत्तवन्मुनिः ।।
ददर्श पथि देवेन्द्रमायान्तं तां महानदीम् ।। १७ ।।
अप्सरोभिश्च गन्धर्वैः सतालं मधुरस्वरम् ।।
उपगीयमानविजयमधिरूढं गजाधिपम् ।। १८ ।।
रम्भामधुरसंगीतश्रवणानन्दनिर्वृतम् ।।
तन्मुखाब्जस्थिरदृशं छत्रचामरशोभितम् ।। १९ ।।
अनवेक्षमाणमात्मानं तं दृष्ट्वा सोऽत्रिनन्दनः ।।
स्वकण्ठस्थां स्रजं तस्मिंश्चिक्षेपोन्मत्तवद्धसन् ।। 2.9.8.२० ।।
इन्द्रोप्यधर्मसर्गेण समाविष्टः पुरैव यत् ।।
ततस्तदा कामवशस्तां न्यधाद्गजकुम्भयोः ।।
तत्सौरभाकृष्टचेताः करीन्द्रः शुण्डयाऽकृषत् ।। २१ ।।
करात्सा पतिता भूमौ तां च गच्छन्करी पदा ।।
ममर्द्द पश्यतस्तस्य महर्षेस्तपसां निधेः ।। २२ ।।
ततः क्रुद्धः स दुर्वासाः प्रलयाग्न्यरुणेक्षणः ।।
प्राहेन्द्रं मत्त दुष्टात्मन्स्तब्धोसि कामलम्पट ।। २३ ।।
श्रियो धाम स्रजं प्रीत्या मद्दत्तां नाभिनन्दसि ।।
प्रणाममपि रे मूढ न करोषि त्वमुन्मदः ।। २४ ।।
न वीक्षसे मामपि त्वं त्वादृङ्मत्तैकशिक्षकम् ।।
त्रैलोक्यराज्यप्राप्तान्ध्यः सम्यक्त्वां शिक्षयेऽधुना ।।२५।।
यस्याः प्रसादात्त्रैलोक्यराज्यसौख्यं त्वमाप्तवान् ।।
सैव श्रीः सत्रिलोकं त्वां हित्वा लीनाऽस्तु सागरे ।। २६ ।।
वज्रपातोपमं वाक्यं तन्निशम्यैव तत्क्षणम् ।।
गजादुत्प्लुत्य विमदस्तदंघ्र्योर्न्यपतद्धरि ।। २७ ।।
प्रार्थयामास च मुहुः प्रणमंस्तं सवेपथुः ।।
प्रसादं मयि दासे त्वं कृपालो कर्तुमर्हसि ।। २८ ।।
तं प्राहाऽथ स रे शक्र नाहं वै गौतमो मुनिः ।।
अक्षमासारसर्वस्वं दुर्वाससमवेहि माम् ।। २९ ।।
अन्ये ते मुनयो दुष्टास्तावकास्तेऽनुवर्त्तिनः ।।
अहं तु त्वादृशान्कीटान्गणये नैव निःस्पृहः ।। 2.9.8.३० ।।
ज्वलज्जटाकलापाच्च भ्रुकुटीकुटिलेक्षणात् ।।
को वा न बिभियान्मत्तो ब्रह्माण्डे पापकर्मकृत् ।। ३१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवेन्द्रशापो नामाऽष्टमोऽध्यायः ।। ८ ।।