स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १८

।। श्रीभगवानुवाच ।।
दर्शनं मम यज्जातं तव तत्तु महामुने ।।
नित्यैकान्तिकभक्तत्वान्निर्दम्भत्वान्मदिच्छया ।। १ ।।
अहिंसा ब्रह्मचर्यं च त्वयि नित्यं च तद्द्वयम् ।।
स्वधर्मोपशमौ चैव वैराग्यं चात्मवेदनम् ।। २ ।।
सत्सङ्गोऽष्टाङ्गयोगश्च सर्वथेन्द्रियनिग्रहः ।।
मुन्यन्नवृत्तिश्च तपः सर्वव्यसनहीनता ।। ३ ।।
मदेकान्तिकभक्तिश्च महात्म्यज्ञानपूर्विका ।।
वर्त्तते तेन मामत्र पश्यसि त्वं हि सुव्रत ।। ४ ।।
ईदृग्लक्षणसंपन्ना ये स्युरन्येपि मानवाः ।।
तेपि मामीदृशं विप्र पश्यन्त्येकान्तिकप्रियम् ।। ५ ।।
असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि ।।
राधालक्ष्मीयुतो नित्यं वसामि स्वाश्रितैः सह ।। ६ ।।
वासुदेवस्वरूपोहं सर्वकर्मफलप्रदः ।।
अन्तर्यामितया वर्त्ते स्वतन्त्रः सर्वदेहिनाम् ।। ७ ।।
वैकुण्ठाख्यं महाधाम्नि लक्ष्म्या सह चतुर्भुजः ।।
वसामि नन्दगरुडमुख्यैः साकं च पार्षदैः ।। ८ ।।
धाम्नि तेजोमये दिव्ये श्वेतद्वीपेऽन्वहं भुवि ।।
ददामि श्वेतमुक्तेभ्यः पञ्चकालं स्वदर्शनम् ।। ९।।
कुर्वेऽनिरुद्धप्रद्युम्नसंकर्षणसमाह्वयैः ।।
स्वरूपैर्नैककोट्यण्डसर्गस्थित्यप्ययानहम् ।।2.9.18.१०।।
सर्गारम्भे मया ब्रह्मा सृष्टो नाभिसरोरुहात् ।।
तपसाराधयामास स मां यज्ञैश्च नारद ।।११।।
ततस्तस्मै प्रसन्नोऽहं प्राददामीप्सितान्वरान् ।।
ब्रह्मन्प्रास्यसि सामर्थ्यं प्रजानां त्वं विसर्जने ।। १२ ।।
आज्ञायामेव ताः सर्वास्तव स्थास्यन्ति मद्वरात् ।।
वेदाश्चापि स्फुरिष्यन्ति तव बुद्धौ सनातनाः ।। १३ ।।
ज्ञानं च मत्स्वरूपस्य यथावत्ते भविष्यति ।।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ।। १४ ।।
सुरासुरगणानां च मुनीनां च महात्मनाम् ।।
त्वमेव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ।। १५।।
असाध्ये यत्र कार्ये च मोहमेष्यसि तत्त्वहम्।।
प्रादुर्भूय करिष्यमि स्मृतमात्रस्त्वया विधे ।। १६ ।।
सृज्यमाने त्वया विश्वे नष्टां पृथ्वीं महार्णवे ।।
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ।।
हिरण्याक्षं निहत्यैव दैतेयं बलगर्वितम् ।। १७ ।।
दिनान्ते तव मत्स्योहं भूत्वा क्षोणीं तरीमिव ।।
सहौषधिं धारयिष्ये मन्वादींश्च निशावधि ।। १८ ।।
सुधायै मथ्नतामब्धिं काश्यपानां निराश्रयम् ।।
मन्थानं कूर्मरूपोहं धास्ये पृष्ठे च मन्दरम् ।। १९ ।।
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं विधे ।।
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ।। 2.9.18.२० ।।
विरोचनस्य बलवान्बलिः पुत्रो महासुरः ।।
भविष्यति स शक्रं च स्वाराज्याच्च्यावयिष्यति ।। २१ ।।
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।।
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ।। २२ ।।
ततो राज्यं प्रदास्यामि देवेन्द्राय दिवः पुनः ।।
देवताः स्थापयिष्यामि स्वेषु स्थानेष्वहं विधे ।।
