स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०९

स्कन्द उवाच ।।
भाविधर्मविपर्यासकालवेगवशोऽथ सः ।।
नाहं क्षमिष्य इत्युक्त्वा कैलासं प्रययौ मुने ।। १ ।।
त्रैलोक्याच्छ्रीरपि तदा समुद्रेन्तर्द्धिमाययौ ।।
इन्द्रं विहायाप्सरसः सर्वशः श्रियमन्वयुः ।। २ ।।
तपः शौचं दया सत्यं पादः सद्धर्मऋद्धयः ।।
सिद्धयश्च बलं सत्त्वं सर्वतः श्रियमन्वयुः ।। ३ ।।
गजादीनि च यानानि स्वर्णाद्याभूषणानि च ।।
चिक्षिपुर्मणिरत्नानि धातूपकरणानि च ।। ४ ।।
अन्नान्यौषधयः स्नेहाः कालेनाल्पेन चिक्षियुः ।।
न क्षीरं धेनुमहिषीप्रमुखानां स्तनेष्वऽभूत् ।। ५ ।।
नवापि निधयो नष्टाः कुबेरस्यापि मन्दिरात ।।
इन्द्रः सहामरगणैरासीत्तापससन्निभः ।। ६ ।।
सर्वाणि भोगद्रव्याणि नाशमीयुस्त्रिलोकतः ।।
देवा दैत्या मनुष्याश्च सर्वे दारिद्यपीडिताः ।। ७ ।।
कान्त्या हीनस्ततश्चन्द्रः प्रापाम्बुत्वं महोदधौ।।
अनावृष्टिर्महत्यासीद्धान्यबीजक्षयंकरी ।। ८ ।।
क्वान्नं क्वान्नेति जल्पन्तः क्षुत्क्षामाश्च निरोजसः ।।
त्यक्त्वा ग्रामान्पुरश्चोषुर्वनेषु च नगेषु च ।।९।।
क्षुधार्त्तास्ते पशून्हत्वा ग्राम्यानारण्यकांस्तथा ।।
पक्त्वाऽपक्त्वापि वा केचित्तेषां मांसान्यभुञ्जत ।। 2.9.9.१० ।।
विद्वांसो मुनयश्चाऽथ ये वै सद्धर्मचारिणः ।।
म्रियमाणाः क्षुधाऽथापि नाश्नन्त पललानि तु ।। ११ ।।
तदा तु वृद्धा ऋषयस्तान्दृष्ट्वाऽनशनादृतान् ।।
मनुभिः सह वेदोक्तमापद्धर्ममबोधयन् ।। १२ ।।
मुनयः प्रायशस्तत्र क्षुधा व्याकुलितेन्द्रियाः ।।
परोक्षवादवेदार्थान्विपरीतान्प्रपेदिरे ।। १३ ।।
अर्थं चाजादिशब्दानां मुख्यं छागादिमेव ते ।।
बुबुधुश्चाऽथ ते प्राहुर्यज्ञान् कुरुत भो द्विजाः ।। १४ ।।
या वेदविहिता हिंसा न सा हिंसास्ति दोषदा ।।
उद्दिश्य देवान्पितॄंश्च ततो घ्नत पशूञ्छुभान्।। १५ ।।
प्रोक्षितं देवताभ्यश्च पितृभ्यश्च निवेदितम् ।।
भुञ्जत स्वेप्सितं मांसं स्वार्थं तु घ्नत मा पशून् ।।१६।।
ततो देवर्षिभूपाला नराश्च स्वस्वशक्तितः ।।
चक्रुस्तैर्बोधिता यज्ञानृते ह्येकान्तिकान्हरेः।।१७।।
गोमेधमश्वमेधं च नरमेधमुखान्मखान् ।।
चक्रुर्यज्ञावशिष्टानि मांसानि बुभुजुश्च ते।।१८।।
विनष्टायाः श्रियः प्राप्त्यै केचिद्यज्ञांश्च चक्रिरे ।।
स्त्रीपुत्रमंदिराद्यर्थं केचिच्च स्वीयवृत्तये ।। १९।।
महायज्ञेष्वशक्तास्तु पितॄनुदिश्य भूरिशः ।।
निहत्य श्राद्धेषु पशून्मांसान्यादंस्तथाऽऽदयन् ।। 2.9.9.२० ।।
केचित्सरित्समुद्राणां तीरेष्वेवावसञ्जनाः ।।
मत्स्याञ्जालैरुपादाय तदाहारा बभूविरे ।।२१।।
स्वगृहागतशिष्टेभ्यः पशूनेव निहत्य च ।।
निवेदयामासुरेते गोछागप्रमुखान्मुने ।। २२ ।।
सजातीयविवाहानां नियमश्च तदा क्वचित् ।।
नाभवद्धर्मसांकर्याद्वित्तवेश्माद्यभावतः ।।२३।।।।
ब्राह्मणाः क्षत्रियादीनां क्षत्राद्या ब्रह्मणां सुताः ।।
उपयेमिरे कालगत्या स्वस्ववंशविवृद्धये ।। २४ ।।
इत्थं हिंसामया यज्ञाः संप्रवृत्ता महापदि ।।
धर्मस्त्वाभासमात्रोऽस्थात्स्वयं तु श्रियमन्वगात् ।। २५ ।।
अधर्मः सान्वयो लोकांस्त्रीनपि व्याप्य सर्वतः ।।
अवर्द्धताऽल्पकालेन दुर्निवार्यो बुधैरपि ।। २६ ।।
दरिद्राणामथैतेषामपत्यानि तु भूरिशः ।।
तेषां च वंशविस्तारो महाँल्लोकेष्ववर्द्धत ।। २७ ।।
विद्वांसस्तत्र ये जातास्ते तु धर्मं तमेव हि ।।
मेनिरे मुख्यमेवाऽथ ग्रन्थांश्चक्रुश्च तादृशान् ।। २८ ।।
ते परम्परया ग्रन्थाः प्रामाण्यं प्रतिपेदिरे ।।
आद्ये त्रेतायुगे हीत्थमासीद्धर्मस्य विप्लवः ।। २९ ।।
ततःप्रभृति लोकेषु यज्ञादौ पशुहिंसनम् ।।
बभूव सत्ये तु युगे धर्म आसीत्सनातनः ।। 2.9.9.३० ।।
कालेन महता सोपि सह देवैः सुराधिपः ।।
आराध्य संपदं प्राप वासुदेवं प्रभुं मुने ।। ३१ ।।
ततो धर्मनिकेतस्य श्रीपतेः कृपया हरेः ।।
यथापूर्वं च सद्धर्मस्त्रिलोक्यां संप्रवर्त्तत ।। ३२ ।।
तत्रापि केचिन्मुनयो नृपा देवाश्च मानुषाः ।।
कामक्रोधरसास्वादलोभोपहतसद्धियः ।।
तमापद्धर्ममद्यापि प्राधान्येनैव मन्वते ।। ३३ ।।
एकान्तिनो भागवता जितकामादयस्तु ये ।।
आपद्यपि न तेऽगृह्णंस्तं तदा किमुताऽन्यदा ।। ३४ ।।
इत्थं ब्रह्मन्नादिकल्पे हिंस्रयज्ञप्रवर्त्तनम् ।।
यथासीत्तन्मयाख्यातमापत्कालवशाद्भुवि ।। ३५ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणं नाम नवमोऽध्यायः ।। ९ ।।