स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १२

।। स्कन्द उवाच ।।
ततो हृष्टाः काश्यपेया मन्थस्थानमुपेत्य ते ।।
पुनर्वर्षसहस्रं च मन्थन्ति स्म पयोनिधिम् ।। १ ।।
मथ्यमानात्तथा सिन्धोः सर्वेस्तैरपि किञ्चन ।।
नासीच्च शिथिला आसन्मंथितारः श्वसन्मुखाः ।। २ ।।
वासुकिश्च महासर्पः प्राणवैक्लव्यमाप्तवान् ।।
मन्थकाले मन्दरोपि नैकत्रासीत्स्थिरस्थितिः ।। ३।।
सर्वान्दृष्ट्वा निरुत्साहान्प्रद्युम्नो विण्वनुज्ञया ।।
देवासुराहिराजेषु प्रविश्य बलमादधौ ।। ४ ।।
अनिरुद्धोपि तर्ह्येव तमाक्रम्य नगाधिपम्।।
सहस्रबाहुभिस्तस्थौ महाचल इवाऽपरः ।। ५ ।।
ततो ममन्थुस्तरसा संप्राप्तपरमोजसः ।।
सविस्मया महाब्धिं ते सुरासुरगणा मुदा ।। ६ ।।
नारायणानुभावेन नापुर्द्देवादयः श्रमम् ।।
शुशुभे मन्थनं तच्च सममाकर्षणात्तदा ।। ७ ।।
मथ्यमाने महाम्भोधौ सुस्रुवुः परितस्तदा ।।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ।। ८ ।।
तथाभूतादम्बुनिधेराविरासीत्कलानिधिः ।।
कान्त्यौषधीनामध्यक्षः सर्वासां य उदीर्यते ।। ९ ।।
ततो गवामधिष्ठात्री सर्वासामपि कामधुक् ।।
हविर्द्धान्यभवद्धेनुः शीतांशुसदृशद्युतिः ।। 2.9.12.१० ।।
अश्वः श्वेतोऽथाविरासीद्धयानामधिदेवता ।।
ऐरावतश्च नागेन्द्रश्चतुर्द्दन्तः शशिप्रभः ।। ११ ।।
पारिजातो दिव्यतरुस्तरुराजस्ततोऽभवत् ।।
मणिरत्नं कौस्तुभाख्यं पद्मरागमभूत्ततः ।। १२ ।।
ततोऽभवन्नप्सरसो रूपलावण्यभूमयः ।।
सुरा देवी ततो जज्ञे सर्वमादकदेवता ।। १३ ।।
आसीदथ धनुः शार्ङ्गं सर्वशस्त्राधिदैवतम् ।।
वाद्याधिदैवतं शंखः पाञ्चजन्यस्ततोऽभवत् ।। १४ ।।
तत्र चन्द्रः पारिजातस्तथैवाप्सरसां गणः ।।
आदित्यपथमाश्रित्य तस्थुरेते तु तत्क्षणम् ।। १५ ।।
वारुणीमश्वराजं च दैत्येशा जगृहुर्द्रुतम् ।।
ऐरावतं देवराजो जग्राहानुमताद्धरेः ।। १६ ।।
कौस्तुभश्च धनुः शंखो विष्णुमेव प्रपेदिरे ।।
हविर्द्धानीं तु ते सर्वे तापसेभ्यो ददुस्तदा ।। १७ ।।
मथ्यमानात्पुनः सिन्धोः साक्षाच्छ्रीरभवत्स्वयम् ।।
आनन्दयन्ती स्वदृशा त्रिलोकीं हतवर्चसम् ।। १८ ।।
तां ग्रहीतुं तु सर्वेपि सुरासुरनरादयः ।।
ऐच्छंस्तस्याः प्रतापात्तु शेकेन्त्येतुं न कश्चन ।। १९ ।।
ततस्तां पद्महस्तत्वाच्छ्रीं विदित्वैव वासवः ।।
आनन्दं परमं प्राप ब्रह्माद्या ये च तद्विदः ।।2.9.12.२०।।
तावत्तत्राम्बुधिः साक्षादेत्य तां हैम आसने।।
कन्या ममेयमित्युक्त्वा गृहीत्वाङ्क उपाविशत्।।२१।।
पुनरब्धेर्मथ्यमानादधिकं बलिभिश्च तैः ।।
सुधार्थिभिर्द्धैर्यवद्भिरपि नैवाभवत्सुधा ।। २२ ।।
तदा शिथिलयत्नास्ते निराशा अमृतोद्भवे ।।
प्रम्लानवक्त्राः खिन्नाश्च बभूवुः काश्यपा मुने ।। २३ ।।
दृष्ट्वा तथाविधांस्तांश्च भगवान्करुणानिधिः ।।
उद्युक्तोभूत्स्वयं ब्रह्मन्मन्थनाय हसन्विभुः ।। २४ ।।
रत्नकाञ्चीदृढाबद्धकक्षपीताम्बरद्युतिः ।।
द्वाभ्यां द्वाभ्यामहिं मध्ये दोर्भ्यामुभयतोग्रहीत् ।। २५ ।।
धृताहिवदना दैत्यास्तस्थुरेकत एव ते ।।
एकतो धृततत्पुच्छा देवास्तस्थुस्तदाखिलाः ।। २६ ।।
तन्मध्यगश्च भगवान्ममन्थाब्धिं स लीलया ।।
ददानो नयनानन्द चञ्चत्करविभूषणः ।। २७ ।।
ब्रह्मा सहर्षिप्रवरैरन्तरिक्षस्थितस्तदा ।।
अवाकिरत्तं कुसुमैः कुर्वञ्जयजयध्वनिम् ।। २८ ।।
मथ्यमानात्ततः सिन्धोर्ज्जज्ञे धन्वन्तरिः पुमान् ।।
विष्णोरंशेन गौरांगः सुधाकुम्भं करे दधत् ।। २९ ।।
घृतादीनां हि सर्वेषां रसानां सारमुत्तमम् ।।
अमृतं तद्गृहीत्वाऽसौ श्रियोन्तिकमुपाययौ ।। 2.9.12.३० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने चतुर्दशरत्नोत्पत्तिर्नाम द्वादशोऽध्यायः ।। १२ ।।