बलिं चैव करिष्यामि पातालतलवासिनम् ।।२३।।
कर्दमाद्देवहूत्यां च भूत्वाऽथ कपिलाभिधः ।।
प्रवर्तयिष्ये कालेन नष्टं सांख्यं विरागयुक् ।।२४।।
दत्तो भूत्याऽनसूययामत्रेरान्विक्षिकीं ततः ।।
प्रह्लादायोपदेक्ष्यामि विद्यां च यदवे विधे ।। २५ ।।
मेरुदेव्यां सुतो नाभेर्भूत्वाहमृषभो भुवि ।।
धर्मं पारमहंस्याख्यं वर्तयिष्ये सनातनम् ।। २६ ।।
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।।
क्षत्रं चोत्सादयिष्यामि भग्नसेतुकदध्वगम्।। ।। २७ ।।
सन्धौ तु समनुप्राप्ते त्रेताया द्वापरस्य च ।।
कौशल्यायां भविष्यामि रामो दशरथादहम् ।। २८ ।।
सीताभिधाना लक्ष्मीश्च भवित्री जनकात्मजा ।।
उद्वहिष्यामि तामैशं भंक्त्वा धनुरहं महत् ।।२९।।
ततो रक्षःपतिं घोरं देवर्षिद्रोहकारिणम् ।।
सीतापहारिणं संख्ये हनिष्यामि सहानुजम् ।। 2.9.18.३० ।।
तस्य मे तु चरित्राणि वाल्मीक्याद्या महर्षयः ।।
तदा गास्यन्ति बहुधा यच्छ्रुतेः स्यादघक्षयः ।। ३१ ।।
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके ।।
भूभारासुरनाशार्थं पातुं धर्मं च धार्मिकान् ।।
वसुदेवाद्भविष्यामि देवक्यां मथुरापुरे ।। ३२ ।।
कृष्णोहं वासुदेवाख्यस्तथा संकर्षणो बलः ।।
प्रद्युम्नश्चाऽनिरुद्धश्च भविष्यन्ति यदोः कुले ।। ३३ ।।
गोपस्य वृषभानोस्तु सुता राधा भविष्यति ।।
वृन्दावने तया साकं विहरिष्यामि पद्मज ।। ३४ ।।
लक्ष्मीश्च भीष्मकसुता रुक्मिण्याख्या भविष्यति ।।
उद्वहिष्यामि राजन्यान्युद्धे निर्जित्य तामहम् ।। ३५ ।।
धर्मद्रुहोऽसुरान्हत्वा तदाविष्टांश्च भूपतीन् ।।
धर्मं संस्थापयन्नेव करिष्ये निर्भरां भुवम् ।। ३६ ।।
येन केनापि भावेन यस्य कस्यापि मानसम् ।।
मयि संयोक्ष्यते तंतं नेष्ये ब्रह्मगतिं पराम् ।। ३७ ।।
धर्मं भुवि स्थापयित्वा कृत्वा यदुकुलक्षयम् ।।
पश्यतां सर्वदेवानामन्तर्द्धास्ये भुवस्ततः ।। ।। ३८ ।।
कृष्णस्य मम वीर्याणि कृष्णद्वैपायनादयः ।।
गास्यन्ति बहुधा ब्रह्मन्सद्यः पापहराणि हि ।। ३९ ।।
कृष्णद्वैपायनो भूत्वा पराशरमुनेः सुतः ।।
शाखाविभागं वेदस्य करिष्यामि तरोरिव ।। 2.9.18.४० ।।
वैदिकं विधिमाश्रित्य त्रिलोकीपरिपीडकान् ।।
छलेन मोहयिष्यामि भूत्वा बुद्धोऽसुरानहम्।। ४१ ।।
मया कृष्णेन निहताः सार्जुनेन रणेषु ये ।।
प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्मं यदा क्षितौ ।।४२।।
धर्मदेवात्तदा भक्तादहं नारायणो मुनिः।।
जनिष्ये कोशले देशे भूमौ हि सामगो द्विजः।।४३।।
मुनिशापान्नृतां प्राप्तानृषींस्तात तथोद्धवम्।।
ततोऽवितासुरेभ्योऽहं सद्धर्मं स्थापयन्नज।।४४।।
जनान्म्लेच्छमयान्भूमौ कलेरन्ते महैनसः ।।
कल्की भूत्वा हनिष्यामि विचरन्दिव्यवाजिना।। ४५।।
यदा यदा च वेदोक्तो धर्मो नाशिष्यतेऽसुरैः।।
प्रादुर्भावो भविष्यो मे तद्रक्षायै तदा तदा ।। ४६ ।।
तस्माच्चिन्तां विहायैव प्रजाः सृज यथा पुरा ।।
एतान्दत्त्वा वरांस्तस्मा अहमन्तर्हितोऽभवम् ।। ४७ ।।
यथा तस्मै वरा दत्तास्तथैव च मया कृतम् ।।
कुर्वे करिष्ये च मुने निजशक्तिभिरञ्जसा ।। ४८ ।।
एवंविधस्य मे ब्रह्मन्नीशितुः सर्वदेहिनाम् ।।
दर्शनं दुर्लभं जातं तवैकान्तिकभक्तितः ।। ४९ ।।
वरं वरय मत्तस्त्वं स्वाभीष्टं मुनिसत्तम ।।
प्रसन्नोस्मि भृशं तुभ्यं नाफलं मम दर्शनम्।।2.9.18.५०।।
स्कन्द उवाच ।।
श्रुत्वेति भगवद्वाक्यं नारदो मुनिसत्तमः ।।
मन्यमानो निजं धन्यं तमुवाच प्रभुं मुने।।५१।।
दर्शनादेव ते स्वामिन्संपूर्णो मे मनोरथः ।।
इदं हि दुर्लभं मन्ये सर्वेषामपि देहिनाम् ।। ५२ ।।
अतस्ते च त्वदीयानां त्वद्धाम्नोस्याऽमृतस्य च ।।
साक्षात्समीक्षणादन्यत्प्राप्यं मे नास्ति वांछितम् ।। ५३ ।।
इतोन्यद्दुर्लभं क्वापि नास्ति ब्रह्माण्डगोलके ।।
यदहं परितुष्टात्ते प्रार्थयेयमिहाच्युत ।। ५४ ।।
लोकान्तरसुखं यत्तद्वैदिकैरेव कर्मभिः ।।
दैवैः पित्र्यैश्च लभ्येत तच्चाप्यस्ति हि नश्वरम् ।। ५५ ।।
नेच्छामि तदहं किञ्चित्सुखं त्वत्तः परं प्रभो ।।
वरमेकं तु याचे त्वत्स्वेप्सितं वरदर्षभात् ।। ५६ ।।
तवाऽथ तव भक्तानां सदैव गुणगायने ।।
अत्युत्सुकास्तु मे बुद्धिस्त्वयि प्रीतिविवर्द्धिनी ।। ५७ ।।
।। स्कन्द उवाच ।।
तथास्त्विति प्रतिश्रुत्य कृष्णस्तेनेति याचितम् ।।
गानोपयुक्तां महतीं वीणां दत्त्वाऽब्रवीत्पुनः ।। ५८ ।।
श्रीभगवानुवाच ।।
अधुना गच्छ देवर्षे विशालां बदरीमितः ।।
तत्र धर्मात्मजं भक्त्या मामाराधय सुव्रत ।। ५९ ।।
त्वं ह्येकान्तिकभक्तोसि मम निष्कपटान्तरः ।।
तेन त्वामधिकं मन्ये विधेरपि पितुस्तव ।। 2.9.18.६० ।।
यादृशोऽहं च यद्रूपो यावांश्च महिमा मम ।।
विदुस्तत्सर्वमपि मे भक्ता एकान्तिका मुने ।।।। ६१ ।।
हृदि चिन्त्योहमेवास्मि सतां तेषां च ते मम ।।
तेषामिष्टं न मत्तोऽन्यन्मम तेभ्यो न किञ्चन ।। ६२ ।।
यथा पतिव्रता नार्यो वशीकुर्वन्ति सत्पतिम् ।।
निजैर्गुणैस्तथा भक्ता वशीकुर्वन्ति मामपि ।। ६३ ।।
अनुयामि श्रिया साकं तानहं परवानिव ।।
यत्रयत्र च ते सन्ति तत्रतत्राहमस्मि हि ।। ६४ ।।
सत्संगादेव मत्प्राप्तिर्भवेद्भुवि मुमुक्षताम् ।।
नान्योपायेन देवर्षे सत्यमित्यवधारय ।। ६५ ।।
मामेव यर्हि शरणं मानुषाः प्राप्नुवन्ति ये ।।
तर्ह्येव ते विमुच्यन्ते मायाया जीवबन्धनात् ।। ६६ ।।
मां प्रपन्नस्तु पुरुषो येन केनापि भावतः ।।
यथेष्टं सुखमाप्नोति न तु संसृतिमन्यवत् ।। ६७ ।।
स्कन्द उवाच ।।
एवमुक्तो भगवता प्राप्तोऽनुग्रहमीप्सितम् ।।
प्रणम्य साश्रुनयनः पर्यावर्तत नारदः ।। ६८ ।।
तमेव वीणया गायञ्छ्वेतमुक्तमपश्यत ।।
प्राग्वत्स्वाग्रे चलन्तं तमन्वगच्छद् द्विजर्षभ ।। ६९ ।।
सद्यः श्वेतं महाद्वीपं प्राप्य श्वेतान्प्रणम्य तान् ।।
निवृत्तो नारदो ब्रह्मंस्तरसा मेरुमागमत् ।। 2.9.18.७० ।।
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ।।
निपपात च खात्तूर्णं विशालां बदरीमनु ।।७१।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवावतारादिकथनंनामाऽष्टादशोऽध्यायः ।।१८।।